धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 61

  1. बृहदश्व उवाच सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा वनं परतिभयं शून्यं झिल्लिकागणनादितम ॥ 1 ॥

  2. सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम नानापक्षिगणाकीर्णं मलेच्छतस्करसेवितम ॥ 2 ॥

  3. शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः अर्जुनारिष्टसंछन्नं चन्दनैश च सशाल्मलैः ॥ 3 ॥

  4. जम्ब्वाम्रलॊध्रखदिरशाकवेत्रसमाकुलम काश्मर्यामलकप्लक्षकदम्बॊदुम्बरावृतम ॥ 4 ॥

  5. बदरीबिल्वसंछन्नं नयग्रॊधैश च समाकुलम परियालतालखर्जूरहरीतकबिभीतकैः ॥ 5 ॥

  6. नानाधातुशतैर नद्धान विविधान अपि चाचलान निकुञ्जान पक्षिसंघुष्टान दरीश चाद्भुतदर्शनाः नदीः सरांसि वापीश च विविधांश च मृगद्विजान ॥ 6 ॥

  7. सा बहून भीमरूपांश च पिशाचॊरगराक्षसान पल्वलानि तडागानि गिरिकूटानि सर्वशः सरितः सागरांश चैव ददर्शाद्भुतदर्शनान ॥ 7 ॥

  8. यूथशॊ ददृशे चात्र विदर्भाधिपनन्दिनी महिषान वराहान गॊमायून ऋक्षवानरपन्नगान ॥ 8 ॥

  9. तेजसा यशसा सथित्या शरिया च परया युता वैदर्भी विचरत्य एका नलम अन्वेषती तदा ॥ 9 ॥

  10. नाबिभ्यत सा नृपसुता भैमी तत्राथ कस्य चित दारुणाम अटवीं पराप्य भर्तृव्यसनकर्शिता ॥ 10 ॥

  11. विदर्भतनया राजन विललाप सुदुःखिता भर्तृशॊकपरीताङ्गी शिलातलसमाश्रिता ॥ 11 ॥

  12. दमयन्त्य उवाच सिंहॊरस्क महाबाहॊ निषधानां जनाधिप कव नु राजन गतॊ ऽसीह तयक्त्वा मां निर्जने वने ॥ 12 ॥

  13. अश्वमेधादिभिर वीर करतुभिः सवाप्तदक्षिणैः कथम इष्ट्वा नरव्याघ्र मयि मिथ्या परवर्तसे ॥ 13 ॥

  14. यत तवयॊक्तं नरव्याघ्र मत्समक्षं महाद्युते कर्तुम अर्हसि कल्याण तद ऋतं पार्थिवर्षभ ॥ 14 ॥

  15. यथॊक्तं विहगैर हंसैः समीपे तव भूमिप मत्सकाशे च तैर उक्तं तद अवेक्षितुम अर्हसि ॥ 15 ॥

  16. चत्वार एकतॊ वेदाः साङ्गॊपाङ्गाः सविस्तराः सवधीता मानवश्रेष्ठ सत्यम एकं किलैकतः ॥ 16 ॥

  17. तस्माद अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर उक्तवान असि यद वीर मत्सकाशे पुरा वचः ॥ 17 ॥

  18. हा वीर ननु नामाहम इष्टा किल तवानघ अस्याम अटव्यां घॊरायां किं मां न परतिभाषसे ॥ 18 ॥

  19. भर्त्सयत्य एष मां रौद्रॊ वयात्तास्यॊ दारुणाकृतिः अरण्यराट कषुधाविष्टः किं मां न तरातुम अर्हसि ॥ 19 ॥

  20. न मे तवदन्या सुभगे परिया इत्य अब्रवीस तदा ताम ऋतां कुरु कल्याणपुरॊक्तां भारतीं नृप ॥ 20 ॥

