धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 59

  1. नल उवाच यथा राज्यं पितुस ते तत तथा मम न संशयः न तु तत्र गमिष्यामि विषमस्थः कथं चन ॥ 1 ॥

  2. कथं समृद्धॊ गत्वाहं तव हर्षविवर्धनः परिद्यूनॊ गमिष्यामि तव शॊकविवर्धनः ॥ 2 ॥

  3. बृहदश्व उवाच इति बरुवन नलॊ राजा दमयन्तीं पुनः पुनः सान्त्वयाम आस कल्याणीं वाससॊ ऽरधेन संवृताम ॥ 3 ॥

  4. ताव एकवस्त्रसंवीताव अटमानाव इतस ततः कषुत्पिपासापरिश्रान्तौ सभां कां चिद उपेयतुः ॥ 4 ॥

  5. तां सभाम उपसंप्राप्य तदा स निषधाधिपः वैदर्भ्या सहितॊ राजा निषसाद महीतले ॥ 5 ॥

  6. स वै विवस्त्रॊ मलिनॊ विकचः पांसुगुण्ठितः दमयन्त्या सह शरान्तः सुष्वाप धरणीतले ॥ 6 ॥

  7. दमयन्त्य अपि कल्याणी निद्रयापहृता ततः सहसा दुःखम आसाद्य सुकुमारी तपस्विनी ॥ 7 ॥

  8. सुप्तायां दमयन्त्यां तु नलॊ राजा विशां पते शॊकॊन्मथितचित्तात्मा न सम शेते यथा पुरा ॥ 8 ॥

  9. स तद राज्यापहरणं सुहृत्त्यागं च सर्वशः वने च तं परिध्वंसं परेक्ष्य चिन्ताम उपेयिवान ॥ 9 ॥

  10. किं नु मे सयाद इदं कृत्वा किं नु मे सयाद अकुर्वतः किं नु मे मरणं शरेयः परित्यागॊ जनस्य वा ॥ 10 ॥

  11. माम इयं हय अनुरक्तेदं दुःखम आप्नॊति मत्कृते मद्विहीना तव इयं गच्छेत कदा चित सवजनं परति ॥ 11 ॥

  12. मया निःसंशयं दुःखम इयं पराप्स्यत्य अनुत्तमा उत्सर्गे संशयः सयात तु विन्देतापि सुखं कव चित ॥ 12 ॥

  13. स विनिश्चित्य बहुधा विचार्य च पुनः पुनः उत्सर्गे ऽमन्यत शरेयॊ दमयन्त्या नराधिपः ॥ 13 ॥

  14. सॊ ऽवस्त्रताम आत्मनश च तस्याश चाप्य एकवस्त्रताम चिन्तयित्वाध्यगाद राजा वस्त्रार्धस्यावकर्तनम ॥ 14 ॥

  15. कथं वासॊ विकर्तेयं न च बुध्येत मे परिया चिन्त्यैवं नैषधॊ राजा सभां पर्यचरत तदा ॥ 15 ॥

  16. परिधावन्न अथ नल इतश चेतश च भारत आससाद सभॊद्देशे विकॊशं खड्गम उत्तमम ॥ 16 ॥

  17. तेनार्धं वाससश छित्त्वा निवस्य च परंतपः सुप्ताम उत्सृज्य वैदर्भीं पराद्रवद गतचेतनः ॥ 17 ॥

  18. ततॊ निबद्धहृदयः पुनर आगम्य तां सभाम दमयन्तीं तथा दृष्ट्वा रुरॊद निषधाधिपः ॥ 18 ॥

  19. यां न वायुर न चादित्यः पुरा पश्यति मे परियाम सेयम अद्य सभामध्ये शेते भूमाव अनाथवत ॥ 19 ॥

  20. इयं वस्त्रावकर्तेन संवीता चारुहासिनी उन्मत्तेव वरारॊहा कथं बुद्ध्वा भविष्यति ॥ 20 ॥

  21. कथम एका सती भैमी मया विरहिता शुभा चरिष्यति वने घॊरे मृगव्यालनिषेविते ॥ 21 ॥

  22. गत्वा गत्वा नलॊ राजा पुनर एति सभां मुहुः आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥ 22 ॥

  23. दविधेव हृदयं तस्य दुःखितस्याभवत तदा दॊलेव मुहुर आयाति याति चैव सभां मुहुः ॥ 23 ॥

  24. सॊ ऽपकृष्टस तु कलिना मॊहितः पराद्रवन नलः सुप्ताम उत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ 24 ॥

  25. नष्टात्मा कलिना सपृष्टस तत तद विगणयन नृपः जगामैव वने शून्ये भार्याम उत्सृज्य दुःखितः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 60

Previous: अध्याय 58