बृहदश्व उवाच ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन ॥ 1 ॥
हृतराज्यं नलं राजन परहसन पुष्करॊ ऽबरवीत दयूतं परवर्ततां भूयः परतिपाणॊ ऽसति कस तव ॥ 2 ॥
शिष्टा ते दमयन्त्य एका सर्वम अन्यद धृतं मया दमयन्त्याः पुणः साधु वर्ततां यदि मन्यसे ॥ 3 ॥
पुष्करेणैवम उक्तस्य पुण्यश्लॊकस्य मन्युना वयदीर्यतेव हृदयं न चैनं किं चिद अब्रवीत ॥ 4 ॥
ततः पुष्करम आलॊक्य नलः परममन्युमान उत्सृज्य सर्वगात्रेभ्यॊ भूषणानि महायशाः ॥ 5 ॥
एकवासा असंवीतः सुहृच्छॊकविवर्धनः निश्चक्राम तदा राजा तयक्त्वा सुविपुलां शरियम ॥ 6 ॥
दमयन्त्य एकवस्त्रा तं गच्छन्तं पृष्ठतॊ ऽनवियात स तया बाह्यतः सार्धं तरिरात्रं नैषधॊ ऽवसत ॥ 7 ॥
पुष्करस तु महाराज घॊषयाम आस वै पुरे नले यः सम्यग आतिष्ठेत स गच्छेद वध्यतां मम ॥ 8 ॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च पौरा न तस्मिन सत्कारं कृतवन्तॊ युधिष्ठिर ॥ 9 ॥
स तथा नगराभ्याशे सत्कारार्हॊ न सत्कृतः तरिरात्रम उषितॊ राजा जलमात्रेण वर्तयन ॥ 10 ॥
कषुधा संपीड्यमानस तु नलॊ बहुतिथे ऽहनि अपश्यच छकुनान कांश चिद धिरण्यसदृशच्छदान ॥ 11 ॥
स चिन्तयाम आस तदा निषधाधिपतिर बली अस्ति भक्षॊ ममाद्यायं वसु चेदं भविष्यति ॥ 12 ॥
ततस तान अन्तरीयेण वाससा समवास्तृणॊत तस्यान्तरीयम आदाय जग्मुः सर्वे विहायसा ॥ 13 ॥
उत्पतन्तः खगास ते तु वाक्यम आहुस तदा नलम दृष्ट्वा दिग्वाससं भूमौ सथितं दीनम अधॊमुखम ॥ 14 ॥
वयम अक्षाः सुदुर्बुद्धे तव वासॊर जिहीर्षवः आगता न हि नः परीतिः सवाससि गते तवयि ॥ 15 ॥
तान समीक्ष्य गतान अक्षान आत्मानं च विवाससम पुण्यश्लॊकस ततॊ राजा दमयन्तीम अथाब्रवीत ॥ 16 ॥
येषां परकॊपाद ऐश्वर्यात परच्युतॊ ऽहम अनिन्दिते पराणयात्रां न विन्दे च दुःखितः कषुधयार्दितः ॥ 17 ॥
येषां कृते न सत्कारम अकुर्वन मयि नैषधाः त इमे शकुना भूत्वा वासॊ ऽपय अपहरन्ति मे ॥ 18 ॥
वैषम्यं परमं पराप्तॊ दुःखितॊ गतचेतनः भर्ता ते ऽहं निबॊधेदं वचनं हितम आत्मनः ॥ 19 ॥
एते गच्छन्ति बहवः पन्थानॊ दक्षिणापथम अवन्तीम ऋक्षवन्तं च समतिक्रम्य पर्वतम ॥ 20 ॥
एष विन्ध्यॊ महाशैलः पयॊष्णी च समुद्रगा आश्रमाश च महर्षीणाम अमी पुष्पफलान्विताः ॥ 21 ॥
एष पन्था विदर्भाणाम अयं गच्छति कॊसलान अतः परं च देशॊ ऽयं दक्षिणे दक्षिणापथः ॥ 22 ॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता उवाच दमयन्ती तं नैषधं करुणं वचः ॥ 23 ॥
उद्वेपते मे हृदयं सीदन्त्य अङ्गानि सर्वशः तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥ 24 ॥
हृतराज्यं हृतधनं विवस्त्रं कषुच्छ्रमान्वितम कथम उत्सृज्य गच्छेयम अहं तवां विजने वने ॥ 25 ॥
शरान्तस्य ते कषुधार्तस्य चिन्तयानस्य तत सुखम वने घॊरे महाराज नाशयिष्यामि ते कलमम ॥ 26 ॥
न च भार्यासमं किं चिद विद्यते भिषजां मतम औषधं सर्वदुःखेषु सत्यम एतद बरवीमि ते ॥ 27 ॥
नल उवाच एवम एतद यथात्थ तवं दमयन्ति सुमध्यमे नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम ॥ 28 ॥
न चाहं तयक्तुकामस तवां किमर्थं भीरु शङ्कसे तयजेयम अहम आत्मानं न तव एव तवाम अनिन्दिते ॥ 29 ॥
दमयन्त्य उवाच यदि मां तवं महाराज न विहातुम इहेच्छसि तत किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ 30 ॥
अवैमि चाहं नृपते न तवं मां तयकुम अर्हसि चेतसा तव अपकृष्टेन मां तयजेथा महापते ॥ 31 ॥
पन्थानं हि ममाभीक्ष्णम आख्यासि नरसत्तम अतॊनिमित्तं शॊकं मे वर्धयस्य अमरप्रभ ॥ 32 ॥
यदि चायम अभिप्रायस तव राजन वरजेद इति सहिताव एव गच्छावॊ विदर्भान यदि मन्यसे ॥ 33 ॥
विदर्भराजस तत्र तवां पूजयिष्यति मानद तेन तवं पूजितॊ राजन सुखं वत्स्यसि नॊ गृहे ॥ 34 ॥
वनपर्व · Vana Parva
अध्याय 58
Reach this point to mark the section finished.
Continue to अध्याय 59