  21. उन्मत्तां विलपन्तीं मां भार्याम इष्टां नराधिप ईप्सिताम ईप्सितॊ नाथ किं मां न परतिभाषसे ॥ 21 ॥

  22. कृशां दीनां विवर्णां च मलिनां वसुधाधिप वस्त्रार्धप्रावृताम एकां विलपन्तीम अनाथवत ॥ 22 ॥

  23. यूथभ्रष्टाम इवैकां मां हरिणीं पृथुलॊचन न मानयसि मानार्ह रुदतीम अरिकर्शन ॥ 23 ॥

  24. महाराज महारण्ये माम इहैकाकिनीं सतीम आभाषमाणां सवां पत्नीं किं मां न परतिभाषसे ॥ 24 ॥

  25. कुलशीलॊपसंपन्नं चारुसर्वाङ्गशॊभनम नाद्य तवाम अनुपश्यामि गिराव अस्मिन नरॊत्तम वने चास्मिन महाघॊरे सिंहव्याघ्रनिषेविते ॥ 25 ॥

  26. शयानम उपविष्टं वा सथितं वा निषधाधिप परस्थितं वा नरश्रेष्ठ मम शॊकविवर्धन ॥ 26 ॥

  27. कं नु पृच्छामि दुःखार्ता तवदर्थे शॊककर्शिता कच चिद दृष्टस तवयारण्ये संगत्येह नलॊ नृपः ॥ 27 ॥

  28. कॊ नु मे कथयेद अद्य वने ऽसमिन विष्ठितं नलम अभिरूपं महात्मानं परव्यूहविनाशनम ॥ 28 ॥

  29. यम अन्वेषसि राजानं नलं पद्मनिभेक्षणम अयं स इति कस्याद्य शरॊष्यामि मधुरां गिरम ॥ 29 ॥

  30. अरण्यराड अयं शरीमांश चतुर्दंष्ट्रॊ महाहनुः शार्दूलॊ ऽभिमुखः परैति पृच्छाम्य एनम अशङ्किता ॥ 30 ॥

  31. भवान मृगाणाम अधिपस तवम अस्मिन कानने परभुः विदर्भराजतनयां दमयन्तीति विद्धि माम ॥ 31 ॥

  32. निषधाधिपतेर भार्यां नलस्यामित्रघातिनः पतिम अन्वेषतीम एकां कृपणां शॊककर्शिताम आश्वासय मृगेन्द्रेह यदि दृष्टस तवया नलः ॥ 32 ॥

  33. अथ वारण्यनृपते नलं यदि न शंससि माम अदस्व मृगश्रेष्ठ विशॊकां कुरु दुःखिताम ॥ 33 ॥

  34. शरुत्वारण्ये विलपितं ममैष मृगराट सवयम यात्य एतां मृष्टसलिलाम आपगां सागरंगमाम ॥ 34 ॥

  35. इमं शिलॊच्चयं पुण्यं शृङ्गैर बहुभिर उच्छ्रितैः विराजद्भिर दिवस्पृग्भिर नैकवर्णैर मनॊरमैः ॥ 35 ॥

  36. नानाधातुसमाकीर्णं विविधॊपलभूषितम अस्यारण्यस्य महतः केतुभूतम इवॊच्छ्रितम ॥ 36 ॥

  37. सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम पतत्रिभिर बहुविधैः समन्ताद अनुनादितम ॥ 37 ॥

  38. किंशुकाशॊकबकुलपुंनागैर उपशॊभितम सरिद्भिः सविहंगाभिः शिखरैश चॊपशॊभितम गिरिराजम इमं तावत पृच्छामि नृपतिं परति ॥ 38 ॥

  39. भगवन्न अचलश्रेष्ठ दिव्यदर्शनविश्रुत शरण्य बहुकल्याण नमस ते ऽसतु महीधर ॥ 39 ॥

  40. परणमे तवाभिगम्याहं राजपुत्रीं निबॊध माम राज्ञः सनुषां राजभार्यां दमयन्तीति विश्रुताम ॥ 40 ॥

