दमयन्त्य उवाच न माम अर्हसि कल्याण पापेन परिशङ्कितुम मया हि देवान उत्सृज्य वृतस तवं निषधाधिप ॥ 1 ॥
तवाभिगमनार्थं तु सर्वतॊ बराह्मणा गताः वाक्यानि मम गाथाभिर गायमाना दिशॊ दश ॥ 2 ॥
ततस तवां बराह्मणॊ विद्वान पर्णादॊ नाम पार्थिव अभ्यगच्छत कॊसलायाम ऋतुपर्णनिवेशने ॥ 3 ॥
तेन वाक्ये हृते सम्यक परतिवाक्ये तथाहृते उपायॊ ऽयं मया दृष्टॊ नैषधानयने तव ॥ 4 ॥
तवाम ऋते न हि लॊके ऽनय एकाह्ना पृथिवीपते समर्थॊ यॊजनशतं गन्तुम अश्वैर नराधिप ॥ 5 ॥
तथा चेमौ महीपाल भजे ऽहं चरणौ तव यथा नासत्कृतं किं चिन मनसापि चराम्य अहम ॥ 6 ॥
अयं चरति लॊके ऽसमिन भूतसाक्षी सदागतिः एष मुञ्चतु मे पराणान यदि पापं चराम्य अहम ॥ 7 ॥
तथा चरति तिग्मांशुः परेण भुवनं सदा स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम ॥ 8 ॥
चन्द्रमाः सर्वभूतानाम अन्तश चरति साक्षिवत स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम ॥ 9 ॥
एते देवास तरयः कृत्स्नं तरैलॊक्यं धारयन्ति वै विब्रुवन्तु यथासत्यम एते वाद्य तयजन्तु माम ॥ 10 ॥
एवम उक्ते ततॊ वायुर अन्तरिक्षाद अभाषत नैषा कृतवती पापं नलं सत्यं बरवीमि ते ॥ 11 ॥
राजञ शीलनिधिः सफीतॊ दमयन्त्या सुरक्षितः साक्षिणॊ रक्षिणश चास्या वयं तरीन परिवत्सरान ॥ 12 ॥
उपायॊ विहितश चायं तवदर्थम अतुलॊ ऽनया न हय एकाह्ना शतं गन्ता तवदृते ऽनयः पुमान इह ॥ 13 ॥
उपपन्ना तवया भैमी तवं च भैम्या महीपते नात्र शङ्का तवया कार्या संगच्छ सह भार्यया ॥ 14 ॥
तथा बरुवति वायौ तु पुष्पवृष्टिः पपात ह देवदुन्दुभयॊ नेदुर ववौ च पवनः शिवः ॥ 15 ॥
तद अद्भुततमं दृष्ट्वा नलॊ राजाथ भारत दमयन्त्यां विशङ्कां तां वयपाकर्षद अरिंदम ॥ 16 ॥
ततस तद वस्त्रम अरजः परावृणॊद वसुधाधिपः संस्मृत्य नागराजानं ततॊ लेभे वपुः सवकम ॥ 17 ॥
सवरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा पराक्रॊशद उच्चैर आलिङ्ग्य पुण्यश्लॊकम अनिन्दिता ॥ 18 ॥
भैमीम अपि नलॊ राजा भराजमानॊ यथा पुरा सस्वजे सवसुतौ चापि यथावत परत्यनन्दत ॥ 19 ॥
ततः सवॊरसि विन्यस्य वक्त्रं तस्य शुभानना परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ 20 ॥
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥ 21 ॥
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च भीमायाकथयत परीत्या वैदर्भ्या जननी नृप ॥ 22 ॥
ततॊ ऽबरवीन महाराजः कृतशौचम अहं नलम दमयन्त्या सहॊपेतं काल्यं दरष्टा सुखॊषितम ॥ 23 ॥
ततस तौ सहितौ रात्रिं कथयन्तौ पुरातनम वने विचरितं सर्वम ऊषतुर मुदितौ नृप ॥ 24 ॥
स चतुर्थे ततॊ वर्षे संगम्य सह भार्यया सर्वकामैः सुसिद्धार्थॊ लब्धवान परमां मुदम ॥ 25 ॥
दमयन्त्य अपि भर्तारम अवाप्याप्यायिता भृशम अर्धसंजातसस्येव तॊयं पराप्य वसुंधरा ॥ 26 ॥
सैवं समेत्य वयपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा रराज भैमी समवाप्तकामा; शीतांशुना रात्रिर इवॊदितेन ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 75
Reach this point to mark the section finished.
Continue to अध्याय 76