धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 73

  1. बृहदश्व उवाच दमयन्ती तु तच छरुत्वा भृशं शॊकपरायणा शङ्कमाना नलं तं वै केशिनीम इदम अब्रवीत ॥ 1 ॥

  2. गच्छ केशिनि भूयस तवं परीक्षां कुरु बाहुके आब्रुवाणा समीपस्था चरितान्य अस्य लक्षय ॥ 2 ॥

  3. यदा च किं चित कुर्यात स कारणं तत्र भामिनि तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम ॥ 3 ॥

  4. न चास्य परतिबन्धेन देयॊ ऽगनिर अपि भामिनि याचते न जलं देयं सम्यग आत्वरमाणया ॥ 4 ॥

  5. एतत सर्वं समीक्ष्य तवं चरितं मे निवेदय यच चान्यद अपि पश्येथास तच चाख्येयं तवया मम ॥ 5 ॥

  6. दमयन्त्यैवम उक्ता सा जगामाथाशु केशिनी निशाम्य च हयज्ञस्य लिङ्गानि पुनर आगमत ॥ 6 ॥

  7. सा तत सर्वं यथावृत्तं दमयन्त्यै नयवेदयत निमित्तं यत तदा दृष्टं बाहुके दिव्यमानुषम ॥ 7 ॥

  8. केशिन्य उवाच दृढं शुच्युपचारॊ ऽसौ न मया मानुषः कव चित दृष्टपूर्वः शरुतॊ वापि दमयन्ति तथाविधः ॥ 8 ॥

  9. हरस्वम आसाद्य संचारं नासौ विनमते कव चित तं तु दृष्ट्वा यथासङ्गम उत्सर्पति यथासुखम संकटे ऽपय अस्य सुमहद विवरं जायते ऽधिकम ॥ 9 ॥

  10. ऋतुपर्णस्य चार्थाय भॊजनीयम अनेकशः परेषितं तत्र राज्ञा च मांसं सुबहु पाशवम ॥ 10 ॥

  11. तस्य परक्षालनार्थाय कुम्भस तत्रॊपकल्पितः स तेनावेक्षितः कुम्भः पूर्ण एवाभवत तदा ॥ 11 ॥

  12. ततः परक्षालनं कृत्वा समधिश्रित्य बाहुकः तृणमुष्टिं समादाय आविध्यैनं समादधत ॥ 12 ॥

  13. अथ परज्वलितस तत्र सहसा हव्यवाहनः तद अद्भुततमं दृष्ट्वा विस्मिताहम इहागता ॥ 13 ॥

  14. अन्यच च तस्मिन सुमहद आश्चर्यं लक्षितं मया यद अग्निम अपि संस्पृश्य नैव दह्यत्य असौ शुभे ॥ 14 ॥

  15. छन्देन चॊदकं तस्य वहत्य आवर्जितं दरुतम अतीव चान्यत सुमहद आश्चर्यं दृष्टवत्य अहम ॥ 15 ॥

  16. यत स पुष्पाण्य उपादाय हस्ताभ्यां ममृदे शनैः मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य अथ ॥ 16 ॥

  17. भूय एव सुगन्धीनि हृषितानि भवन्ति च एतान्य अद्भुतकल्पानि दृष्ट्वाहं दरुतम आगता ॥ 17 ॥

  18. बृहदश्व उवाच दमयन्ती तु तच छरुत्वा पुण्यश्लॊकस्य चेष्टितम अमन्यत नलं पराप्तं कर्मचेष्टाभिसूचितम ॥ 18 ॥

  19. सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम केशिनीं शलक्ष्णया वाचा रुदती पुनर अब्रवीत ॥ 19 ॥

  20. पुनर गच्छ परमत्तस्य बाहुकस्यॊपसंस्कृतम महानसाच छृतं मांसं समादायैहि भामिनि ॥ 20 ॥

  21. सा गत्वा बाहुके वयग्रे तन मांसम अपकृष्य च अत्युष्णम एव तवरिता तत्क्षणं परियकारिणी दमयन्त्यै ततः परादात केशिनी कुरुनन्दन ॥ 21 ॥

  22. सॊचिता नलसिद्धस्य मांसस्य बहुशः पुरा पराश्य मत्वा नलं सूदं पराक्रॊशद भृशदुःखिता ॥ 22 ॥

  23. वैक्लव्यं च परं गत्वा परक्षाल्य च मुखं ततः मिथुनं परेषयाम आस केशिन्या सह भारत ॥ 23 ॥

  24. इन्द्रसेनां सह भरात्रा समभिज्ञाय बाहुकः अभिद्रुत्य ततॊ राजपरिष्वज्याङ्कम आनयत ॥ 24 ॥

  25. बाहुकस तु समासाद्य सुतौ सुरसुतॊपमौ भृशं दुःखपरीतात्मा सस्वरं पररुदॊद ह ॥ 25 ॥

  26. नैषधॊ दर्शयित्वा तु विकारम असकृत तदा उत्सृज्य सहसा पुत्रौ केशिनीम इदम अब्रवीत ॥ 26 ॥

  27. इदं सुसदृशं भद्रे मिथुनं मम पुत्रयॊः ततॊ दृष्ट्वैव सहसा बाष्पम उत्सृतवान अहम ॥ 27 ॥

  28. बहुशः संपतन्तीं तवां जनः शङ्केत दॊषतः वयं च देशातिथयॊ गच्छ भद्रे नमॊ ऽसु ते ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 74

Previous: अध्याय 72