  41. राजा विदर्भाधिपतिः पिता मम महारथः भीमॊ नाम कषितिपतिश चातुर्वर्ण्यस्य रक्षिता ॥ 41 ॥

  42. राजसूयाश्वमेधानां करतूनां दक्षिणावताम आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ 42 ॥

  43. बरह्मण्यः साधुवृत्तश च सत्यवाग अनसूयकः शीलवान सुसमाचारः पृथुश्रीर धर्मविच छुचिः ॥ 43 ॥

  44. सम्यग गॊप्ता विदर्भाणां निर्जितारिगणः परभुः तस्य मां विद्धि तनयां भगवंस तवाम उपस्थिताम ॥ 44 ॥

  45. निषधेषु महाशैल शवशुरॊ मे नृपॊत्तमः सुगृहीतनामा विख्यातॊ वीरसेन इति सम ह ॥ 45 ॥

  46. तस्य राज्ञः सुतॊ वीरः शरीमान सत्यपराक्रमः करमप्राप्तं पितुः सवं यॊ राज्यं समनुशास्ति ह ॥ 46 ॥

  47. नलॊ नामारिदमनः पुण्यश्लॊक इति शरुतः बरह्मण्यॊ वेदविद वाग्मी पुण्यकृत सॊमपॊ ऽगनिचित ॥ 47 ॥

  48. यष्टा दाता च यॊद्धा च सम्यक चैव परशासिता तस्य माम अचलश्रेष्ठ विद्धि भार्याम इहागताम ॥ 48 ॥

  49. तयक्तश्रियं भर्तृहीनाम अनाथां वयसनान्विताम अन्वेषमाणां भर्तारं तं वै नरवरॊत्तमम ॥ 49 ॥

  50. खम उल्लिखद्भिर एतैर हि तवया शृङ्गशतैर नृपः कच चिद दृष्टॊ ऽचलश्रेष्ठ वने ऽसमिन दारुणे नलः ॥ 50 ॥

  51. गजेन्द्रविक्रमॊ धीमान दीर्घबाहुर अमर्षणः विक्रान्तः सत्यवाग धीरॊ भर्ता मम महायशाः निषधानाम अधिपतिः कच चिद दृष्टस तवया नलः ॥ 51 ॥

  52. किं मां विलपतीम एकां पर्वतश्रेष्ठ दुःखिताम गिरा नाश्वासयस्य अद्य सवां सुताम इव दुःखिताम ॥ 52 ॥

  53. वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते यद्य अस्य अस्मिन वने राजन दर्शयात्मानम आत्मना ॥ 53 ॥

  54. कदा नु सनिग्धगम्भीरां जीमूतस्वनसंनिभाम शरॊष्यामि नैषधस्याहं वाचं ताम अमृतॊपमाम ॥ 54 ॥

  55. वैदर्भीत्य एव कथितां शुभां राज्ञॊ महात्मनः आम्नायसारिणीम ऋद्धां मम शॊकनिबर्हिणीम ॥ 55 ॥

  56. इति सा तं गिरिश्रेष्ठम उक्त्वा पार्थिवनन्दिनी दमयन्ती ततॊ भूयॊ जगाम दिशम उत्तराम ॥ 56 ॥

  57. सा गत्वा तरीन अहॊरात्रान ददर्श परमाङ्गना तापसारण्यम अतुलं दिव्यकाननदर्शनम ॥ 57 ॥

  58. वसिष्ठभृग्वत्रिसमैस तापसैर उपशॊभितम नियतैः संयताहारैर दमशौचसमन्वितैः ॥ 58 ॥

  59. अब्भक्षैर वायुभक्षैश च पत्राहारैस तथैव च जितेन्द्रियैर महाभागैः सवर्गमार्गदिदृक्षुभिः ॥ 59 ॥

