धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 50

  1. बृहदश्व उवाच आसीद राजा नलॊ नाम वीरसेनसुतॊ बली उपपन्नॊ गुणैर इष्टै रूपवान अश्वकॊविदः ॥ 1 ॥

  2. अतिष्ठन मनुजेन्द्राणां मूर्ध्नि देवपतिर यथा उपर्य उपरि सर्वेषाम आदित्य इव तेजसा ॥ 2 ॥

  3. बरह्मण्यॊ वेदविच छूरॊ निषधेषु महीपतिः अक्षप्रियः सत्यवादी महान अक्षौहिणीपतिः ॥ 3 ॥

  4. ईप्सितॊ वरनारीणाम उदारः संयतेन्द्रियः रक्षिता धन्विनां शरेष्ठः साक्षाद इव मनुः सवयम ॥ 4 ॥

  5. तथैवासीद विदर्भेषु भीमॊ भीमपराक्रमः शूरः सर्वगुणैर युक्तः परजाकामः स चाप्रजः ॥ 5 ॥

  6. स परजार्थे परं यत्नम अकरॊत सुसमाहितः तम अभ्यगच्छद बरह्मर्षिर दमनॊ नाम भारत ॥ 6 ॥

  7. तं स भीमः परजाकामस तॊषयाम आस धर्मवित महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम ॥ 7 ॥

  8. तस्मै परसन्नॊ दमनः सभार्याय वरं ददौ कन्यारत्नं कुमारांश च तरीन उदारान महायशाः ॥ 8 ॥

  9. दमयन्तीं दमं दान्तं दमनं च सुवर्चसम उपपन्नान गुणैः सर्वैर भीमान भीमपराक्रमान ॥ 9 ॥

  10. दमयन्ती तु रूपेण तेजसा यशसा शरिया सौभाग्येन च लॊकेषु यशः पराप सुमध्यमा ॥ 10 ॥

  11. अथ तां वयसि पराप्ते दासीनां समलंकृतम शतं सखीनां च तथा पर्युपास्ते शचीम इव ॥ 11 ॥

  12. तत्र सम भराजते भैमी सर्वाभरणभूषिता सखीमध्ये ऽनवद्याङ्गी विद्युत सौदामिनी यथा अतीव रूपसंपन्ना शरीर इवायतलॊचना ॥ 12 ॥

  13. न देवेषु न यक्षेषु तादृग्रूपवती कव चित मानुसेष्व अपि चान्येषु दृष्टपूर्वा न च शरुता चित्तप्रमाथिनी बाला देवानाम अपि सुन्दरी ॥ 13 ॥

  14. नलश च नरशार्दूलॊ रूपेणाप्रतिमॊ भुवि कन्दर्प इव रूपेण मूर्तिमान अभवत सवयम ॥ 14 ॥

  15. तस्याः समीपे तु नलं परशशंसुः कुतूहलात नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ 15 ॥

  16. तयॊर अदृष्टकामॊ ऽभूच छृण्वतॊः सततं गुणान अन्यॊन्यं परति कौन्तेय स वयवर्धत हृच्छयः ॥ 16 ॥

  17. अशक्नुवन नलः कामं तदा धारयितुं हृदा अन्तःपुरसमीपस्थे वन आस्ते रहॊगतः ॥ 17 ॥

  18. स ददर्श तदा हंसाञ जातरूपपरिच्छदान वने विचरतां तेषाम एकं जग्राह पक्षिणम ॥ 18 ॥

  19. ततॊ ऽनतरिक्षगॊ वाचं वयाजहार तदा नलम न हन्तव्यॊ ऽसमि ते राजन करिष्यामि हि ते परियम ॥ 19 ॥

  20. दमयन्तीसकाशे तवां कथयिष्यामि नैषध यथा तवदन्यं पुरुषं न सा मंस्यति कर्हि चित ॥ 20 ॥

  21. एवम उक्तस ततॊ हंसम उत्ससर्ज महीपतिः ते तु हंसाः समुत्पत्य विदर्भान अगमंस ततः ॥ 21 ॥

  22. विदर्भनगरीं गत्वा दमयन्त्यास तदान्तिके निपेतुस ते गरुत्मन्तः सा ददर्शाथ तान खगान ॥ 22 ॥

  23. सा तान अद्भुतरूपान वै दृष्ट्वा सखिगणावृता हृष्टा गरहीतुं खगमांस तवरमाणॊपचक्रमे ॥ 23 ॥

  24. अथ हंसा विससृपुः सर्वतः परमदावने एकैकशस ततः कन्यास तान हंसान समुपाद्रवन ॥ 24 ॥

  25. दमयन्ती तु यं हंसं समुपाधावद अन्तिके स मानुषीं गिरं कृत्वा दमयन्तीम अथाब्रवीत ॥ 25 ॥

  26. दमयन्ति नलॊ नाम निषधेषु महीपतिः अश्विनॊः सदृशॊ रूपे न समास तस्य मानुषाः ॥ 26 ॥

  27. तस्य वै यदि भार्या तवं भवेथा वरवर्णिनि सफलं ते भवेज जन्म रूपं चेदं सुमध्यमे ॥ 27 ॥

  28. वयं हि देवगन्धर्वमनुष्यॊरगराक्षसान दृष्टवन्तॊ न चास्माभिर दृष्टपूर्वस तथाविधः ॥ 28 ॥

  29. तवं चापि रत्नं नारीणां नरेषु च नलॊ वरः विशिष्टाया विशिष्टेन संगमॊ गुणवान भवेत ॥ 29 ॥

  30. एवम उक्ता तु हंसेन दमयन्ती विशां पते अब्रवीत तत्र तं हंसं तम अप्य एवं नलं वद ॥ 30 ॥

  31. तथेत्य उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते पुनर आगम्य निषधान नले सर्वं नयवेदयत ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49