धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 6

  1. [व] पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः ॥ 1 ॥

  2. सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते ययुर वनेनैव वनं सततं पश्चिमां दिशम ॥ 2 ॥

  3. ततः सरस्वती कूले समेषु मरु धन्वसु काम्यकं नाम ददृशुर वनं मुनिजनप्रियम ॥ 3 ॥

  4. तत्र ते नयवसन वीरा वने बहुमृगद्विजे अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत ॥ 4 ॥

  5. विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः जगामैक रथेनैव काम्यकं वनम ऋद्धिवत ॥ 5 ॥

  6. ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च ॥ 6 ॥

  7. ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य ॥ 7 ॥

  8. कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम ॥ 8 ॥

  9. समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः ॥ 9 ॥

  10. तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात ॥ 10 ॥

  11. समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः ॥ 11 ॥

  12. [वि] अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि ॥ 12 ॥

  13. मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये ॥ 13 ॥

  14. परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम ॥ 14 ॥

  15. न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥ 15 ॥

  16. धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन ॥ 16 ॥

  17. ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा ॥ 17 ॥

  18. सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः ॥ 18 ॥

  19. कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव ॥ 19 ॥

  20. यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः ॥ 20 ॥

  21. सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः ॥ 21 ॥

  22. [य] एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5