  60. वल्कलाजिनसंवीतैर मुनिभिः संयतेन्द्रियैः तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम ॥ 60 ॥

  61. सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम शाखामृगगणैश चैव तापसैश च समन्वितम ॥ 61 ॥

  62. सुभ्रूः सुकेशी सुश्रॊणी सुकुचा सुद्विजानना वर्चस्विनी सुप्रतिष्ठा सवञ्चितॊद्यतगामिनी ॥ 62 ॥

  63. सा विवेशाश्रमपदं वीरसेनसुतप्रिया यॊषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥ 63 ॥

  64. साभिवाद्य तपॊवृद्धान विनयावनता सथिता सवागतं त इति परॊक्ता तैः सर्वैस तापसैश च सा ॥ 64 ॥

  65. पूजां चास्या यथान्यायं कृत्वा तत्र तपॊधनाः आस्यताम इत्य अथॊचुस ते बरूहि किं करवामहे ॥ 65 ॥

  66. तान उवाच वरारॊहा कच चिद भवगताम इह तपस्य अग्निषु धर्मेषु मृगपक्षिषु चानघाः कुशलं वॊ महाभागाः सवधर्मचरणेषु च ॥ 66 ॥

  67. तैर उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी बरूहि सर्वानवद्याङ्गि का तवं किं च चिकीर्षसि ॥ 67 ॥

  68. दृष्ट्वैव ते परं रूपं दयुतिं च परमाम इह विस्मयॊ नः समुत्पन्नः समाश्वसिहि मा शुचः ॥ 68 ॥

  69. अस्यारण्यस्य महती देवता वा महीभृतः अस्या नु नद्याः कल्याणि वद सत्यम अनिन्दिते ॥ 69 ॥

  70. साब्रवीत तान ऋषीन नाहम अरण्यस्यास्य देवता न चाप्य अस्य गिरेर विप्रा न नद्या देवताप्य अहम ॥ 70 ॥

  71. मानुषीं मां विजानीत यूयं सर्वे तपॊधनाः विस्तरेणाभिधास्यामि तन मे शृणुत सर्वशः ॥ 71 ॥

  72. विदर्भेषु महीपालॊ भीमॊ नाम महाद्युतिः तस्य मां तनयां सर्वे जानीत दविजसत्तमाः ॥ 72 ॥

  73. निषधाधिपतिर धीमान नलॊ नाम महायशाः वीरः संग्रामजिद विद्वान मम भर्ता विशां पतिः ॥ 73 ॥

  74. देवताभ्यर्चनपरॊ दविजातिजनवत्सलः गॊप्ता निषधवंशस्य महाभागॊ महाद्युतिः ॥ 74 ॥

  75. सत्यवाग धर्मवित पराज्ञः सत्यसंधॊ ऽरिमर्दनः बरह्मण्यॊ दैवतपरः शरीमान परपुरंजयः ॥ 75 ॥

  76. नलॊ नाम नृपश्रेष्ठॊ देवराजसमद्युतिः मम भर्ता विशालाक्षः पूर्णेन्दुवदनॊ ऽरिहा ॥ 76 ॥

  77. आहर्ता करतुमुख्यानां वेदवेदाङ्गपारगः सपत्नानां मृधे हन्ता रविसॊमसमप्रभः ॥ 77 ॥

  78. स कैश चिन निकृतिप्रज्ञैर अकल्याणैर नराधमैः आहूय पृथिवीपालः सत्यधर्मपरायणः देवने कुशलैर जिह्मैर जितॊ राज्यं वसूनि च ॥ 78 ॥

  79. तस्य माम अवगच्छध्वं भार्यां राजर्षभस्य वै दमयन्तीति विख्यातां भर्तृदर्शनलालसाम ॥ 79 ॥

  80. सा वनानि गिरींश चैव सरांसि सरितस तथा पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥ 80 ॥

