बृहदश्व उवाच शरुत्वा वचः सुदेवस्य ऋतुपर्णॊ नराधिपः सान्त्वयञ शलक्ष्णया वाचा बाहुकं परत्यभाषत ॥ 1 ॥
विदर्भान यातुम इच्छामि दमदन्त्याः सवयंवरम एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ 2 ॥
एवम उक्तस्य कौन्तेय तेन राज्ञा नलस्य ह वयदीर्यत मनॊ दुःखात परदध्यौ च महामनाः ॥ 3 ॥
दमयन्ती भवेद एतत कुर्याद दुःखेन मॊहिता अस्मदर्थे भवेद वायम उपायश चिन्तितॊ महान ॥ 4 ॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी मया कषुद्रेण निकृता पापेनाकृतबुद्धिना ॥ 5 ॥
सत्रीस्वभावश चलॊ लॊके मम दॊषश च दारुणः सयाद एवम अपि कुर्यात सा विवशा गतसौहृदा मम शॊकेन संविग्ना नैराश्यात तनुमध्यमा ॥ 6 ॥
न चैवं कर्हि चित कुर्यात सापत्या च विशेषतः यद अत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम ऋतुपर्णस्य वै कामम आत्मार्थं च करॊम्य अहम ॥ 7 ॥
इति निश्चित्य मनसा बाहुकॊ दीनमानसः कृताञ्जलिर उवाचेदम ऋतुपर्णं नराधिपम ॥ 8 ॥
परतिजानामि ते सत्यं गमिष्यसि नराधिप एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥ 9 ॥
ततः परीक्षाम अश्वानां चक्रे राजन स बाहुकः अश्वशालाम उपागम्य भाङ्गस्वरिनृपाज्ञया ॥ 10 ॥
स तवर्यमाणॊ बहुश ऋतुपर्णेन बाहुकः अध्यगच्छत कृशान अश्वान समर्थान अध्वनि कषमान ॥ 11 ॥
तेजॊबलसमायुक्तान कुलशीलसमन्वितान वर्जिताँल लक्षणैर हीनैः पृथुप्रॊथान महाहनून शुद्धान दशभिर आवर्तैः सिन्धुजान वातरंहसः ॥ 12 ॥
दृष्ट्वा तान अब्रवीद राजा किं चित कॊपसमन्वितः किम इदं परार्थितं कर्तुं परलब्धव्या हि ते वयम ॥ 13 ॥
कथम अल्पबलप्राणा वक्ष्यन्तीमे हया मम महान अध्वा च तुरगैर गन्तव्यः कथम ईदृशैः ॥ 14 ॥
बाहुक उवाच एते हया गमिष्यन्ति विदर्भान नात्र संशयः अथान्यान मन्यसे राजन बरूहि कान यॊजयामि ते ॥ 15 ॥
ऋतुपर्ण उवाच तवम एव हयतत्त्वज्ञः कुशलश चासि बाहुक यान मन्यसे समर्थांस तवं कषिप्रं तान एव यॊजय ॥ 16 ॥
बृहदश्व उवाच ततः सदश्वांश चतुरः कुलशीलसमन्वितान यॊजयाम आस कुशलॊ जवयुक्तान रथे नरः ॥ 17 ॥
ततॊ युक्तं रथं राजा समारॊहत तवरान्वितः अथ पर्यपतन भूमौ जानुभिस ते हयॊत्तमाः ॥ 18 ॥
ततॊ नरवरः शरीमान नलॊ राजा विशां पते सान्त्वयाम आस तान अश्वांस तेजॊबलसमन्वितान ॥ 19 ॥
रश्मिभिश च समुद्यम्य नलॊ यातुम इयेष सः सूतम आरॊप्य वार्ष्णेयं जवम आस्थाय वै परम ॥ 20 ॥
ते चॊद्यमाना विधिना बाहुकेन हयॊत्तमाः समुत्पेतुर इवाकाशं रथिनं मॊहयन्न इव ॥ 21 ॥
तथा तु दृष्ट्वा तान अश्वान वहतॊ वातरंहसः अयॊध्याधिपतिर धीमान विस्मयं परमं ययौ ॥ 22 ॥
रथघॊषं तु तं शरुत्वा हयसंग्रहणं च तत वार्ष्णेयश चिन्तयाम आस बाहुकस्य हयज्ञताम ॥ 23 ॥
किं नु सयान मातलिर अयं देवराजस्य सारथिः तथा हि लक्षणं वीरे बाहुके दृश्यते महत ॥ 24 ॥
शालिहॊत्रॊ ऽथ किं नु सयाद धयानां कुलतत्त्ववित मानुषं समनुप्राप्तॊ वपुः परमशॊभनम ॥ 25 ॥
उताहॊ सविद भवेद राजा नलः परपुरंजयः सॊ ऽयं नृपतिर आयात इत्य एवं समचिन्तयत ॥ 26 ॥
अथ वा यां नलॊ वेद विद्यां ताम एव बाहुकः तुल्यं हि लक्षये जञानं बाहुकस्य नलस्य च ॥ 27 ॥
अपि चेदं वयस तुल्यम अस्य मन्ये नलस्य च नायं नलॊ महावीर्यस तद्विद्यस तु भविष्यति ॥ 28 ॥
परछन्ना हि महात्मानश चरन्ति पृथिवीम इमाम दैवेन विधिना युक्ताः शास्त्रॊक्तैश च विरूपणैः ॥ 29 ॥
भवेत तु मतिभेदॊ मे गात्रवैरूप्यतां परति परमाणात परिहीनस तु भवेद इति हि मे मतिः ॥ 30 ॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः नलं सर्वगुणैर युक्तं मन्ये बाहुकम अन्ततः ॥ 31 ॥
एवं विचार्य बहुशॊ वार्ष्णेयः पर्यचिन्तयत हृदयेन महाराज पुण्यश्लॊकस्य सारथिः ॥ 32 ॥
ऋतुपर्णस तु राजेन्द्र बाहुकस्य हयज्ञताम चिन्तयन मुमुदे राजा सहवार्ष्णेयसारथिः ॥ 33 ॥
बलं वीर्यं तथॊत्साहं हयसंग्रहणं च तत परं यत्नं च संप्रेक्ष्य परां मुदम अवाप ह ॥ 34 ॥
वनपर्व · Vana Parva
अध्याय 69
Reach this point to mark the section finished.
Continue to अध्याय 70