धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 60

  1. बृहदश्व उवाच अपक्रान्ते नले राजन दमयन्ती गतक्लमा अबुध्यत वरारॊहा संत्रस्ता विजने वने ॥ 1 ॥

  2. सापश्यमाना भर्तारं दुःखशॊकसमन्विता पराक्रॊशद उच्चैः संत्रस्ता महाराजेति नैषधम ॥ 2 ॥

  3. हा नाथ हा महाराज हा सवामिन किं जहासि माम हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥ 3 ॥

  4. ननु नाम महाराज धर्मज्ञः सत्यवाग असि कथम उक्त्वा तथासत्यं सुप्ताम उत्सृज्य मां गतः ॥ 4 ॥

  5. कथम उत्सृज्य गन्तासि वश्यां भार्याम अनुव्रताम विशेषतॊ ऽनपकृते परेणापकृते सति ॥ 5 ॥

  6. शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर यास तवया लॊकपालानां संनिधौ कथिताः पुरा ॥ 6 ॥

  7. पर्याप्तः परिहासॊ ऽयम एतावान पुरुषर्षभ भीताहम अस्मि दुर्धर्ष दर्शयात्मानम ईश्वर ॥ 7 ॥

  8. दृश्यसे दृश्यसे राजन्न एष तिष्ठसि नैषध आवार्य गुल्मैर आत्मानं किं मां न परतिभाषसे ॥ 8 ॥

  9. नृशंसं बत राजेन्द्र यन माम एवंगताम इह विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ 9 ॥

  10. न शॊचाम्य अहम आत्मानं न चान्यद अपि किं चन कथं नु भवितास्य एक इति तवां नृप शॊचिमि ॥ 10 ॥

  11. कथं नु राजंस तृषितः कषुधितः शरमकर्शितः सायाह्ने वृक्षमूलेषु माम अपश्यन भविष्यसि ॥ 11 ॥

  12. ततः सा तीव्रशॊकार्ता परदीप्तेव च मन्युना इतश चेतश च रुदती पर्यधावत दुःखिता ॥ 12 ॥

  13. मुहुर उत्पतते बाला मुहुः पतति विह्वला मुहुर आलीयते भीता मुहुः करॊशति रॊदिति ॥ 13 ॥

  14. सा तीव्रशॊकसंतप्ता मुहुर निःश्वस्य विह्वला उवाच भैमी निष्क्रम्य रॊदमाना पतिव्रता ॥ 14 ॥

  15. यस्याभिशापाद दुःखार्तॊ दुःखं विन्दति नैषधः तस्य भूतस्य तद दुःखाद दुःखम अभ्यधिकं भवेत ॥ 15 ॥

  16. अपापचेतसं पापॊ य एवं कृतवान नलम तस्माद दुःखतरं पराप्य जीवत्व असुखजीविकाम ॥ 16 ॥

  17. एवं तु विलपन्ती सा राज्ञॊ भार्या महात्मनः अन्वेषति सम भर्तारं वने शवापदसेविते ॥ 17 ॥

  18. उन्मत्तवद भीमसुता विलपन्ती ततस ततः हा हा राजन्न इति मुहुर इतश चेतश च धावति ॥ 18 ॥

  19. तां शुष्यमाणाम अत्यर्थं कुररीम इव वाशतीम करुणं बहु शॊचन्तीं विलपन्तीं मुहुर मुहुः ॥ 19 ॥

  20. सहसाभ्यागतां भैमीम अभ्याशपरिवर्तिनीम जग्राहाजगरॊ गराहॊ महाकायः कषुधान्वितः ॥ 20 ॥

  21. सा गरस्यमाना गराहेण शॊकेन च पराजिता नात्मानं शॊचति तथा यथा शॊचति नैषधम ॥ 21 ॥

  22. हा नाथ माम इह वने गरस्यमानाम अनाथवत गराहेणानेन विपिने किमर्थं नाभिधावसि ॥ 22 ॥

  23. कथं भविष्यसि पुनर माम अनुस्मृत्य नैषध पापान मुक्तः पुनर लब्ध्वा बुद्धिं चेतॊ धनानि च ॥ 23 ॥

  24. शरान्तस्य ते कषुधार्तस्य परिग्लानस्य नैषध कः शरमं राजशार्दूल नाशयिष्यति मानद ॥ 24 ॥

  25. ताम अकस्मान मृगव्याधॊ विचरन गहने वने आक्रन्दतीम उपश्रुत्य जवेनाभिससार ह ॥ 25 ॥

  26. तां स दृष्ट्वा तथा गरस्ताम उरगेणायतेक्षणाम तवरमाणॊ मृगव्याधः समभिक्रम्य वेगितः ॥ 26 ॥

  27. मुखतः पातयाम आस शस्त्रेण निशितेन ह निर्विचेष्टं भुजंगं तं विशस्य मृगजीविनः ॥ 27 ॥

  28. मॊक्षयित्वा च तां वयाधः परक्षाल्य सलिलेन च समाश्वास्य कृताहाराम अथ पप्रच्छ भारत ॥ 28 ॥

  29. कस्य तवं मृगशावाक्षि कथं चाभ्यागता वनम कथं चेदं महत कृच्छ्रं पराप्तवत्य असि भामिनि ॥ 29 ॥

  30. दमयन्ती तथा तेन पृच्छ्यमाना विशां पते सर्वम एतद यथावृत्तम आचचक्षे ऽसय भारत ॥ 30 ॥

  31. ताम अर्धवस्त्रसंवीतां पीनश्रॊणिपयॊधराम सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम ॥ 31 ॥

  32. अरालपक्ष्मनयनां तथा मधुरभाषिणीम लक्षयित्वा मृगव्याधः कामस्य वशम एयिवान ॥ 32 ॥

  33. ताम अथ शलक्ष्णया वाचा लुब्धकॊ मृदुपुर्वया सान्त्वयाम आस कामार्तस तद अबुध्यत भामिनी ॥ 33 ॥

  34. दमयन्ती तु तं दुष्टम उपलभ्य पतिव्रता तीव्ररॊषसमाविष्टा परजज्वालेव मन्युना ॥ 34 ॥

  35. स तु पापमतिः कषुद्रः परधर्षयितुम आतुरः दुर्धर्षां तर्कयाम आस दीप्ताम अग्निशिखाम इव ॥ 35 ॥

  36. दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता अतीतवाक्पथे काले शशापैनं रुषा किल ॥ 36 ॥

  37. यथाहं नैषधाद अन्यं मनसापि न चिन्तये तथायं पततां कषुद्रः परासुर मृगजीवनः ॥ 37 ॥

  38. उक्तमात्रे तु वचने तया स मृगजीवनः वयसुः पपात मेदिन्याम अग्निदग्ध इव दरुमः ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 61

Previous: अध्याय 59