बृहदश्व उवाच दमयन्ती ततॊ दृष्ट्वा पुण्यश्लॊकं नराधिपम उन्मत्तवद अनुन्मत्ता देवने गतचेतसाम ॥ 1 ॥
भयशॊकसमाविष्टा राजन भीमसुता ततः चिन्तयाम आस तत कार्यं सुमहत पार्थिवं परति ॥ 2 ॥
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम नलं च हृतसर्वस्वम उपलभ्येदम अब्रवीत ॥ 3 ॥
बृहत्सेने वरजामात्यान आनाय्य नलशासनात आचक्ष्व यद धृतं दरव्यम अवशिष्टं च यद वसु ॥ 4 ॥
ततस ते मन्त्रिणः सर्वे विज्ञाय नलशासनम अपि नॊ भागधेयं सयाद इत्य उक्त्वा पुनर आव्रजन ॥ 5 ॥
तास तु सर्वाः परकृतयॊ दवितीयं समुपस्थिताः नयवेदयद भीमसुता न च तत परत्यनन्दत ॥ 6 ॥
वाक्यम अप्रतिनन्दन्तं भर्तारम अभिवीक्ष्य सा दमयन्ती पुनर वेश्म वरीडिता परविवेश ह ॥ 7 ॥
निशम्य सततं चाक्षान पुण्यश्लॊकपराङ्मुखान नलं च हृतसर्वस्वं धात्रीं पुनर उवाच ह ॥ 8 ॥
बृहत्सेने पुनर गच्छ वार्ष्णेयं नलशासनात सूतम आनय कल्याणि महत कार्यम उपस्थितम ॥ 9 ॥
बृहत्सेना तु तच छरुत्वा दमयन्त्याः परभाषितम वार्ष्णेयम आनयाम आस पुरुषैर आप्तकारिभिः ॥ 10 ॥
वार्ष्णेयं तु ततॊ भैमी सान्त्वयञ शलक्ष्णया गिरा उवाच देशकालज्ञा पराप्तकालम अनिन्दिता ॥ 11 ॥
जानीषे तवं यथा राजा सम्यग्वृत्तः सदा तवयि तस्य तवं विषमस्थस्य साहाय्यं कर्तुम अर्हसि ॥ 12 ॥
यथा यथा हि नृपतिः पुष्करेणेह जीयते तथा तथास्य दयूते वै रागॊ भूयॊ ऽभिवर्धते ॥ 13 ॥
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः तथा विपर्ययश चापि नलस्याक्षेषु दृश्यते ॥ 14 ॥
सुहृत्स्वजनवाक्यानि यथावन न शृणॊति च नूनं मन्ये न शेषॊ ऽसति नैषधस्य महात्मनः ॥ 15 ॥
यत्र मे वचनं राजा नाभिनन्दति मॊहितः शरणं तवां परपन्नास्मि सारथे कुरु मद्वचः न हि मे शुध्यते भावः कदा चिद विनशेद इति ॥ 16 ॥
नलस्य दयितान अश्वान यॊजयित्वा महाजवान इदम आरॊप्य मिथुनं कुण्डिनं यातुम अर्हसि ॥ 17 ॥
मम जञातिषु निक्षिप्य दारकौ सयन्दनं तथा अश्वांश चैतान यथाकामं वस वान्यत्र गच्छ वा ॥ 18 ॥
दमयन्त्यास तु तद वाक्यं वार्ष्णेयॊ नलसारथिः नयवेदयद अशेषेण नलामात्येषु मुख्यशः ॥ 19 ॥
तैः समेत्य विनिश्चित्य सॊ ऽनुज्ञातॊ महीपते ययौ मिथुनम आरॊप्य विदर्भांस तेन वाहिना ॥ 20 ॥
हयांस तत्र विनिक्षिप्य सूतॊ रथवरं च तम इन्द्रसेनां च तां कन्याम इन्द्रसेनं च बालकम ॥ 21 ॥
आमन्त्र्य भीमं राजानम आर्तः शॊचन नलं नृपम अटमानस ततॊ ऽयॊध्यां जगाम नगरीं तदा ॥ 22 ॥
ऋतुपर्णं स राजानम उपतस्थे सुदुःखितः भृतिं चॊपययौ तस्य सारथ्येन महीपते ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58