धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 66

  1. सुदेव उवाच विदर्भराजॊ धर्मात्मा भीमॊ भीमपराक्रमः सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ 1 ॥

  2. राजा तु नैषधॊ नाम वीरसेनसुतॊ नलः भार्येयं तस्य कल्याणी पुण्यश्लॊकस्य धीमतः ॥ 2 ॥

  3. स वै दयूते जितॊ भरात्रा हृतराज्यॊ महीपतिः दमयन्त्या गतः सार्धं न परज्ञायत कर्हि चित ॥ 3 ॥

  4. ते वयं दमयन्त्यर्थं चरामः पृथिवीम इमाम सेयम आसादिता बाला तव पुत्रनिवेशने ॥ 4 ॥

  5. अस्या रूपेण सदृशी मानुषी नेह विद्यते अस्याश चैव भरुवॊर मध्ये सहजः पिप्लुर उत्तमः शयामायाः पद्मसंकाशॊ लक्षितॊ ऽनतर्हितॊ मया ॥ 5 ॥

  6. मलेन संवृतॊ हय अस्यास तन्वभ्रेणेव चन्द्रमाः चिह्नभूतॊ विभूत्यर्थम अयं धात्रा विनिर्मितः ॥ 6 ॥

  7. परतिपत कलुषेवेन्दॊर लेखा नाति विराजते न चास्या नश्यते रूपं वपुर मलसमाचितम असंस्कृतम अपि वयक्तं भाति काञ्चनसंनिभम ॥ 7 ॥

  8. अनेन वपुषा बाला पिप्लुनानेन चैव ह लक्षितेयं मया देवी पिहितॊ ऽगनिर इवॊष्मणा ॥ 8 ॥

  9. बृहदश्व उवाच तच छरुत्वा वचनं तस्य सुदेवस्य विशां पते सुनन्दा शॊधयाम आस पिप्लुप्रच्छादनं मलम ॥ 9 ॥

  10. स मलेनापकृष्टेन पिप्लुस तस्या वयरॊचत दमयन्त्यास तदा वयभ्रे नभसीव निशाकरः ॥ 10 ॥

  11. पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत रुदन्त्यौ तां परिष्वज्य मुहूर्तम इव तस्थतुः उत्सृज्य बाष्पं शनकै राजमातेदम अब्रवीत ॥ 11 ॥

  12. भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता अहं च तव माता च राजन्यस्य महात्मनः सुते दशार्णाधिपतेः सुदाम्नश चारुदर्शने ॥ 12 ॥

  13. भीमस्य राज्ञः सा दत्ता वीरबाहॊर अहं पुनः तवं तु जाता मया दृष्टा दशार्णेषु पितुर गृहे ॥ 13 ॥

  14. यथैव ते पितुर गेहं तथेदम अपि भामिनि यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥ 14 ॥

  15. तां परहृष्टेन मनसा दमयन्ती विशां पते अभिवाद्य मातुर भगिनीम इदं वचनम अब्रवीत ॥ 15 ॥

  16. अज्ञायमानापि सती सुखम अस्म्य उषितेह वै सर्वकामैः सुविहिता रक्ष्यमाणा सदा तवया ॥ 16 ॥

  17. सुखात सुखतरॊ वासॊ भविष्यति न संशयः चिरविप्रॊषितां मातर माम अनुज्ञातुम अर्हसि ॥ 17 ॥

  18. दारकौ च हि मे नीतौ वसतस तत्र बालकौ पित्रा विहीनौ शॊकार्तौ मया चैव कथं नु तौ ॥ 18 ॥

  19. यदि चापि परियं किं चिन मयि कर्तुम इहेच्छसि विदर्भान यातुम इच्छामि शीघ्रं मे यानम आदिश ॥ 19 ॥

  20. बाढम इत्य एव ताम उक्त्वा हृष्टा मातृष्वसा नृप गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ 20 ॥

  21. परस्थापयद राजमाता शरीमता नरवाहिना यानेन भरतश्रेष्ठ सवन्नपानपरिच्छदाम ॥ 21 ॥

  22. ततः सा नचिराद एव विदर्भान अगमच छुभा तां तु बन्धुजनः सर्वः परहृष्टः परत्यपूजयत ॥ 22 ॥

  23. सर्वान कुशलिनॊ दृष्ट्वा बान्धवान दारकौ च तौ मातरं पितरं चैव सर्वं चैव सखीजनम ॥ 23 ॥

  24. देवताः पूजयाम आस बराह्मणांश च यशस्विनी विधिना परेण कल्याणी दमयन्ती विशां पते ॥ 24 ॥

  25. अतर्पयत सुदेवं च गॊसहस्रेण पार्थिवः परीतॊ दृष्ट्वैव तनयां गरामेण दरविणेन च ॥ 25 ॥

  26. सा वयुष्टा रजनीं तत्र पितुर वेश्मनि भामिनी विश्रान्तां मातरं राजन्न इदं वचनम अब्रवीत ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65