धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 76

  1. बृहदश्व उवाच अथ तां वयुषितॊ रात्रिं नलॊ राजा सवलंकृतः वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम ॥ 1 ॥

  2. ततॊ ऽभिवादयाम आस परयतः शवशुरं नलः तस्यानु दमयन्ती च ववन्दे पितरं शुभा ॥ 2 ॥

  3. तं भीमः परतिजग्राह पुत्रवत परया मुदा यथार्हं पूजयित्वा तु समाश्वासयत परभुः नलेन सहितां तत्र दमयन्तीं पतिव्रताम ॥ 3 ॥

  4. ताम अर्हणां नलॊ राजा परतिगृह्य यथाविधि परिचर्यां सवकां तस्मै यथावत परत्यवेदयत ॥ 4 ॥

  5. ततॊ बभूव नगरे सुमहान हर्षनिस्वनः जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम ॥ 5 ॥

  6. अशॊभयच च नगरं पताकाध्वजमालिनम सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास तदा ॥ 6 ॥

  7. दवारि दवारि च पौराणां पुष्पभङ्गः परकल्पितः अर्चितानि च सर्वाणि देवतायतनानि च ॥ 7 ॥

  8. ऋतुपर्णॊ ऽपि शुश्राव बाहुकछद्मिनं नलम दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ 8 ॥

  9. तम आनाय्य नलॊ राजा कषमयाम आस पार्थिवम स च तं कषमयाम आस हेतुभिर बुद्धिसंमतः ॥ 9 ॥

  10. स सत्कृतॊ महीपालॊ नैषधं विस्मयान्वितः दिष्ट्या समेतॊ दारैः सवैर भवान इत्य अभ्यनन्दत ॥ 10 ॥

  11. कच चित तु नापराधं ते कृतवान अस्मि नैषध अज्ञातवासं वसतॊ मद्गृहे निषधाधिप ॥ 11 ॥

  12. यदि वा बुद्धिपूर्वाणि यद्य अबुद्धानि कानि चित मया कृतान्य अकार्याणि तानि मे कषन्तुम अर्हसि ॥ 12 ॥

  13. नल उवाच न मे ऽपराधं कृतवांस तवं सवल्पम अपि पार्थिव कृते ऽपि च न मे कॊपः कषन्तव्यं हि मया तव ॥ 13 ॥

  14. पूर्वं हय असि सखा मे ऽसि संबन्धी च नराधिप अत ऊर्ध्वं तु भूयस तवं परीतिम आहर्तुम अर्हसि ॥ 14 ॥

  15. सर्वकामैः सुविहितः सुखम अस्म्य उषितस तवयि न तथा सवगृहे राजन यथा तव गृहे सदा ॥ 15 ॥

  16. इदं चैव हयज्ञानं तवदीयं मयि तिष्ठति तद उपाकर्तुम इच्छामि मन्यसे यदि पार्थिव ॥ 16 ॥

  17. एवम उक्त्वा ददौ विद्याम ऋतुपर्णाय नैषधः स च तां परतिजग्राह विधिदृष्टेन कर्मणा ॥ 17 ॥

  18. ततॊ गृह्याश्वहृदयं तदा भाङ्गस्वरिर नृपः सूतम अन्यम उपादाय ययौ सवपुरम एव हि ॥ 18 ॥

  19. ऋतुपर्णे परतिगते नलॊ राजा विशां पते नगरे कुण्डिने कालं नातिदीर्घम इवावसत ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 77

Previous: अध्याय 75