धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 54

  1. बृहदश्व उवाच अथ काले शुभे पराप्ते तिथौ पुण्ये कषणे तथा आजुहाव महीपालान भीमॊ राजा सवयंवरे ॥ 1 ॥

  2. तच छरुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः तवरिताः समुपाजग्मुर दमयन्तीम अभीप्सवः ॥ 2 ॥

  3. कनकस्तम्भरुचिरं तॊरणेन विराजितम विविशुस ते महारङ्गं नृपाः सिंहा इवाचलम ॥ 3 ॥

  4. तत्रासनेषु विविधेष्व आसीनाः पृथिवीक्षितः सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥ 4 ॥

  5. तां राजसमितिं पूर्णां नागैर भॊगवतीम इव संपूर्णां पुरुषव्याघ्रैर वयाघ्रैर गिरिगुहाम इव ॥ 5 ॥

  6. तत्र सम पीना दृश्यन्ते बाहवः परिघॊपमाः आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवॊरगाः ॥ 6 ॥

  7. सुकेशान्तानि चारूणि सुनासानि शुभानि च मुखानि राज्ञां शॊभन्ते नक्षत्राणि यथा दिवि ॥ 7 ॥

  8. दमयन्ती ततॊ रङ्गं परविवेश शुभानना मुष्णन्ती परभया राज्ञां चक्षूंसि च मनांसि च ॥ 8 ॥

  9. तस्या गात्रेषु पतिता तेषां दृष्टिर महात्मनाम तत्र तत्रैव सक्ताभून न चचाल च पश्यताम ॥ 9 ॥

  10. ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ददर्श भैमी पुरुषान पञ्च तुल्याकृतीन इव ॥ 10 ॥

  11. तान समीक्ष्य ततः सर्वान निर्विशेषाकृतीन सथितान संदेशाद अथ वैधर्भी नाभ्यजानान नलं नृपम यं यं हि ददृशे तेषां तं तं मेने नलं नृपम ॥ 11 ॥

  12. सा चिन्तयन्ती बुद्ध्याथ तर्कयाम आस भामिनी कथं नु देवाञ जानीयां कथं विद्यां नलं नृपम ॥ 12 ॥

  13. एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता शरुतानि देवलिङ्गानि चिन्तयाम आस भारत ॥ 13 ॥

  14. देवानां यानि लिङ्गानि सथविरेभ्यः शरुतानि मे तानीह तिष्ठतां भूमाव एकस्यापि न लक्षये ॥ 14 ॥

  15. सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः शरणं परति देवानां पराप्तकालम अमन्यत ॥ 15 ॥

  16. वाचा च मनसा चैव नमः कारं परयुज्य सा देवेभ्यः पराञ्जलिर भूत्वा वेपमानेदम अब्रवीत ॥ 16 ॥

  17. हंसानां वचनं शरुत्वा यथा मे नैषधॊ वृतः पतित्वे तेन सत्येन देवास तं परदिशन्तु मे ॥ 17 ॥

  18. वाचा च मनसा चैव यथा नाभिचराम्य अहम तेन सत्येन विबुधास तम एव परदिशन्तु मे ॥ 18 ॥

  19. यथा देवैः स मे भर्ता विहितॊ निषधाधिपः तेन सत्येन मे देवास तम एव परदिशन्तु मे ॥ 19 ॥

  20. सवं चैव रूपं पुष्यन्तु लॊकपालाः सहेश्वराः यथाहम अभिजानीयां पुण्यश्लॊकं नराधिपम ॥ 20 ॥

  21. निशम्य दमयन्त्यास तत करुणं परिदेवितम निश्चयं परमं तथ्यम अनुरागं च नैषधे ॥ 21 ॥

  22. मनॊविशुद्धिं बुद्धिं च भक्तिं रागं च भारत यथॊक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ 22 ॥

  23. सापश्यद विबुधान सर्वान अस्वेदान सतब्धलॊचनान हृषितस्रग रजॊहीनान सथितान अस्पृशतः कषितिम ॥ 23 ॥

  24. छायाद्वितीयॊ मलानस्रग रजःस्वेदसमन्वितः भूमिष्ठॊ नैषधश चैव निमेषेण च सूचितः ॥ 24 ॥

  25. सा समीक्ष्य ततॊ देवान पुण्यश्लॊकं च भारत नैषधं वरयाम आस भैमी धर्मेण भारत ॥ 25 ॥

  26. विलज्जमाना वस्त्रान्ते जग्राहायतलॊचना सकन्धदेशे ऽसृजच चास्य सरजं परमशॊभनाम वरयाम आस चैवैनं पतित्वे वरवर्णिनी ॥ 26 ॥

  27. ततॊ हा हेति सहसा शब्दॊ मुक्तॊ नराधिपैः देवैर महर्षिभिश चैव साधु साध्व इति भारत विस्मितैर ईरितः शब्दः परशंसद्भिर नलं नृपम ॥ 27 ॥

  28. वृते तु नैषधे भैम्या लॊकपाला महौजसा परहृष्टमनसः सर्वे नलायाष्टौ वरान ददुः ॥ 28 ॥

  29. परत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम नैषधाय ददौ शक्रः परीयमाणः शचीपतिः ॥ 29 ॥

  30. अग्निर आत्मभवं परादाद यत्र वाञ्छति नैषधः लॊकान आत्मप्रभांश चैव ददौ तस्मै हुताशनः ॥ 30 ॥

  31. यमस तव अन्नरसं परादाद धर्मे च परमां सथितिम अपां पतिर अपां भावं यत्र वाञ्छति नैषधः ॥ 31 ॥

  32. सरजं चॊत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः वरान एवं परदायास्य देवास ते तरिदिवं गताः ॥ 32 ॥

  33. पार्थिवाश चानुभूयास्य विवाहं विस्मयान्विताः दमयन्त्याः परमुदिताः परतिजग्मुर यथागतम ॥ 33 ॥

  34. अवाप्य नारीरत्नं तत पुण्यश्लॊकॊ ऽपि पार्थिवः रेमे सह तया राजा शच्येव बलवृत्रहा ॥ 34 ॥

  35. अतीव मुदितॊ राजा भराजमानॊ ऽंशुमान इव अरञ्जयत परजा वीरॊ धर्मेण परिपालयन ॥ 35 ॥

  36. ईजे चाप्य अश्वमेधेन ययातिर इव नाहुषः अन्यैश च करतुभिर धीमान बहुभिश चाप्तदक्षिणैः ॥ 36 ॥

  37. पुनश च रमणीयेषु वनेषूपवनेषु च दमयन्त्या सह नलॊ विजहारामरॊपमः ॥ 37 ॥

  38. एवं स यजमानश च विहरंश च नराधिपः ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 55

Previous: अध्याय 53