बृहदश्व उवाच सा नमस्कृत्य देवेभ्यः परहस्य नलम अब्रवीत परणयस्व यथाश्रद्धं राजन किं करवाणि ते ॥ 1 ॥
अहं चैव हि यच चान्यन ममास्ति वसु किं चन सर्वं तत तव विश्रब्धं कुरु परणयम ईश्वर ॥ 2 ॥
हंसानां वचनं यत तत तन मां दहति पार्थिव तवत्कृते हि मया वीर राजानः संनिपातिताः ॥ 3 ॥
यदि चेद भजमानां मां परत्याख्यास्यसि मानद विषम अग्निं जलं रज्जुम आस्थास्ये तव कारणात ॥ 4 ॥
एवम उक्तस तु वैदर्भ्या नलस तां परत्युवाच ह तिष्ठत्सु लॊकपालेषु कथं मानुषम इच्छसि ॥ 5 ॥
येषाम अहं लॊककृताम ईश्वराणां महात्मनाम न पादरजसा तुल्यॊ मनस ते तेषु वर्तताम ॥ 6 ॥
विप्रियं हय आचरन मर्त्यॊ देवानां मृत्युम ऋच्छति तराहि माम अनवद्याङ्गि वरयस्व सुरॊत्तमान ॥ 7 ॥
ततॊ बाष्पकलां वाचं दमयन्ती शुचिस्मिता परव्याहरन्ती शनकैर नलं राजानम अब्रवीत ॥ 8 ॥
अस्त्य उपायॊ मया दृष्टॊ निरपायॊ नरेश्वर येन दॊषॊ न भविता तव राजन कथं चन ॥ 9 ॥
तवं चैव हि नरश्रेष्ठ देवाश चाग्निपुरॊगमाः आयान्तु सहिताः सर्वे मम यत्र सवयंवरः ॥ 10 ॥
ततॊ ऽहं लॊकपालानां संनिधौ तवां नरेश्वर वरयिष्ये नरव्याघ्र नैवं दॊषॊ भविष्यति ॥ 11 ॥
एवम उक्तस तु वैदर्भ्या नलॊ राजा विशां पते आजगाम पुनस तत्र यत्र देवाः समागताः ॥ 12 ॥
तम अपश्यंस तथायान्तं लॊकपालाः सहेश्वराः दृष्ट्वा चैनं ततॊ ऽपृच्छन वृत्तान्तं सर्वम एव तत ॥ 13 ॥
देवा ऊचुः कच चिद दृष्टा तवया राजन दमयन्ती शुचिस्मिता किम अब्रवीच च नः सर्वान वद भूमिपते ऽनघ ॥ 14 ॥
नल उवाच भवद्भिर अहम आदिष्टॊ दमयन्त्या निवेशनम परविष्टः सुमहाकक्ष्यं दण्डिभिः सथविरैर वृतम ॥ 15 ॥
परविशन्तं च मां तत्र न कश चिद दृष्टवान नरः ऋते तां पार्थिवसुतां भवताम एव तेजसा ॥ 16 ॥
सख्यश चास्या मया दृष्टास ताभिश चाप्य उपलक्षितः विस्मिताश चाभवन दृष्ट्वा सर्वा मां विबुधेश्वराः ॥ 17 ॥
वर्ण्यमानेषु च मया भवत्सु रुचिरानना माम एव गतसंकल्पा वृणीते सुरसत्तमाः ॥ 18 ॥
अब्रवीच चैव मां बाला आयान्तु सहिताः सुराः तवया सह नरश्रेष्ठ मम यत्र सवयंवरः ॥ 19 ॥
तेषाम अहं संनिधौ तवां वरयिष्ये नरॊत्तम एवं तव महाबाहॊ दॊषॊ न भवितेति ह ॥ 20 ॥
एतावद एव विबुधा यथावृत्तम उदाहृतम मयाशेषं परमाणं तु भवन्तस तरिदशेश्वराः ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 53
Reach this point to mark the section finished.
Continue to अध्याय 54