बृहदश्व उवाच एवं स समयं कृत्वा दवापरेण कलिः सह आजगाम ततस तत्र यत्र राजा स नैषधः ॥ 1 ॥
स नित्यम अन्तरप्रेक्षी निषधेष्व अवसच चिरम अथास्य दवादशे वर्षे ददर्श कलिर अन्तरम ॥ 2 ॥
कृत्वा मूत्रम उपस्पृश्य संध्याम आस्ते सम नैषधः अकृत्वा पादयॊः शौचं तत्रैनं कलिर आविशत ॥ 3 ॥
स समाविश्य तु नलं समीपं पुष्करस्य ह गत्वा पुष्करम आहेदम एहि दीव्य नलेन वै ॥ 4 ॥
अक्षद्यूते नलं जेता भवान हि सहितॊ मया निषधान परतिपद्यस्व जित्वा राजन नलं नृपम ॥ 5 ॥
एवम उक्तस तु कलिना पुष्करॊ नलम अभ्ययात कलिश चैव वृषॊ भूत्वा गवां पुष्करम अभ्ययात ॥ 6 ॥
आसाद्य तु नलं वीरं पुष्करः परवीरहा दीव्यावेत्य अब्रवीद भराता वृषेणेति मुहुर मुहुः ॥ 7 ॥
न चक्षमे ततॊ राजा समाह्वानं महामनाः वैदर्भ्याः परेक्षमाणायाः पणकालम अमन्यत ॥ 8 ॥
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम आविष्टः कलिना दयूते जीयते सम नलस तदा ॥ 9 ॥
तम अक्षमदसंमत्तं सुहृदां न तु कश चन निवारणे ऽभवच छक्तॊ दीव्यमानम अचेतसम ॥ 10 ॥
ततः पौरजनः सर्वॊ मन्त्रिभिः सह भारत राजानं दरष्टुम आगच्छन निवारयितुम आतुरम ॥ 11 ॥
ततः सूत उपागम्य दमयन्त्यै नयवेदयत एष पौरजनः सर्वॊ दवारि तिष्ठति कार्यवान ॥ 12 ॥
निवेद्यतां नैषधाय सर्वाः परकृतयः सथिताः अमृष्यमाणा वयसनं राज्ञॊ धर्मार्थदर्शिनः ॥ 13 ॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता उवाच नैषधं भैमी शॊकॊपहतचेतना ॥ 14 ॥
राजन पौरजनॊ दवारि तवां दिदृक्षुर अवस्थितः मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः तं दरष्टुम अर्हसीत्य एव पुनः पुनर अभाषत ॥ 15 ॥
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम आविष्टः कलिना राजा नाभ्यभाषत किं चन ॥ 16 ॥
ततस ते मन्त्रिणः सर्वे ते चैव पुरवासिनः नायम अस्तीति दुःखार्ता वरीडिता जग्मुर आलयान ॥ 17 ॥
तथा तद अभवद दयूतं पुष्करस्य नलस्य च युधिष्ठिर बहून मासान पुण्यश्लॊकस तव अजीयत ॥ 18 ॥
वनपर्व · Vana Parva
अध्याय 56
Reach this point to mark the section finished.
Continue to अध्याय 57