बृहदश्व उवाच वृते तु नैषधे भैम्या लॊकपाला महौजसः यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह ॥ 1 ॥
अथाब्रवीत कलिं शक्रः संप्रेक्ष्य बलवृत्रहा दवापरेण सहायेन कले बरूहि कव यास्यसि ॥ 2 ॥
ततॊ ऽबरवीत कलिः शक्रं दमयन्त्याः सवयंवरम गत्वाहं वरयिष्ये तां मनॊ हि मम तद्गतम ॥ 3 ॥
तम अब्रवीत परहस्येन्द्रॊ निर्वृत्तः स सवयंवरः वृतस तया नलॊ राजा पतिर अस्मत्समीपतः ॥ 4 ॥
एवम उक्तस तु शक्रेण कलिः कॊपसमन्वितः देवान आमन्त्र्य तान सर्वान उवाचेदं वचस तदा ॥ 5 ॥
देवानां मानुषं मध्ये यत सा पतिम अविन्दत ननु तस्या भवेन नयाय्यं विपुलं दण्डधारणम ॥ 6 ॥
एवम उक्ते तु कलिना परत्यूचुस ते दिवौकसः अस्माभिः समनुज्ञातॊ दमयन्त्या नलॊ वृतः ॥ 7 ॥
कश च सर्वगुणॊपेतं नाश्रयेत नलं नृपम यॊ वेद धर्मान अखिलान यथावच चरितव्रतः ॥ 8 ॥
यस्मिन सत्यं धृतिर दानं तपः शौचं दमः शमः धरुवाणि पुरुषव्याघ्रे लॊकपालसमे नृपे ॥ 9 ॥
आत्मानं स शपेन मूढॊ हन्याच चात्मानम आत्मना एवंगुणं नलं यॊ वै कामयेच छपितुं कले ॥ 10 ॥
कृच्छ्रे स नरके मज्जेद अगाधे विपुले ऽपलवे एवम उक्त्वा कलिं देवा दवापरं च दिवं ययुः ॥ 11 ॥
ततॊ गतेषु देवेषु कलिर दवापरम अब्रवीत संहर्तुं नॊत्सहे कॊपं नले वत्स्यामि दवापर ॥ 12 ॥
भरंशयिष्यामि तं राज्यान न भैम्या सह रंस्यते तवम अप्य अक्षान समाविश्य कर्तुं साहाय्यम अर्हसि ॥ 13 ॥
वनपर्व · Vana Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56