धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 4

  1. [व] ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम दीप्यमानः सववपुषा जवलन्न इव हुताशनः ॥ 1 ॥

  2. यत ते ऽभिलषितं राजन सर्वम एतद अवाप्स्यसि अहम अन्नं परदास्यामि सप्त पञ्च च ते समाः ॥ 2 ॥

  3. फलमूलामिषं शाकं संस्कृतं यन महानसे चतुर्विधं तदन्नाद्यम अक्षय्यं ते भविष्यति धनं च विविधं तुभ्यम इत्य उक्त्वान्तरधीयत ॥ 3 ॥

  4. लब्ध्वा वरं तु कौन्तेयॊ जलाद उत्तीर्य धर्मवित जग्राह पादौ धौम्यस्य भरातॄंश चास्वजताच्युतः ॥ 4 ॥

  5. दरौपद्या सह संगम्य पश्यमानॊ ऽभययात परभुः महानसे तदान्नं तु साधयाम आस पाण्डवः ॥ 5 ॥

  6. संस्कृतं परसवं याति वन्यम अन्नं चतुर्विधम अक्षय्यं वर्धते चान्नं तेन भॊजयते दविजान ॥ 6 ॥

  7. भुक्तवत्सु च विप्रेषु भॊजयित्वानुजान अपि शेषं विघस संज्ञं तु पश्चाद भुङ्क्ते युधिष्ठिरः युधिष्ठिरं भॊजयित्वा शेषम अश्नाति पार्षती ॥ 7 ॥

  8. एवं दिवाकरात पराप्य दिवाकरसमद्युतिः कामान मनॊ ऽभिलषितान बराह्मणेभ्यॊ ददौ परभुः ॥ 8 ॥

  9. पुरॊहित पुरॊगाश च तिथि नक्षत्रपर्वसु यज्ञियार्थः परवर्तन्ते विधिमन्त्रप्रमाणतः ॥ 9 ॥

  10. ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः दविजसंघैः परिवृताः परययुः काम्यकं वनम ॥ 10 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3