बृहदश्व उवाच सा तच छरुत्वानवद्याङ्गी सार्थवाहवचस तदा अगच्छत तेन वै सार्धं भर्तृदर्शनलालसा ॥ 1 ॥
अथ काले बहुतिथे वने महति दारुणे तडागं सर्वतॊभद्रं पद्मसौगन्धिकं महत ॥ 2 ॥
ददृशुर वणिजॊ रम्यं परभूतयवसेन्धनम बहुमूलफलॊपेतं नानापक्षिगणैर वृतम ॥ 3 ॥
तं दृष्ट्वा मृष्टसलिलं मनॊहरसुखावहम सुपरिश्रान्तवाहास ते निवेशाय मनॊ दधुः ॥ 4 ॥
संमते सार्थवाहस्य विविशुर वनम उत्तमम उवास सार्थः सुमहान वेलाम आसाद्य पश्चिमाम ॥ 5 ॥
अथार्धरात्रसमये निःशब्दस्तिमिते तदा सुप्ते सार्थे परिश्रान्ते हस्तियूथम उपागमत पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम ॥ 6 ॥
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थम उत्तमम सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥ 7 ॥
हाहारवं परमुञ्चन्तः सार्थिकाः शरणार्थिनः वनगुल्मांश च धावन्तॊ निद्रान्धा महतॊ भयात के चिद दन्तैः करैः के चित के चित पद्भ्यां हता नराः ॥ 8 ॥
गॊखरॊष्ट्राश्वबहुलं पदातिजनसंकुलम भयार्तं धावमानं तत परस्परहतं तदा ॥ 9 ॥
घॊरान नादान विमुञ्चन्तॊ निपेतुर धरणीतले वृक्षेष्व आसज्य संभग्नाः पतिता विषमेषु च तथा तन निहतं सर्वं समृद्धं सार्थमण्डलम ॥ 10 ॥
अथापरेद्युः संप्राप्ते हतशिष्टा जनास तदा वनगुल्माद विनिष्क्रम्य शॊचन्तॊ वैशसं कृतम भरातरं पितरं पुत्रं सखायं च जनाधिप ॥ 11 ॥
अशॊचत तत्र वैदर्भी किं नु मे दुष्कृतं कृतम यॊ ऽपि मे निर्जने ऽरण्ये संप्राप्तॊ ऽयं जनार्णवः हतॊ ऽयं हस्तियूथेन मन्दभाग्यान ममैव तु ॥ 12 ॥
पराप्तव्यं सुचिरं दुःखं मया नूनम असंशयम नाप्राप्तकालॊ मरियते शरुतं वृद्धानुशासनम ॥ 13 ॥
यन नाहम अद्य मृदिता हस्तियूथेन दुःखिता न हय अदैवकृतं किं चिन नराणाम इह विद्यते ॥ 14 ॥
न च मे बालभावे ऽपि किं चिद वयपकृतं कृतम कर्मणा मनसा वाचा यद इदं दुःखम आगतम ॥ 15 ॥
मन्ये सवयंवरकृते लॊकपालाः समागताः परत्याख्याता मया तत्र नलस्यार्थाय देवताः नूनं तेषां परभावेन वियॊगं पराप्तवत्य अहम ॥ 16 ॥
एवमादीनि दुःखानि सा विलप्य वराङ्गना हतशिष्टैः सह तदा बराह्मणैर वेदपारगैः अगच्छद राजशार्दूल दुःखशॊकपरायणा ॥ 17 ॥
गच्छन्ती सा चिरात कालात पुरम आसादयन महत सायाह्ने चेदिराजस्य सुबाहॊर सत्यवादिनः वस्त्रार्धकर्तसंवीता परविवेश पुरॊत्तमम ॥ 18 ॥
तां विवर्णां कृशां दीनां मुक्तकेशीम अमार्जनाम उन्मत्ताम इव गच्छन्तीं ददृशुः पुरवासिनः ॥ 19 ॥
परविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा अनुजग्मुस ततॊ बाला गरामिपुत्राः कुतूहलात ॥ 20 ॥
