धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 71

  1. बृहदश्व उवाच ततॊ विदर्भान संप्राप्तं सायाह्ने सत्यविक्रमम ऋतुपर्णं जना राज्ञे भीमाय परत्यवेदयन ॥ 1 ॥

  2. स भीमवचनाद राजा कुण्डिनं पराविशत पुरम नादयन रथघॊषेण सर्वाः सॊपदिशॊ दश ॥ 2 ॥

  3. ततस तं रथनिर्घॊषं नलाश्वास तत्र शुश्रुवुः शरुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥ 3 ॥

  4. दमयन्ती च शुश्राव रथघॊषं नलस्य तम यथा मेघस्य नदतॊ गम्भीरं जलदागमे ॥ 4 ॥

  5. नलेन संगृहीतेषु पुरेव नलवाजिषु सदृशं रथनिर्घॊषं मेने भैमी तथा हयाः ॥ 5 ॥

  6. परासादस्थाश च शिखिनः शालास्थाश चैव वारणाः हयाश च शुश्रुवुस तत्र रथघॊषं महीपतेः ॥ 6 ॥

  7. ते शरुत्वा रथनिर्घॊषं वारणाः शिखिनस तथा परणेदुर उन्मुखा राजन मेघॊदयम इवेक्ष्य ह ॥ 7 ॥

  8. दमयन्त्य उवाच यथासौ रथनिर्घॊषः पूरयन्न इव मेदिनीम मम हलादयते चेतॊ नल एष महीपतिः ॥ 8 ॥

  9. अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि असंख्येयगुणं वीरं विनशिष्याम्य असंशयम ॥ 9 ॥

  10. यदि वै तस्य वीरस्य बाह्वॊर नाद्याहम अन्तरम परविशामि सुखस्पर्शं विनशिष्याम्य असंशयम ॥ 10 ॥

  11. यदि मां मेघनिर्घॊषॊ नॊपगच्छति नैषधः अद्य चामीकरप्रख्यॊ विनशिष्याम्य असंशयम ॥ 11 ॥

  12. यदि मां सिंहविक्रान्तॊ मत्तवारणवारणः नाभिगच्छति राजेन्द्रॊ विनशिष्याम्य असंशयम ॥ 12 ॥

  13. न समराम्य अनृतं किं चिन न समराम्य अनुपाकृतम न च पर्युषितं वाक्यं सवैरेष्व अपि महात्मनः ॥ 13 ॥

  14. परभुः कषमावान वीरश च मृदुर दान्तॊ जितेन्द्रियः रहॊऽनीचानुवर्ती च कलीबवन मम नैषधः ॥ 14 ॥

  15. गुणांस तस्य समरन्त्या मे तत्पराया दिवानिशम हृदयं दीर्यत इदं शॊकात परियविनाकृतम ॥ 15 ॥

  16. बृहदश्व उवाच एवं विलपमाना सा नष्टसंज्ञेव भारत आरुरॊह महद वेश्म पुण्यश्लॊकदिदृष्कया ॥ 16 ॥

  17. ततॊ मध्यमकक्षायां ददर्श रथम आस्थितम ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम ॥ 17 ॥

  18. ततॊ ऽवतीर्य वार्ष्णेयॊ बाहुकश च रथॊत्तमात हयांस तान अवमुच्याथ सथापयाम आसतू रथम ॥ 18 ॥

  19. सॊ ऽवतीर्य रथॊपस्थाद ऋतुपर्णॊ नराधिपः उपतस्थे महाराज भीमं भीमपराक्रमम ॥ 19 ॥

  20. तं भीमः परतिजग्राह पूजया परया ततः अकस्मात सहसा पराप्तं सत्रीमन्त्रं न सम विन्दति ॥ 20 ॥

  21. किं कार्यं सवागतं ते ऽसतु राज्ञा पृष्टश च भारत नाभिजज्ञे स नृपतिर दुहित्रर्थे समागतम ॥ 21 ॥

  22. ऋतुपर्णॊ ऽपि राजा स धीमान सत्यपराक्रमः राजानं राजपुत्रं वा न सम पश्यति कं चन नैव सवयंवरकथां न च विप्रसमागमम ॥ 22 ॥

  23. ततॊ विगणयन राजा मनसा कॊसलाधिपः आगतॊ ऽसमीत्य उवाचैनं भवन्तम अभिवादकः ॥ 23 ॥

  24. राजापि च समयन भीमॊ मनसाभिविचिन्तयत अधिकं यॊजनशतं तस्यागमनकारणम ॥ 24 ॥

  25. गरामान बहून अतिक्रम्य नाध्यगच्छद यथातथम अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम ॥ 25 ॥

  26. नैतद एवं स नृपतिस तं सत्कृत्य वयसर्जयत विश्राम्यताम इति वदन कलान्तॊ ऽसीति पुनः पुनः ॥ 26 ॥

  27. स सत्कृतः परहृष्टात्मा परीतः परीतेन पार्थिवः राजप्रेष्यैर अनुगतॊ दिष्टं वेश्म समाविशत ॥ 27 ॥

  28. ऋतुपर्णे गते राजन वार्ष्णेयसहिते नृपे बाहुकॊ रथम आस्थाय रथशालाम उपागमत ॥ 28 ॥

  29. स मॊचयित्वा तान अश्वान परिचार्य च शास्त्रतः सवयं चैतान समाश्वास्य रथॊपस्थ उपाविशत ॥ 29 ॥

  30. दमयन्ती तु शॊकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम ॥ 30 ॥

  31. चिन्तयाम आस वैदर्भी कस्यैष रथनिस्वनः नलस्येव महान आसीन न च पश्यामि नैषधम ॥ 31 ॥

  32. वार्ष्णेयेन भवेन नूनं विद्या सैवॊपशिक्षिता तेनास्य रथनिर्घॊषॊ नलस्येव महान अभूत ॥ 32 ॥

  33. आहॊ सविद ऋतुपर्णॊ ऽपि यथा राजा नलस तथा ततॊ ऽयं रथनिर्घॊषॊ नैषधस्येव लक्ष्यते ॥ 33 ॥

  34. एवं वितर्कयित्वा तु दमयन्ती विशां पते दूतीं परस्थापयाम आस नैषधान्वेषणे नृप ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 72

Previous: अध्याय 70