[ज] अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि युधिष्ठिरप्रभृतयः किम अकुर्वन्त पाण्डवाः ॥ 1 ॥
[व] अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि नयवसन कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥ 2 ॥
ततः कदा चिद एकान्ते विविक्त इव शाद्वले दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया धनंजयं शॊचमानाः साश्रुकण्ठाः सुदुःखिताः ॥ 3 ॥
तद वियॊगाद धि तान सर्वाञ शॊकः समभिपुप्लुवे धनंजय वियॊगाच च राज्यनाशाश च दुःखिताः ॥ 4 ॥
अथ भीमॊ महाबाहुर युधिष्ठिरम अभाषत निदेशात ते महाराज गतॊ ऽसौ पुरुषर्षभः अर्जुनः पाण्डुपुत्राणां यस्मिन पराणाः परतिष्ठिताः ॥ 5 ॥
यस्मिन विनष्टे पाञ्चालाः सह पुत्रैस तथा वयम सात्यकिर वासुदेवश च विनश्येयुर असंशयम ॥ 6 ॥
यॊ ऽसौ गच्छति तेजस्वी बहून कलेशान अचिन्तयन भवन नियॊगाद बीभत्सुस ततॊ दुःखतरं नु किम ॥ 7 ॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम ॥ 8 ॥
यस्य परभावान न मया सभामध्ये धनुष्मतः नीता लॊकम अमुं सर्वे धार्तराष्ट्राः स सौबलाः ॥ 9 ॥
ते वयं बाहुबलिनः करॊधम उत्थितम आत्मनः सहामहे भवन मूलं वासुदेवेन पालिताः ॥ 10 ॥
वयं हि सह कृष्णेन हत्वा कर्ण मुखान परान सवबाहुविजितां कृत्स्नां परशासेम वसुंधराम ॥ 11 ॥
भवतॊ दयूतदॊषेण सर्वे वयम उपप्लुताः अहीन पौरुषा राजन बलिभिर बलवत्तमाः ॥ 12 ॥
कषात्रं धर्मं महाराज समवेक्षितुम अर्हसि न हि धर्मॊ महाराज कषत्रियस्य वनाश्रयः राज्यम एव परं धर्मं कषत्रियस्य विदुर बुधाः ॥ 13 ॥
स कषत्रधर्मविद राजन मा धर्म्यान नीनशः पथः पराग दवादश समा राजन धार्तराष्ट्रान निहन्महि ॥ 14 ॥
निवर्त्य च वनात पार्थम आनाय्य च जनार्दनम वयूढानीकान महाराज जवेनैव महाहवे धार्तराष्ट्रान अमुं लॊकं गमयामि विशां पते ॥ 15 ॥
सर्वान अहं हनिष्यामि धार्तराष्ट्रान स सौबलान दुर्यॊधनं च कर्णं च यॊ वान्यः परतियॊत्स्यते ॥ 16 ॥
मया परशमिते पश्चात तवम एष्यसि वनात पुनः एवं कृते न ते दॊषॊ भविष्यति विशां पते ॥ 17 ॥
यज्ञैश च विविधैस तात कृतं पापम अरिंदम अवधूय महाराज गच्छेम सवर्गम उत्तमम ॥ 18 ॥
एवम एतद भवेद राजन यदि राजा न बालिशः अस्माकं दीर्घसूत्रः सयाद भवान धर्मपरायणः ॥ 19 ॥
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः न हि नैकृतिकं हत्वा निकृत्या पापम उच्यते ॥ 20 ॥
तथा भारत धर्मेषु धर्मज्ञैर इह दृश्यते अहॊरात्रं महाराज तुल्यं संवत्सरेण हि ॥ 21 ॥
तथैव वेद वचनं शरूयते नित्यदा विभॊ संवत्सरॊ महाराज पूर्णॊ भवति कृच्छ्रतः ॥ 22 ॥
यदि वेदाः परमाणं ते दिवसाद ऊर्ध्वम अच्युत तरयॊदश समाः कालॊ जञायतां परिनिष्ठितः ॥ 23 ॥
कालॊ दुर्यॊधनं हन्तुं सानुबन्धम अरिंदम एकाग्रां पृथिवीं सर्वां पुरा राजन करॊति सः ॥ 24 ॥
एवं बरुवाणं भीमं तु धर्मराजॊ युधिष्ठिरः उवाच सान्त्वयन राजा मूर्ध्न्य उपाघ्राय पाण्डवम ॥ 25 ॥
असंशयं महाबाहॊ हनिष्यसि सुयॊधनम वर्षात तरयॊदशाद ऊर्ध्वं सह गाण्डीवधन्वना ॥ 26 ॥
यच च मा भाषसे पार्थ पराप्तः काल इति परभॊ अनृतं नॊत्सहे वक्तुं न हय एतन मयि विद्यते ॥ 27 ॥
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम हन्ता तवम असि दुर्धर्ष सानुबन्धं सुयॊधनम ॥ 28 ॥
एवं बरुवति भीमं तु धर्मराजे युधिष्ठिरे आजगाम महाभागॊ बृहदश्वॊ महान ऋषिः ॥ 29 ॥
तम अभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम शास्त्रवन मधुपर्केण पूजयाम आस धर्मराट ॥ 30 ॥
आश्वस्तं चैनम आसीनम उपासीनॊ युधिष्ठिरः अभिप्रेक्ष्य महाबाहुः कृपणं बह्व अभाषत ॥ 31 ॥
अक्षद्यूतेन भगवन धनं राज्यं च मे हृतम आहूय निकृतिप्रज्ञैः कितवैर अक्षकॊविदैः ॥ 32 ॥
अनक्ष जञस्य हि सतॊ निकृत्या पापनिश्चयैः भार्या च मे सभां नीता पराणेभ्यॊ ऽपि गरीयसी ॥ 33 ॥
अस्ति राजा मया कश चिद अल्पभाग्यतरॊ भुवि भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत न मत्तॊ दुःखिततरः पुमान अस्तीति मे मतिः ॥ 34 ॥
[ब] यद बरवीषि महाराज न मत्तॊ विद्यते कव चित अल्पभाग्यतरः कश चित पुमान अस्तीति पाण्डव ॥ 35 ॥
अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते ॥ 36 ॥
अथैनम अब्रवीद राजा बरवीतु भगवान इति इमाम अवस्थां संप्राप्तं शरॊतुम इच्छामि पार्थिव ॥ 37 ॥
[ब] शृणु राजन्न अवहितः सह भरातृभिर अच्युत यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते ॥ 38 ॥
निषधेषु महीपालॊ वीरसेन इति सम ह तस्य पुत्रॊ ऽभवन नाम्ना नलॊ धर्मार्थदर्शिवान ॥ 39 ॥
स निकृत्या जितॊ राजा पुष्करेणेति नः शरुतम वनवासम अदुःखार्हॊ भार्यया नयवसत सह ॥ 40 ॥
न तस्याश्वॊ न च रथॊ न भराता न च बान्धवाः वने निवसतॊ राजञ शिष्यन्ते सम कदा चन ॥ 41 ॥
भवान हि संवृतॊ वीरैर भरातृभिर देव संमितैः बरह्मकल्पैर दविजाग्र्यैश च तस्मान नार्हसि शॊचितुम ॥ 42 ॥
[य] विस्तरेणाहम इच्छामि नलस्य सुमहात्मनः चरितं वदतां शरेष्ठ तन ममाख्यातुम अर्हसि ॥ 43 ॥
वनपर्व · Vana Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50