धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 68

  1. बृहदश्व उवाच अथ दीर्घस्य कालस्य पर्णादॊ नाम वै दविजः परत्येत्य नगरं भैमीम इदं वचनम अब्रवीत ॥ 1 ॥

  2. नैषधं मृगयानेन दमयन्ति दिवानिशम अयॊध्यां नगरीं गत्वा भाङ्गस्वरिर उपस्थितः ॥ 2 ॥

  3. शरावितश च मया वाक्यं तवदीयं स महाजने ऋतुपर्णॊ महाभागॊ यथॊक्तं वरवर्णिनि ॥ 3 ॥

  4. तच छरुत्वा नाब्रवीत किं चिद ऋतुपर्णॊ नराधिपः न च पारिषदः कश चिद भाष्यमाणॊ मयासकृत ॥ 4 ॥

  5. अनुज्ञातं तु मां राज्ञा विजने कश चिद अब्रवीत ऋतुपर्णस्य पुरुषॊ बाहुकॊ नाम नामतः ॥ 5 ॥

  6. सूतस तस्य नरेन्द्रस्य विरूपॊ हरस्वबाहुकः शीघ्रयाने सुकुशलॊ मृष्टकर्ता च भॊजने ॥ 6 ॥

  7. स विनिःश्वस्य बहुशॊ रुदित्वा च मुहुर मुहुः कुशलं चैव मां पृष्ट्वा पश्चाद इदम अभाषत ॥ 7 ॥

  8. वैषम्यम अपि संप्राप्ता गॊपायन्ति कुलस्त्रियः आत्मानम आत्मना सत्यॊ जितस्वर्गा न संशयः रहिता भर्तृभिश चैव न करुध्यन्ति कदा चन ॥ 8 ॥

  9. विषमस्थेन मूढेन परिभ्रष्टसुखेन च यत सा तेन परित्यक्ता तत्र न करॊद्धुम अर्हति ॥ 9 ॥

  10. पराणयात्रां परिप्रेप्सॊः शकुनैर हृतवाससः आधिभिर दह्यमानस्य शयामा न करॊद्धुम अर्हति ॥ 10 ॥

  11. सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम भरष्टराज्यं शरिया हीनं शयामा न करॊद्धुम अर्हति ॥ 11 ॥

  12. तस्य तद वचनं शरुत्वा तवरितॊ ऽहम इहागतः शरुत्वा परमाणं भवती राज्ञश चैव निवेदय ॥ 12 ॥

  13. एतच छरुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते दमयन्ती रहॊ ऽभयेत्य मातरं परत्यभाषत ॥ 13 ॥

  14. अयम अर्थॊ न संवेद्यॊ भीमे मातः कथं चन तवत्संनिधौ समादेक्ष्ये सुदेवं दविजसत्तमम ॥ 14 ॥

  15. यथा न नृपतिर भीमः परतिपद्येत मे मतम तथा तवया परयत्तव्यं मम चेत परियम इच्छसि ॥ 15 ॥

  16. यथा चाहं समानीता सुदेवेनाशु बान्धवान तेनैव मङ्गलेनाशु सुदेवॊ यातु माचिरम समानेतुं नलं मातर अयॊध्यां नगरीम इतः ॥ 16 ॥

  17. विश्रान्तं च ततः पश्चात पर्णादं दविजसत्तमम अर्चयाम आस वैदर्भी धनेनातीव भामिनी ॥ 17 ॥

  18. नले चेहागते विप्र भूयॊ दास्यामि ते वसु तवया हि मे बहु कृतं यथा नान्यः करिष्यति यद भर्त्राहं समेष्यामि शीघ्रम एव दविजॊत्तम ॥ 18 ॥

  19. एवम उक्तॊ ऽरचयित्वा ताम आशीर्वादैः सुमङ्गलैः गृहान उपययौ चापि कृतार्थः स महामनाः ॥ 19 ॥

  20. ततश चानाय्य तं विप्रं दमयन्ती युधिष्ठिर अब्रवीत संनिधौ मातुर दुःखशॊकसमन्विता ॥ 20 ॥

  21. गत्वा सुदेव नगरीम अयॊध्यावासिनं नृपम ऋतुपर्णं वचॊ बरूहि पतिम अन्यं चिकीर्षती आस्थास्यति पुनर भैमी दमयन्ती सवयंवरम ॥ 21 ॥

  22. तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः यथा च गणितः कालः शवॊभूते स भविष्यति ॥ 22 ॥

  23. यदि संभावनीयं ते गच्छ शीघ्रम अरिंदम सूर्यॊदये दवितीयं सा भर्तारं वरयिष्यति न हि स जञायते वीरॊ नलॊ जीवन मृतॊ ऽपि वा ॥ 23 ॥

  24. एवं तया यथॊक्तं वै गत्वा राजानम अब्रवीत ऋतुपर्णं महाराज सुदेवॊ बराह्मणस तदा ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 69

Previous: अध्याय 67