दमयन्त्य उवाच गच्छ केशिनि जानीहि क एष रथवाहकः उपविष्टॊ रथॊपस्थे विकृतॊ हरस्वबाहुकः ॥ 1 ॥
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता पृच्छेथाः पुरुषं हय एनं यथातत्त्वम अनिन्दिते ॥ 2 ॥
अत्र मे महती शङ्का भवेद एष नलॊ नृपः तथा च मे मनस्तुष्टिर हृदयस्य च निर्वृतिः ॥ 3 ॥
बरूयाश चैनं कथान्ते तवं पर्णादवचनं यथा परतिवाक्यं च सुश्रॊणि बुध्येथास तवम अनिन्दिते ॥ 4 ॥
बृहदश्व उवाच एवं समाहिता गत्वा दूती बाहुकम अब्रवीत दमयन्त्य अपि कल्याणी परासादस्थान्ववैक्षत ॥ 5 ॥
सवागतं ते मनुष्येन्द्र कुशलं ते बरवीम्य अहम दमयन्त्या वचः साधु निबॊध पुरुषर्षभ ॥ 6 ॥
कदा वै परस्थिता यूयं किमर्थम इह चागताः तत तवं बरूहि यथान्यायं वैदर्भी शरॊतुम इच्छति ॥ 7 ॥
बाहुक उवाच शरुतः सवयंवरॊ राज्ञा कौसल्येन यशस्विना दवितीयॊ दमयन्त्या वै शवॊभूत इति भामिनि ॥ 8 ॥
शरुत्वा तं परस्थितॊ राजा शतयॊजनयायिभिः हयैर वातजवैर मुख्यैर अहम अस्य च सारथिः ॥ 9 ॥
केशिन्य उवाच अथ यॊ ऽसौ तृतीयॊ वः स कुतः कस्य वा पुनः तवं च कस्य कथं चेदं तवयि कर्म समाहितम ॥ 10 ॥
बाहुक उवाच पुण्यश्लॊकस्य वै सूतॊ वार्ष्णेय इति विश्रुतः स नले विद्रुते भद्रे भाङ्गस्वरिम उपस्थितः ॥ 11 ॥
अहम अप्य अश्वकुशलः सूदत्वे च सुनिष्ठितः ऋतुपर्णेन सारथ्ये भॊजने च वृतः सवयम ॥ 12 ॥
केशिन्य उवाच अथ जानाति वार्ष्णेयः कव नु राजा नलॊ गतः कथं चित तवयि वैतेन कथितं सयात तु बाहुक ॥ 13 ॥
बाहुक उवाच इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः गतस ततॊ यथाकामं नैष जानाति नैषधम ॥ 14 ॥
न चान्यः पुरुषः कश चिन नलं वेत्ति यशस्विनि गूढश चरति लॊके ऽसमिन नष्टरूपॊ महीपतिः ॥ 15 ॥
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हि चित ॥ 16 ॥
केशिन्य उवाच यॊ ऽसाव अयॊध्यां परथमं गतवान बराह्मणस तदा ॥ 17 ॥
कव नु तवं कितव छित्त्वा वस्त्रार्धं परस्थितॊ मम उत्सृज्य विपिने सुप्ताम अनुरक्तां परियां परिय ॥ 18 ॥
सा वै यथा समादिष्टा तत्रास्ते तवत्प्रतीक्षिणी दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥ 19 ॥
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव परसादं कुरु वै वीर परतिवाक्यं परयच्छ च ॥ 20 ॥
तस्यास तत्प्रियम आख्यानं परब्रवीहि महामते तद एव वाक्यं वैदर्भी शरॊतुम इच्छत्य अनिन्दिता ॥ 21 ॥
एतच छरुत्वा परतिवचस तस्य दत्तं तवया किल यत पुरा तत पुनस तवत्तॊ वैदर्भी शरॊतुम इच्छति ॥ 22 ॥
बृहदश्व उवाच एवम उक्तस्य केशिन्या नलस्य कुरुनन्दन हृदयं वयथितं चासीद अश्रुपूर्णे च लॊचने ॥ 23 ॥
स निगृह्यात्मनॊ दुःखं दह्यमानॊ महीपतिः बाष्पसंदिग्धया वाचा पुनर एवेदम अब्रवीत ॥ 24 ॥
वैषम्यम अपि संप्राप्ता गॊपायन्ति कुलस्त्रियः आत्मानम आत्मना सत्यॊ जितस्वर्गा न संशयः ॥ 25 ॥
रहिता भर्तृभिश चैव न करुध्यन्ति कदा चन पराणांश चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥ 26 ॥
पराणयात्रां परिप्रेप्सॊः शकुनैर हृतवाससः आधिभिर दह्यमानस्य शयामा न करॊद्धुम अर्हति ॥ 27 ॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम भरष्टराज्यं शरिया हीनं कषुधितं वयसनाप्लुतम ॥ 28 ॥
एवं बरुवाणस तद वाक्यं नलः परमदुःखितः न बाष्पम अशकत सॊढुं पररुरॊद च भारत ॥ 29 ॥
ततः सा केशिनी गत्वा दमयन्त्यै नयवेदयत तत सर्वं कथितं चैव विकारं चैव तस्य तम ॥ 30 ॥
इमानि नारीवाक्यानि कथयानः पुनः पुनः ॥ 71 ॥
वनपर्व · Vana Parva
अध्याय 72
Reach this point to mark the section finished.
Continue to अध्याय 73