धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 65

  1. बृहदश्व उवाच हृतराज्ये नले भीमः सभार्ये परेष्यतां गते दविजान परस्थापयाम आस नलदर्शनकाङ्क्षया ॥ 1 ॥

  2. संदिदेश च तान भीमॊ वसु दत्त्वा च पुष्कलम मृगयध्वं नलं चैव दमयन्तीं च मे सुताम ॥ 2 ॥

  3. अस्मिन कर्मणि निष्पन्ने विज्ञाते निषधाधिपे गवां सहस्रं दास्यामि यॊ वस ताव आनयिष्यति अग्रहारं च दास्यामि गरामं नगरसंमितम ॥ 3 ॥

  4. न चेच छक्याव इहानेतुं दमयन्ती नलॊ ऽपि वा जञातमात्रे ऽपि दास्यामि गवां दशशतं धनम ॥ 4 ॥

  5. इत्य उक्तास ते ययुर हृष्टा बराह्मणाः सर्वतॊदिशम पुरराष्ट्राणि चिन्वन्तॊ नैषधं सह भार्यया ॥ 5 ॥

  6. ततश चेदिपुरीं रम्यां सुदेवॊ नाम वै दविजः विचिन्वानॊ ऽथ वैदर्भीम अपश्यद राजवेश्मनि पुण्याहवाचने राज्ञः सुनन्दा सहितां सथिताम ॥ 6 ॥

  7. मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम पिनद्धां धूमजालेन परभाम इव विभावसॊः ॥ 7 ॥

  8. तां समीक्ष्य विशालाक्षीम अधिकं मलिनां कृशाम तर्कयाम आस भैमीति कारणैर उपपादयन ॥ 8 ॥

  9. सुदेव उवाच यथेयं मे पुरा दृष्टा तथारूपेयम अङ्गना कृतार्थॊ ऽसम्य अद्य दृष्ट्वेमां लॊककान्ताम इव शरियम ॥ 9 ॥

  10. पूर्णचन्द्राननां शयामां चारुवृत्तपयॊधराम कुर्वन्तीं परभया देवीं सर्वा वितिमिरा दिशः ॥ 10 ॥

  11. चारुपद्मपलाशाक्षीं मन्मथस्य रतीम इव इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम इव ॥ 11 ॥

  12. विदर्भसरसस तस्माद दैवदॊषाद इवॊद्धृताम मलपङ्कानुलिप्ताङ्गीं मृणालीम इव तां भृशम ॥ 12 ॥

  13. पौर्णमासीम इव निशां राहुग्रस्तनिशाकराम पतिशॊकाकुलां दीनां शुष्कस्रॊतां नदीम इव ॥ 13 ॥

  14. विध्वस्तपर्णकमलां वित्रासितविहंगमाम हस्तिहस्तपरिक्लिष्टां वयाकुलाम इव पद्मिनीम ॥ 14 ॥

  15. सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहॊचिताम दह्यमानाम इवॊष्णेन मृणालीम अचिरॊद्धृताम ॥ 15 ॥

  16. रूपौदर्यगुणॊपेतां मण्डनार्हाम अमण्डिताम चन्द्रलेखाम इव नवां वयॊम्नि नीलाभ्रसंवृताम ॥ 16 ॥

  17. कामभॊगैः परियैर हीनां हीनां बन्धुजनेन च देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥ 17 ॥

  18. भर्ता नाम परं नार्या भूषणं भूषणैर विना एषा विरहिता तेन शॊभनापि न शॊभते ॥ 18 ॥

  19. दुष्करं कुरुते ऽतयर्थं हीनॊ यद अनया नलः धारयत्य आत्मनॊ देहं न शॊकेनावसीदति ॥ 19 ॥

  20. इमाम असितकेशान्तां शतपत्रायतेक्षणाम सुखार्हां दुःखितां दृष्ट्वा ममापि वयथते मनः ॥ 20 ॥

  21. कदा नु खलु दुःखस्य पारं यास्यति वै शुभा भर्तुः समागमात साध्वी रॊहिणी शशिनॊ यथा ॥ 21 ॥

  22. अस्या नूनं पुनर लाभान नैषधः परीतिम एष्यति राजा राज्यपरिभ्रष्टः पुनर लब्ध्वेव मेदिनीम ॥ 22 ॥

  23. तुल्यशीलवयॊयुक्तां तुल्याभिजनसंयुताम नैषधॊ ऽरहति वैदर्भीं तं चेयम असितेक्षणा ॥ 23 ॥

  24. युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतॊ मया समाश्वासयितुं भार्यां पतिदर्शनलालसाम ॥ 24 ॥

  25. अयम आश्वासयाम्य एनां पूर्णचन्द्र निभाननाम अदृष्टपूर्वां दुःखस्य दुःखार्तां धयानतत्पराम ॥ 25 ॥

  26. बृहदश्व उवाच एवं विमृश्य विविधैः कारणैर लक्षणैश च ताम उपगम्य ततॊ भैमीं सुदेवॊ बराह्मणॊ ऽबरवीत ॥ 26 ॥

  27. अहं सुदेवॊ वैधर्भि भरातुस ते दयितः सखा भीमस्य वचनाद राज्ञस तवाम अन्वेष्टुम इहागतः ॥ 27 ॥

  28. कुशली ते पिता राज्ञि जनित्री भरातरश च ते आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारुकौ च ते तवत्कृते बन्धुवर्गाश च गतसत्त्वा इवासते ॥ 28 ॥

  29. अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर पर्यपृच्छत ततः सर्वान करमेण सुहृदः सवकान ॥ 29 ॥

  30. रुरॊद च भृशं राजन वैदर्भी शॊककर्शिता दृष्ट्वा सुदेवं सहसा भरातुर इष्टं दविजॊत्तमम ॥ 30 ॥

  31. ततॊ रुदन्तीं तां दृष्ट्वा सुनन्दा शॊककर्शिताम सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ 31 ॥

  32. जनित्र्यै परेषयाम आस सैरन्ध्री रुदते भृशम बराह्मणेन समागम्य तां वेद यदि मन्यसे ॥ 32 ॥

  33. अथ चेदिपतेर माता राज्ञश चान्तःपुरात तदा जगाम यत्र सा बाला बराह्मणेन सहाभवत ॥ 33 ॥

  34. ततः सुदेवम आनाय्य राजमाता विशां पते पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ 34 ॥

  35. कथं च नष्टा जञातिभ्यॊ भर्तुर वा वामलॊचना तवया च विदिता विप्र कथम एवंगता सती ॥ 35 ॥

  36. एतद इच्छाम्य अहं तवत्तॊ जञातुं सर्वम अशेषतः तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम ॥ 36 ॥

  37. एवम उक्तस तया राजन सुदेवॊ दविजसत्तमः सुखॊपविष्ट आचष्ट दमयन्त्या यथातथम ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 66

Previous: अध्याय 64