धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 52

  1. बृहदश्व उवाच तेभ्यः परतिज्ञाय नलः करिष्य इति भारत अथैनान परिपप्रच्छ कृताञ्जलिर अवस्थितः ॥ 1 ॥

  2. के वै भवन्तः कश चासौ यस्याहं दूत ईप्सितः किं च तत्र मया कार्यं कथयध्वं यथातथम ॥ 2 ॥

  3. एवम उक्ते नैषधेन मघवान परत्यभाषत अमरान वै निबॊधास्मान दमयन्त्यर्थम आगतान ॥ 3 ॥

  4. अहम इन्द्रॊ ऽयम अग्निश च तथैवायम अपां पतिः शरीरान्तकरॊ नॄणां यमॊ ऽयम अपि पार्थिव ॥ 4 ॥

  5. स वै तवम आगतान अस्मान दमयन्त्यै निवेदय लॊकपालाः सहेन्द्रास तवां समायान्ति दिदृक्षवः ॥ 5 ॥

  6. पराप्तुम इच्छन्ति देवास तवां शक्रॊ ऽगनिर वरुणॊ यमः तेषाम अन्यतमं देवं पतित्वे वरयस्व ह ॥ 6 ॥

  7. एवम उक्तः स शक्रेण नलः पराञ्जलिर अब्रवीत एकार्थसमवेतं मां न परेषयितुम अर्हथ ॥ 7 ॥

  8. देवा ऊचुः करिष्य इति संश्रुत्य पूर्वम अस्मासु नैषध न करिष्यसि कस्मात तवं वरज नैषध माचिरम ॥ 8 ॥

  9. बृहदश्व उवाच एवम उक्तः स देवैस तैर नैषधः पुनर अब्रवीत सुरक्षितानि वेश्मानि परवेष्टुं कथम उत्सहे ॥ 9 ॥

  10. परवेक्ष्यसीति तं शक्रः पुनर एवाभ्यभाषत जगाम स तथेत्य उक्त्वा दमयन्त्या निवेशनम ॥ 10 ॥

  11. ददर्श तत्र वैदर्भीं सखीगणसमावृताम देदीप्यमानां वपुषा शरिया च वरवर्णिनीम ॥ 11 ॥

  12. अतीव सुकुमाराङ्गीं तनुमध्यां सुलॊचनाम आक्षिपन्तीम इव च भाः शशिनः सवेन तेजसा ॥ 12 ॥

  13. तस्य दृष्ट्वैव ववृधे कामस तां चारुहासिनीम सत्यं चिकीर्षमाणस तु धारयाम आस हृच्छयम ॥ 13 ॥

  14. ततस ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः आसनेभ्यः समुत्पेतुस तेजसा तस्य धर्षिताः ॥ 14 ॥

  15. परशशंसुश च सुप्रीता नलं ता विस्मयान्विताः न चैनम अभ्यभाषन्त मनॊभिस तव अभ्यचिन्तयन ॥ 15 ॥

  16. अहॊ रूपम अहॊ कान्तिर अहॊ धैर्यं महात्मनः कॊ ऽयं देवॊ नु यक्षॊ नु गन्धर्वॊ नु भविष्यति ॥ 16 ॥

  17. न तव एनं शक्नुवन्ति सम वयाहर्तुम अपि किं चन तेजसा धर्षिताः सर्वा लज्जावत्यॊ वराङ्गनाः ॥ 17 ॥

  18. अथैनं समयमानेव समितपूर्वाभिभाषिणी दमयन्ती नलं वीरम अभ्यभाषत विस्मिता ॥ 18 ॥

  19. कस तवं सर्वानवद्याङ्ग मम हृच्छयवर्धन पराप्तॊ ऽसय अमरवद वीर जञातुम इच्छामि ते ऽनघ ॥ 19 ॥

  20. कथम आगमनं चेह कथं चासि न लक्षितः सुरक्षितं हि मे वेश्म राजा चैवॊग्रशासनः ॥ 20 ॥

  21. एवम उक्तस तु वैदर्भ्या नलस तां परत्युवाच ह नलं मां विद्धि कल्याणि देवदूतम इहागतम ॥ 21 ॥

  22. देवास तवां पराप्तुम इच्छन्ति शक्रॊ ऽगनिर वरुणॊ यमः तेषाम अन्यतमं देवं पतिं वरय शॊभने ॥ 22 ॥

  23. तेषाम एव परभावेन परविष्टॊ ऽहम अलक्षितः परविशन्तं हि मां कश चिन नापश्यन नाप्य अवारयत ॥ 23 ॥

  24. एतदर्थम अहं भद्रे परेषितः सुरसत्तमैः एतच छरुत्वा शुभे बुद्धिं परकुरुष्व यथेच्छसि ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51