धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 51

  1. बृहदश्व उवाच दमयन्ती तु तच छरुत्वा वचॊ हंसस्य भारत तदा परभृति न सवस्था नलं परति बभूव सा ॥ 1 ॥

  2. ततश चिन्तापरा दीना विवर्णवदना कृशा बभूव दमयन्ती तु निःश्वासपरमा तदा ॥ 2 ॥

  3. ऊर्ध्वदृष्टिर धयानपरा बभूवॊन्मत्त दर्शना न शय्यासनभॊगेषु रतिं विन्दति कर्हि चित ॥ 3 ॥

  4. न नक्तं न दिवा शेते हा हेति वदती मुहुः ताम अस्वस्थां तदाकारां सख्यस ता जज्ञुर इङ्गितैः ॥ 4 ॥

  5. ततॊ विदर्भपतये दमयन्त्याः सखीगणः नयवेदयत न सवस्थां दमयन्तीं नरेश्वर ॥ 5 ॥

  6. तच छरुत्वा नृपतिर भीमॊ दमयन्तीसखीगणात चिन्तयाम आस तत कार्यं सुमहत सवां सुतां परति ॥ 6 ॥

  7. स समीक्ष्य महीपालः सवां सुतां पराप्तयौवनाम अपश्यद आत्मनः कार्यं दमयन्त्याः सवयंवरम ॥ 7 ॥

  8. स संनिपातयाम आस महीपालान विशां पते अनुभूयताम अयं वीराः सवयंवर इति परभॊ ॥ 8 ॥

  9. शरुत्वा तु पार्थिवाः सर्वे दमयन्त्याः सवयंवरम अभिजग्मुस तदा भीमं राजानॊ भीमशासनात ॥ 9 ॥

  10. हस्त्यश्वरथघॊषेण नादयन्तॊ वसुंधराम विचित्रमाल्याभरणैर बलैर दृश्यैः सवलंकृतैः ॥ 10 ॥

  11. एतस्मिन्न एव काले तु पुराणाव ऋषिसत्तमौ अटमानौ महात्मानाव इन्द्रलॊकम इतॊ गतौ ॥ 11 ॥

  12. नारदः पर्वतश चैव महात्मानौ महाव्रतौ देवराजस्य भवनं विविशाते सुपूजितौ ॥ 12 ॥

  13. ताव अर्चित्वा सहस्राक्षस ततः कुशलम अव्ययम पप्रच्छानामयं चापि तयॊः सर्वगतं विभुः ॥ 13 ॥

  14. नारद उवाच आवयॊः कुशलं देव सर्वत्रगतम ईश्वर लॊके च मघवन कृत्स्ने नृपाः कुशलिनॊ विभॊ ॥ 14 ॥

  15. बृहदश्व उवाच नारदस्य वचः शरुत्वा पप्रच्छ बलवृत्रहा धर्मज्ञाः पृथिवीपालास तयक्तजीवितयॊधिनः ॥ 15 ॥

  16. शस्त्रेण निधनं काले ये गच्छन्त्य अपराङ्मुखाः अयं लॊकॊ ऽकषयस तेषां यथैव मम कामधुक ॥ 16 ॥

  17. कव नु ते कषत्रियाः शूरा न हि पश्यामि तान अहम आगच्छतॊ महीपालान अतिथीन दयितान मम ॥ 17 ॥

  18. एवम उक्तस तु शक्रेण नारदः परत्यभाषत शृणु मे भगवन येन न दृश्यन्ते महीक्षितः ॥ 18 ॥

  19. विदर्भराजदुहिता दमयन्तीति विश्रुता रूपेण समतिक्रान्ता पृथिव्यां सर्वयॊषितः ॥ 19 ॥

  20. तस्याः सवयंवरः शक्र भविता नचिराद इव तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः ॥ 20 ॥

  21. तां रत्नभूतां लॊकस्य परार्थयन्तॊ महीक्षितः काङ्क्षन्ति सम विशेषेण बलवृत्रनिषूदन ॥ 21 ॥

  22. एतस्मिन कथ्यमाने तु लॊकपालाश च साग्निकाः आजग्मुर देवराजस्य समीपम अमरॊत्तमाः ॥ 22 ॥

  23. ततस तच छुश्रुवुः सर्वे नारदस्य वचॊ महत शरुत्वा चैवाब्रुवन हृष्टा गच्छामॊ वयम अप्य उत ॥ 23 ॥

  24. ततः सर्वे महाराज सगणाः सहवाहनाः विदर्भान अभितॊ जग्मुर यत्र सर्वे महीक्षितः ॥ 24 ॥

  25. नलॊ ऽपि राजा कौन्तेय शरुत्वा राज्ञां समागमम अभ्यगच्छद अदीनात्मा दमयन्तीम अनुव्रतः ॥ 25 ॥

  26. अथ देवाः पथि नलं ददृशुर भूतले सथितम साक्षाद इव सथितं मूर्त्या मन्मथं रूपसंपदा ॥ 26 ॥

  27. तं दृष्ट्वा लॊकपालास ते भराजमानं यथा रविम तस्थुर विगतसंकल्पा विस्मिता रूपसंपदा ॥ 27 ॥

  28. ततॊ ऽनतरिक्षे विष्टभ्य विमानानि दिवौकसः अब्रुवन नैषधं राजन्न अवतीर्य नभस्तलात ॥ 28 ॥

  29. भॊ भॊ नैषध राजेन्द्र नल सत्यव्रतॊ भवान अस्माकं कुरु साहाय्यं दूतॊ भव नरॊत्तम ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 52

Previous: अध्याय 50