  81. अन्वेषमाणा भर्तारं नलं रणविशारदम महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ 81 ॥

  82. कच चिद भगवतां पुण्यं तपॊवनम इदं नृपः भवेत पराप्तॊ नलॊ नाम निषधानां जनाधिपः ॥ 82 ॥

  83. यत्कृते ऽहम इदं विप्राः परपन्ना भृशदारुणम वनं परतिभयं घॊरं शार्दूलमृगसेवितम ॥ 83 ॥

  84. यदि कैश चिद अहॊरात्रैर न दरक्ष्यामि नलं नृपम आत्मानं शरेयसा यॊक्ष्ये देहस्यास्य विमॊचनात ॥ 84 ॥

  85. कॊ नु मे जीवितेनार्थस तम ऋते पुरुषर्षभम कथं भविष्याम्य अद्याहं भर्तृशॊकाभिपीडिता ॥ 85 ॥

  86. एवं विलपतीम एकाम अरण्ये भीमनन्दिनीम दमयन्तीम अथॊचुस ते तापसाः सत्यवादिनः ॥ 86 ॥

  87. उदर्कस तव कल्याणि कल्याणॊ भविता शुभे वयं पश्याम तपसा कषिप्रं दरक्ष्यसि नैषधम ॥ 87 ॥

  88. निषधानाम अधिपतिं नलं रिपुनिघातिनम भैमि धर्मभृतां शरेष्ठं दरक्ष्यसे विगतज्वरम ॥ 88 ॥

  89. विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम तद एव नगरश्रेष्ठं परशासन्तम अरिंदमम ॥ 89 ॥

  90. दविषतां भयकर्तारं सुहृदां शॊकनाशनम पतिं दरक्ष्यसि कल्याणि कल्याणाभिजनं नृपम ॥ 90 ॥

  91. एवम उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम अन्तर्हितास तापसास ते साग्निहॊत्राश्रमास तदा ॥ 91 ॥

  92. सा दृष्ट्वा महद आश्चर्यं विस्मिता अभवत तदा दमयन्त्य अनवद्याङ्गी वीरसेननृपस्नुषा ॥ 92 ॥

  93. किं नु सवप्नॊ मया दृष्टः कॊ ऽयं विधिर इहाभवत कव नु ते तापसाः सर्वे कव तद आश्रममण्डलम ॥ 93 ॥

  94. कव सा पुण्यजला रम्या नानाद्विजनिषेविता नदी ते च नगा हृद्याः फलपुष्पॊपशॊभिताः ॥ 94 ॥

  95. धयात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता भर्तृशॊकपरा दीना विवर्णवदनाभवत ॥ 95 ॥

  96. सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा विललापाश्रुपूर्णाक्षी दृष्ट्वाशॊकतरुं ततः ॥ 96 ॥

  97. उपगम्य तरुश्रेष्ठम अशॊकं पुष्पितं तदा पल्लवापीडितं हृद्यं विहंगैर अनुनादितम ॥ 97 ॥

  98. अहॊ बतायम अगमः शरीमान अस्मिन वनान्तरे आपीडैर बहुभिर भाति शरीमान दरमिडराड इव ॥ 98 ॥

  99. विशॊकां कुरु मां कषिप्रम अशॊक परियदर्शन वीतशॊकभयाबाधं कच चित तवं दृष्टवान नृपम ॥ 99 ॥

  100. नलं नामारिदमनं दमयन्त्याः परियं पतिम निषधानाम अधिपतिं दृष्टवान असि मे परियम ॥ 100 ॥

  101. एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम वयसनेनार्दितं वीरम अरण्यम इदम आगतम ॥ 101 ॥

  102. यथा विशॊका गच्छेयम अशॊकनग तत कुरु सत्यनामा भवाशॊक मम शॊकविनाशनात ॥ 102 ॥

  103. एवं साशॊकवृक्षं तम आर्ता तरिः परिगम्य ह जगाम दारुणतरं देशं भैमी वराङ्गना ॥ 103 ॥

