बृहदश्व उवाच सर्वं विकारं दृष्ट्वा तु पुण्यश्लॊकस्य धीमतः आगत्य केशिनी कषिप्रं दमयन्त्यै नयवेदयत ॥ 1 ॥
दमयन्ती ततॊ भूयः परेषयाम आस केशिनीम मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ 2 ॥
परीक्षितॊ मे बहुशॊ बाहुकॊ नलशङ्कया रूपे मे संशयस तव एकः सवयम इच्छामि वेदितुम ॥ 3 ॥
स वा परवेश्यतां मातर मां वानुज्ञातुम अर्हसि विदितं वाथ वाज्ञातं पितुर मे संविधीयताम ॥ 4 ॥
एवम उक्ता तु वैदर्भ्या सा देवी भीमम अब्रवीत दुहितुस तम अभिप्रायम अन्वजानाच च पार्थिवः ॥ 5 ॥
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ नलं परवेशयाम आस यत्र तस्या परतिश्रयः ॥ 6 ॥
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा तीव्रशॊकसमाविष्टा बभूव वरवर्णिनी ॥ 7 ॥
ततः काषायवसना जटिला मलपङ्किनी दमयन्ती महाराज बाहुकं वाक्यम अब्रवीत ॥ 8 ॥
दृष्टपूर्वस तवया कश चिद धर्मज्ञॊ नाम बाहुक सुप्ताम उत्सृज्य विपिने गतॊ यः पुरुषः सत्रियम ॥ 9 ॥
अनागसं परियां भार्यां विजने शरममॊहिताम अपहाय तु कॊ गच्छेत पुण्यश्लॊकम ऋते नलम ॥ 10 ॥
किं नु तस्य मया कार्यम अपराद्धं महीपतेः यॊ माम उत्सृज्य विपिने गतवान निद्रया हृताम ॥ 11 ॥
साक्षाद देवान अपाहाय वृतॊ यः स मया पुरा अनुव्रतां साभिकामां पुत्रिणीं तयक्तवान कथम ॥ 12 ॥
अग्नौ पाणिगृहीतां च हंसानां वचने सथिताम भरिष्यामीति सत्यं च परतिश्रुत्य कव तद गतम ॥ 13 ॥
दमयन्त्या बरुवन्त्यास तु सर्वम एतद अरिंदम शॊकजं वारि नेत्राभ्याम असुखं परास्रवद बहु ॥ 14 ॥
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत परिस्रवन नलॊ दृष्ट्वा शॊकार्त इदम अब्रवीत ॥ 15 ॥
मम राज्यं परनष्टं यन नाहं तत कृतवान सवयम कलिना तत कृतं भीरु यच च तवाम अहम अत्यजम ॥ 16 ॥
तवया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा वनस्थया दुःखितया शॊचन्त्या मां विवाससम ॥ 17 ॥
स मच्छरीरे तवच्छापाद दह्यमानॊ ऽवसत कलिः तवच छापदग्धः सततं सॊ ऽगनाव इव समाहितः ॥ 18 ॥
मम च वयवसायेन तपसा चैव निर्जितः दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ 19 ॥
विमुच्य मां गतः पापः स ततॊ ऽहम इहागतः तवदर्थं विपुलश्रॊणि न हि मे ऽनयत परयॊजनम ॥ 20 ॥
कथं नु नारी भर्तारम अनुरक्तम अनुव्रतम उत्सृज्य वरयेद अन्यं यथा तवं भीरु कर्हि चित ॥ 21 ॥
दूताश चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात भैमी किल सम भर्तारं दवितीयं वरयिष्यति ॥ 22 ॥
सवैरवृत्ता यथाकामम अनुरूपम इवात्मनाः शरुत्वैव चैवं तवरितॊ भाङ्गस्वरिर उपस्थितः ॥ 23 ॥
दमयन्ती तु तच छरुत्वा नलस्य परिदेवितम पराञ्जलिर वेपमाना च भीता वचनम अब्रवीत ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 74
Reach this point to mark the section finished.
Continue to अध्याय 75