धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 5

  1. [व] वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा ॥ 1 ॥

  2. परज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च तवं परमं वेत्थ सूक्ष्मम समश च तवं संमतः कौरवाणां; पथ्यं चैषां मम चैव बरवीहि ॥ 2 ॥

  3. एवंगते विदुर यद अद्य कार्यं; पौराश चेमे कथम अस्मान भजेरन ते चाप्य अस्मान नॊद्धरेयुः समूलान; न कामये तांश च विनश्यमाना ॥ 3 ॥

  4. [वि] तरिगर्तॊ ऽयं धर्ममूलॊ नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति धर्मे राजन वर्तमानः सवशक्त्या; पुत्रान सर्वान पाहि कुन्तीसुतांश च ॥ 4 ॥

  5. स वै धर्मॊ विप्रलुप्तः सभायां; पापात्मभिः सौबलेय परधानैः आहूय कुन्तीसुतम अक्षवत्यां; पराजैषीत सत्यसंधं सुतस ते ॥ 5 ॥

  6. एतस्य ते दुष्प्रणीतस्य राजञ; शेषस्याहं परिपश्याम्य उपायम यथा पुत्रस तव कौरव्य पापान; मुक्तॊ लॊके परतितिष्ठेत साधु ॥ 6 ॥

  7. तद वै सर्वं पाण्डुपुत्रा लभन्तां; यत तद राजन्न अतिसृष्टं तवयासीत एष धर्मः परमॊ यत सवकेन; राजा तुष्येन अन परस्वेषु गृध्येत ॥ 7 ॥

  8. एतत कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश चावमानः एवं शेषं यदि पुत्रेषु ते सयाद; एतद राजंस तवरमाणः कुरुष्व ॥ 8 ॥

  9. अथैतद एवं न करॊषि राजन; धरुवं कुरूणां भविता विनाशः न हि करुद्धॊ भीमसेनॊ ऽरजुनॊ वा; शेषं कुर्याच छात्रवाणाम अनीके ॥ 9 ॥

  10. येषां यॊद्धा सव्यसाची कृतास्त्रॊ; धनुर येषां पाण्डिवं लॊकसारम येषां भीमॊ बाहुशाली च यॊद्धा; तेषां लॊके किं नु न पराप्यम अस्ति ॥ 10 ॥

  11. उक्तं पूर्वं जातमात्रे सुते ते; मया यत ते हितम आसीत तदानीम पुत्रं तयजेमम अहितं कुलस्येत्य; एतद राजन न च तत तवं चकर्थ इदानीं ते हितम उक्तं न चेत तवं; कर्तासि राजन परितप्तासि पश्चात ॥ 11 ॥

  12. यद्य एतद एवम अनुमन्ता सुतस ते; संप्रीयमाणः पाण्डवैर एकराज्यम तापॊ न ते वै भविता परीतियॊगात; तवं चेन न गृह्णासि सुतं सहायैः अथापरॊ भवति हि तं निगृह्य; पाण्डॊः पुत्रं परकुरुष्वाधिपत्ये ॥ 12 ॥

  13. अजातशत्रुर हि विमुक्तरागॊ; धर्मेणेमां पृथिवीं शास्तु राजन ततॊ राजन पार्थिवाः सर्व एव; वैश्या इवास्मान उपतिष्ठन्तु सद्यः ॥ 13 ॥

  14. दुर्यॊधनः शकुनिः सूतपुत्रः; परीत्या राजन पाण्डुपुत्रान भजन्ताम दुःशासनॊ याचतु भीमसेनं; सभामध्ये दरुपदस्यात्मजां च ॥ 14 ॥

  15. युधिष्ठिरं तवं परिसान्त्वयस्व; राज्ये चैनं सथापयस्वाभिपूज्य तवया पृष्ठः किम अहम अन्यद वदेयम; एतत कृत्वा कृतकृत्यॊ ऽसि राजन ॥ 15 ॥

  16. [धृ] एतद वाक्यं विदुर यत ते सभायाम; इह परॊक्तं पाण्डवान पराप्य मां च हितं तेषाम अहितं मामकानाम; एतत सर्वं मम नॊपैति चेतः ॥ 16 ॥

  17. इदं तव इदानीं कुत एव निश्चितं; तेषाम अर्थे पाण्डवानां यद आत्थ तेनाद्य मन्ये नासि हितॊ ममेति; कथं हि पुत्रं पाण्डवार्थे तयजेयम ॥ 17 ॥

  18. असंशयं ते ऽपि ममैव पुत्रा; दुर्यॊधनस तु मम देहात परसूतः सवं वै देहं परहेतॊस तयजेति; कॊ नु बरूयात समताम अन्ववेक्षन ॥ 18 ॥

  19. स मा जिह्मं विदुर सर्वं बरवीषि; मानं च ते ऽहम अधिकं धारयामि यथेच्छकं गच्छ वा तिष्ठ वा तवं; सुसान्त्व्यमानाप्य असती सत्री जहाति ॥ 19 ॥

  20. [व] एतावद उक्त्वा धृतराष्ट्रॊ ऽनवपद्यद; अन्तर वेश्म सहसॊत्थाय राजन नेदम अस्तीत्य अथ विदुरॊ भाषमाणः; संप्राद्रवद यत्र पार्थ बभूवुः ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4