धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 48

  1. [वै] सुदीर्घम उष्णं निःश्वस्य धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतम आमन्त्र्य भरतर्षभ ॥ 1 ॥

  2. देवपुत्रौ महाभागौ देवराजसमद्युती नकुलः सहदेवश च पाण्डवौ युद्धदुर्मदौ ॥ 2 ॥

  3. दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ शीघ्रहस्तौ दृढक्रॊधौ नित्ययुक्तौ तरस्विनौ ॥ 3 ॥

  4. भीमार्जुनौ पुरॊधाय यदा तौ रणमूर्धनि सथास्येते सिंहविक्रान्ताव अश्विनाव इव दुःसहौ न शेषम इह पश्यामि तदा सैन्यस्य संजय ॥ 4 ॥

  5. तौ हय अप्रतिरथौ युद्धे देवपुत्रौ महारथौ दरौपद्यास तं परिक्लेशं न कषंस्येते तव अमर्षिणौ ॥ 5 ॥

  6. वृष्णयॊ वा महेष्वासा पाञ्चाला वा महौजसः युधि सत्याभिसंधेन वासुदेवेन रक्षिताः परधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम ॥ 6 ॥

  7. राम कृष्ण परणीतानां वृष्णीनां सूतनन्दन न शक्यः सहितुं वेगः पर्वतैर अपि संयुगे ॥ 7 ॥

  8. तेषां मध्ये महेष्वासॊ भीमