धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 64

  1. बृहदश्व उवाच तस्मिन्न अन्तर्हिते नागे परययौ नैषधॊ नलः ऋतुपर्णस्य नगरं पराविशद दशमे ऽहनि ॥ 1 ॥

  2. स राजानम उपातिष्ठद बाहुकॊ ऽहम इति बरुवन अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ 2 ॥

  3. अर्थकृच्छ्रेषु चैवाहं परष्टव्यॊ नैपुणेषु च अन्नसंस्कारम अपि च जानाम्य अन्यैर विशेषतः ॥ 3 ॥

  4. यानि शिल्पाणि लॊके ऽसमिन यच चाप्य अन्यत सुदुष्करम सर्वं यतिष्ये तत कर्तुम ऋतुपर्ण भरस्व माम ॥ 4 ॥

  5. वस बाहुक भद्रं ते सर्वम एतत करिष्यसि शीघ्रयाने सदा बुद्धिर धीयते मे विशेषतः ॥ 5 ॥

  6. स तवम आतिष्ठ यॊगं तं येन शीघ्रा हया मम भवेयुर अश्वाध्यक्षॊ ऽसि वेतनं ते शतं शताः ॥ 6 ॥

  7. तवाम उपस्थास्यतश चेमौ नित्यं वार्ष्णेयजीवलौ एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ 7 ॥

  8. एवम उक्तॊ नलस तेन नयवसत तत्र पूजितः ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ 8 ॥

  9. स तत्र निवसन राजन वैदर्भीम अनुचिन्तयन सायं सायं सदा चेमं शलॊकम एकं जगाद ह ॥ 9 ॥

  10. कव नु सा कषुत्पिपासार्ता शरान्ता शेते तपस्विनी समरन्ती तस्य मन्दस्य कं वा साद्यॊपतिष्ठति ॥ 10 ॥

  11. एवं बरुवन्तं राजानं निशायां जीवलॊ ऽबरवीत काम एनां शॊचसे नित्यं शरॊतुम इच्छामि बाहुक ॥ 11 ॥

  12. तम उवाच नलॊ राजा मन्दप्रज्ञस्य कस्य चित आसीद बहुमता नारी तस्या दृढतरं च सः ॥ 12 ॥

  13. स वै केन चिद अर्थेन तया मन्दॊ वययुज्यत विप्रयुक्तश च मन्दात्मा भरमत्य असुखपीडितः ॥ 13 ॥

  14. दह्यमानः स शॊकेन दिवारात्रम अतन्द्रितः निशाकाले समरंस तस्याः शलॊकम एकं सम गायति ॥ 14 ॥

  15. स वै भरमन महीं सर्वां कव चिद आसाद्य किं चन वसत्य अनर्हस तद्दुःखं भूय एवानुसंस्मरन ॥ 15 ॥

  16. सा तु तं पुरुषं नारी कृच्छ्रे ऽपय अनुगता वने तयक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥ 16 ॥

  17. एका बालानभिज्ञा च मार्गाणाम अतथॊचिता कषुत्पिपासापरीता च दुष्करं यदि जीवति ॥ 17 ॥

  18. शवापदाचरिते नित्यं वने महति दारुणे तयक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥ 18 ॥

  19. इत्य एवं नैषधॊ राजा दमयन्तीम अनुस्मरन अज्ञातवासम अवसद राज्ञस तस्य निवेशने ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 65

Previous: अध्याय 63