  104. सा ददर्श नगान नैकान नैकाश च सरितस तथा नैकांश च पर्वतान रम्यान नैकांश च मृगपक्षिणः ॥ 104 ॥

  105. कन्दरांश च नितम्बांश च नदांश चाद्भुतदर्शनान ददर्श सा भीमसुता पतिम अन्वेषती तदा ॥ 105 ॥

  106. गत्वा परकृष्टम अध्वानं दमयन्ती शुचिस्मिता ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम ॥ 106 ॥

  107. उत्तरन्तं नदीं रम्यां परसन्नसलिलां शुभाम सुशीततॊयां विस्तीर्णां हरदिनीं वेतसैर वृताम ॥ 107 ॥

  108. परॊद्घुष्टां करौञ्चकुररैश चक्रवाकॊपकूजिताम कूर्मग्राहझषाकीर्णां पुलिनद्वीपशॊभिताम ॥ 108 ॥

  109. सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी उपसर्प्य वरारॊहा जनमध्यं विवेश ह ॥ 109 ॥

  110. उन्मत्तरूपा शॊकार्ता तथा वस्त्रार्धसंवृता कृशा विवर्णा मलिना पांसुध्वस्तशिरॊरुहा ॥ 110 ॥

  111. तां दृष्ट्वा तत्र मनुजाः के चिद भीताः परदुद्रुवुः के चिच चिन्तापरास तस्थुः के चित तत्र विचुक्रुशुः ॥ 111 ॥

  112. परहसन्ति सम तां के चिद अभ्यसूयन्त चापरे चक्रुस तस्यां दयां के चित पप्रच्छुश चापि भारत ॥ 112 ॥

  113. कासि कस्यासि कल्याणि किं वा मृगयसे वने तवां दृष्ट्वा वयथिताः समेह कच चित तवम असि मानुषी ॥ 113 ॥

  114. वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः देवता तवं हि कल्याणि तवां वयं शरणं गताः ॥ 114 ॥

  115. यक्षी वा राक्षसी वा तवम उताहॊ ऽसि वराङ्गना सर्वथा कुरु नः सवस्ति रक्षस्वास्मान अनिन्दिते ॥ 115 ॥

  116. यथायं सर्वथा सार्थः कषेमी शीघ्रम इतॊ वरजेत तथा विधत्स्व कल्याणि तवां वयं शरणं गताः ॥ 116 ॥

  117. परत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता सार्थवाहं च सार्थं च जना ये चात्र के चन ॥ 117 ॥

  118. मानुषीं मां विजानीत मनुजाधिपतेः सुताम नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम ॥ 118 ॥

  119. विदर्भराण मम पिता भर्ता राजा च नैषधः नलॊ नाम महाभागस तं मार्गाम्य अपराजितम ॥ 119 ॥

  120. यदि जानीत नृपतिं कषिप्रं शंसत मे परियम नलं पार्थिवशार्दूलम अमित्रगणसूदनम ॥ 120 ॥

  121. ताम उवाचानवद्याङ्गीं सार्थस्य महतः परभुः सार्थवाहः शुचिर नाम शृणु कल्याणि मद्वचः ॥ 121 ॥

  122. अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ 122 ॥

  123. कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान अपि पश्याम्य अस्मिन वने कष्टे अमनुष्यनिषेविते तथा नॊ यक्षराड अद्य मणिभद्रः परसीदतु ॥ 123 ॥

  124. साब्रवीद वणिजः सर्वान सार्थवाहं च तं ततः कव नु यास्यसि सार्थॊ ऽयम एतद आख्यातुम अर्हथ ॥ 124 ॥

  125. सार्थवाह उवाच सार्थॊ ऽयं चेदिराजस्य सुबाहॊर सत्यवादिनः कषिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ 125 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60