सा तैः परिवृतागच्छत समीपं राजवेश्मनः तां परासादगतापश्यद राजमाता जनैर वृताम ॥ 21 ॥
सा जनं वारयित्वा तं परासादतलम उत्तमम आरॊप्य विस्मिता राजन दमयन्तीम अपृच्छत ॥ 22 ॥
एवम अप्य असुखाविष्टा बिभर्षि परमं वपुः भासि विद्युद इवाभ्रेषु शंस मे कासि कस्य वा ॥ 23 ॥
न हि ते मानुषं रूपं भूषणैर अपि वर्जितम असहाया नरेभ्यश च नॊद्विजस्य अमरप्रभे ॥ 24 ॥
तच छरुत्वा वचनं तस्या भैमी वचनम अब्रवीत मानुषीं मां विजानीहि भर्तारं समनुव्रताम ॥ 25 ॥
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम फलमूलाशनाम एकां यत्रसायंप्रतिश्रयाम ॥ 26 ॥
असंख्येयगुणॊ भर्ता मां च नित्यम अनुव्रतः भर्तारम अपि तं वीरं छायेवानपगा सदा ॥ 27 ॥
तस्य दैवात परसङ्गॊ ऽभूद अतिमात्रं सम देवने दयूते स निर्जितश चैव वनम एकॊ ऽभयुपेयिवान ॥ 28 ॥
तम एकवसनं वीरम उन्मत्तम इव विह्वलम आश्वासयन्ती भर्तारम अहम अन्वगमं वनम ॥ 29 ॥
स कदा चिद वने वीरः कस्मिंश चित कारणान्तरे कषुत्परीतः सुविमनास तद अप्य एकं वयसर्जयत ॥ 30 ॥
तम एकवसनं नग्नम उन्मत्तं गतचेतसम अनुव्रजन्ती बहुला न सवपामि निशाः सदा ॥ 31 ॥
ततॊ बहुतिथे काले सुप्ताम उत्सृज्य मां कव चित वाससॊ ऽरधं परिच्छिद्य तयक्तवान माम अनागसम ॥ 32 ॥
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः न विन्दाम्य अमरप्रख्यं परियं पराणधनेश्वरम ॥ 33 ॥
ताम अश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु राजमाताब्रवीद आर्तां भैमीम आर्ततरा सवयम ॥ 34 ॥
वसस्व मयि कल्याणि परीतिर मे तवयि वर्तते मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ 35 ॥
अथ वा सवयम आगच्छेत परिधावन्न इतस ततः इहैव वसती भद्रे भर्तारम उपलप्स्यसे ॥ 36 ॥
राजमातुर वचः शरुत्वा दमयन्ती वचॊ ऽबरवीत समयेनॊत्सहे वस्तुं तवयि वीरप्रजायिनि ॥ 37 ॥
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम न चाहं पुरुषान अन्यान संभाषेयं कथं चन ॥ 38 ॥
परार्थयेद यदि मां कश चिद दण्ड्यस ते स पुमान भवेत भर्तुर अन्वेषणार्थं तु पश्येयं बराह्मणान अहम ॥ 39 ॥
यद्य एवम इह कर्तव्यं वसाम्य अहम असंशयम अतॊ ऽनयथा न मे वासॊ वर्तते हृदये कव चित ॥ 40 ॥
तां परहृष्टेन मनसा राजमातेदम अब्रवीत सर्वम एतत करिष्यामि दिष्ट्या ते वरतम ईदृशम ॥ 41 ॥
एवम उक्त्वा ततॊ भैमीं राजमाता विशां पते उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ 42 ॥
सैरन्ध्रीम अभिजानीष्व सुनन्दे देवरूपिणीम एतया सह मॊदस्व निरुद्विग्नमनाः सवयम ॥ 43 ॥
वनपर्व · Vana Parva
अध्याय 62
Reach this point to mark the section finished.
Continue to अध्याय 63