बृहदश्व उवाच उत्सृज्य दमयन्तीं तु नलॊ राजा विशां पते ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ 1 ॥
तत्र शुश्राव मध्ये ऽगनौ शब्दं भूतस्य कस्य चित अभिधाव नलेत्य उच्चैः पुण्यश्लॊकेति चासकृत ॥ 2 ॥
मा भैर इति नलश चॊक्त्वा मध्यम अग्नेः परविश्य तम ददर्श नागराजानं शयानं कुण्डलीकृतम ॥ 3 ॥
स नागः पराञ्जलिर भूत्वा वेपमानॊ नलं तदा उवाच विद्धि मां राजन नागं कर्कॊटकं नृप ॥ 4 ॥
मया परलब्धॊ बरह्मर्षिर अनागाः सुमहातपाः तेन मन्युपरीतेन शप्तॊ ऽसमि मनुजाधिप ॥ 5 ॥
तस्य शापान न शक्नॊमि पदाद विचलितुं पदम उपदेक्ष्यामि ते शरेयस तरातुम अर्हति मां भवान ॥ 6 ॥
सखा च ते भविष्यामि मत्समॊ नास्ति पन्नगः लघुश च ते भविष्यामि शीघ्रम आदाय गच्छ माम ॥ 7 ॥
एवम उक्त्वा स नागेन्द्रॊ बभूवाङ्गुष्ठमात्रकः तं गृहीत्वा नलः परायाद उद्देशं दाववर्जितम ॥ 8 ॥
आकाशदेशम आसाद्य विमुक्तं कृष्णवर्त्मना उत्स्रष्टुकामं तं नागः पुनः कर्कॊटकॊ ऽबरवीत ॥ 9 ॥
पदानि गणयन गच्छ सवानि नैषध कानि चित तत्र ते ऽहं महाराज शरेयॊ धास्यामि यत परम ॥ 10 ॥
ततः संख्यातुम आरब्धम अदशद दशमे पदे तस्य दष्टस्य तद रूपं कषिप्रम अन्तरधीयत ॥ 11 ॥
स दृष्ट्वा विस्मितस तस्थाव आत्मानं विकृतं नलः सवरूपधारिणं नागं ददर्श च महीपतिः ॥ 12 ॥
ततः कर्कॊटकॊ नागः सान्त्वयन नलम अब्रवीत मया ते ऽनतर्हितं रूपं न तवा विद्युर जना इति ॥ 13 ॥
यत्कृते चासि विकृतॊ दुःखेन महता नल विषेण स मदीयेन तवयि दुःखं निवत्स्यति ॥ 14 ॥
विषेण संवृतैर गात्रैर यावत तवां न विमॊक्ष्यति तावत तवयि महाराज दुःखं वै स निवत्स्यति ॥ 15 ॥
अनागा येन निकृतस तवम अनर्हॊ जनाधिप करॊधाद असूययित्वा तं रक्षा मे भवतः कृता ॥ 16 ॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतॊ ऽपि वा बरह्मविद्भ्यश च भविता मत्प्रसादान नराधिप ॥ 17 ॥
राजन विषनिमित्ता च न ते पीडा भविष्यति संग्रामेषु च राजेन्द्र शश्वज जयम अवाप्स्यति ॥ 18 ॥
गच्छ राजन्न इतः सूतॊ बाहुकॊ ऽहम इति बरुवन समीपम ऋतुपर्णस्य स हि वेदाक्षनैपुणम अयॊध्यां नगरीं रम्याम अद्यैव निषधेश्वर ॥ 19 ॥
स ते ऽकषहृदयं दाता राजाश्वहृदयेन वै इक्ष्वाकुकुलजः शरीमान मित्रं चैव भविष्यति ॥ 20 ॥
भविष्यसि यदाक्षज्ञः शरेयसा यॊक्ष्यसे तदा समेष्यसि च दारैस तवं मा सम शॊके मनः कृथाः राज्येन तनयाभ्यां च सत्यम एतद बरवीमि ते ॥ 21 ॥
सवरूपं च यदा दरष्टुम इच्छेथास तवं नराधिप संस्मर्तव्यस तदा ते ऽहं वासश चेदं निवासयेः ॥ 22 ॥
अनेन वाससाछन्नः सवरूपं परतिपत्स्यसे इत्य उक्त्वा परददाव अस्मै दिव्यं वासॊयुगं तदा ॥ 23 ॥
एवं नलं समादिश्य वासॊ दत्त्वा च कौरव नागराजस ततॊ राजंस तत्रैवान्तरधीयत ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 63
Reach this point to mark the section finished.
Continue to अध्याय 64