बृहदश्व उवाच स नदीः पर्वतांश चैव वनानि च सरांसि च अचिरेणातिचक्राम खेचरः खे चरन्न इव ॥ 1 ॥
तथा परयाते तु रथे तदा भाङ्गस्वरिर नृपः उत्तरीयम अथापश्यद भरष्टं परपुरंजयः ॥ 2 ॥
ततः स तवरमाणस तु पटे निपतिते तदा गरहीष्यामीति तं राजा नलम आह महामनाः ॥ 3 ॥
निगृह्णीष्व महाबुद्धे हयान एतान महाजवान वार्ष्णेयॊ यावद एतं मे पटम आनयताम इति ॥ 4 ॥
नलस तं परत्युवाचाथ दूरे भरष्टः पटस तव यॊजनं समतिक्रान्तॊ न स शक्यस तवया पुनः ॥ 5 ॥
एवम उक्ते नलेनाथ तदा भाङ्गस्वरिर नृपः आससाद वने राजन फलवन्तं बिभीतकम ॥ 6 ॥
तं दृष्ट्वा बाहुकं राजा तवरमाणॊ ऽभयभाषत ममापि सूत पश्य तवं संख्याने परमं बलम ॥ 7 ॥
सर्वः सर्वं न जानाति सर्वज्ञॊ नास्ति कश चन नैकत्र परिनिष्ठास्ति जञानस्य पुरुषे कव चित ॥ 8 ॥
वृक्षे ऽसमिन यानि पर्णानि फलान्य अपि च बाहुक पतितानि च यान्य अत्र तत्रैकम अधिकं शतम एकपत्राधिकं पत्रं फलम एकं च बाहुक ॥ 9 ॥
पञ्च कॊट्यॊ ऽथ पत्राणां दवयॊर अपि च शाखयॊः परचिनुह्य अस्य शाखे दवे याश चाप्य अन्याः परशाखिकाः आभ्यां फलसहस्रे दवे पञ्चॊनं शतम एव च ॥ 10 ॥
ततॊ रथाद अवप्लुत्य राजानं बाहुकॊ ऽबरवीत परॊक्षम इव मे राजन कत्थसे शत्रुकर्शन ॥ 11 ॥
अथ ते गणिते राजन विद्यते न परॊक्षता परत्यक्षं ते महाराज गणयिष्ये बिभीतकम ॥ 12 ॥
अहं हि नाभिजानामि भवेद एवं न वेति च संख्यास्यामि फलान्य अस्य पश्यतस ते नराधिप मुहूर्तम इव वार्ष्णेयॊ रश्मीन यच्छतु वाजिनाम ॥ 13 ॥
तम अब्रवीन नृपः सूतं नायं कालॊ विलम्बितुम बाहुकस तव अब्रवीद एनं परं यत्नं समास्थितः ॥ 14 ॥
परतीक्षस्व मुहूर्तं तवम अथ वा तवरते भवान एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ 15 ॥
अब्रवीद ऋतुपर्णस तं सान्त्वयन कुरुनन्दन तवम एव यन्ता नान्यॊ ऽसति पृथिव्याम अपि बाहुक ॥ 16 ॥
तवत्कृते यातुम इच्छामि विदर्भान हयकॊविद शरणं तवां परपन्नॊ ऽसमि न विघ्नं कर्तुम अर्हसि ॥ 17 ॥
कामं च ते करिष्यामि यन मां वक्ष्यसि बाहुक विदर्भान यदि यात्वाद्य सूर्यं दर्शयितासि मे ॥ 18 ॥
अथाब्रवीद बाहुकस तं संख्यायेमं बिभीतकम ततॊ विदर्भान यास्यामि कुरुष्वेदं वचॊ मम ॥ 19 ॥
अकाम इव तं राजा गणयस्वेत्य उवाच ह सॊ ऽवतीर्य रथात तूर्णं शातयाम आस तं दरुमम ॥ 20 ॥
ततः स विस्मयाविष्टॊ राजानम इदम अब्रवीत गणयित्वा यथॊक्तानि तावन्त्य एव फलानि च ॥ 21 ॥
अत्यद्भुतम इदं राजन दृष्टवान अस्मि ते बलम शरॊतुम इच्छामि तां विद्यां यथैतज जञायते नृप ॥ 22 ॥
तम उवाच ततॊ राजा तवरितॊ गमने तदा विद्ध्य अक्षहृदयज्ञं मां संख्याने च विशारदम ॥ 23 ॥
बाहुकस तम उवाचाथ देहि विद्याम इमां मम मत्तॊ ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥ 24 ॥
ऋतुपर्णस ततॊ राजा बाहुकं कार्यगौरवात हयज्ञानस्य लॊभाच च तथेत्य एवाब्रवीद वचः ॥ 25 ॥
यथेष्टं तवं गृहाणेदम अक्षाणां हृदयं परम निक्षेपॊ मे ऽशवहृदयं तवयि तिष्ठतु बाहुक एवम उक्त्वा ददौ विद्याम ऋतुपर्णॊ नलाय वै ॥ 26 ॥
तस्याक्षहृदयज्ञस्य शरीरान निःसृतः कलिः कर्कॊटकविषं तीक्ष्णं मुखात सततम उद्वमन ॥ 27 ॥
कलेस तस्य तदार्तस्य शापाग्निः स विनिःसृतः स तेन कर्शितॊ राजा दीर्घकालम अनात्मवान ॥ 28 ॥
ततॊ विषविमुक्तात्मा सवरूपम अकरॊत कलिः तं शप्तुम ऐच्छत कुपितॊ निषधाधिपतिर नलः ॥ 29 ॥
तम उवाच कलिर भीतॊ वेपमानः कृताञ्जलिः कॊपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम ॥ 30 ॥
इन्द्रसेनस्य जननी कुपिता माशपत पुरा यदा तवया परित्यक्ता ततॊ ऽहं भृशपीडितः ॥ 31 ॥
अवसं तवयि राजेन्द्र सुदुःखम अपराजित विषेण नागराजस्य दह्यमानॊ दिवानिशम ॥ 32 ॥
ये च तवां मनुजा लॊके कीर्तयिष्यन्त्य अतन्द्रिताः मत्प्रसूतं भयं तेषां न कदा चिद भविष्यति ॥ 33 ॥
एवम उक्तॊ नलॊ राजा नययच्छत कॊपम आत्मनः ततॊ भीतः कलिः कषिप्रं परविवेश बिभीतकम कलिस तव अन्येन नादृश्यत कथयन नैषधेन वै ॥ 34 ॥
ततॊ गतज्वरॊ राजा नैषधः परवीरहा संप्रनष्टे कलौ राजन संख्यायाथ फलान्य उत ॥ 35 ॥
मुदा परमया युक्तस तेजसा च परेण ह रथम आरुह्य तेजस्वी परययौ जवनैर हयैः बिभीतकश चाप्रशष्टः संवृत्तः कलिसंश्रयात ॥ 36 ॥
हयॊत्तमान उत्पततॊ दविजान इव पुनः पुनः नलः संचॊदयाम आस परहृष्टेनान्तरात्मना ॥ 37 ॥
विदर्भाभिमुखॊ राजा परययौ स महामनाः नले तु समतिक्रान्ते कलिर अप्य अगमद गृहान ॥ 38 ॥
ततॊ गतज्वरॊ राजा नलॊ ऽभूत पृथिवीपते विमुक्तः कलिना राजन रूपमात्रवियॊजितः ॥ 39 ॥
वनपर्व · Vana Parva
अध्याय 70
Reach this point to mark the section finished.
Continue to अध्याय 71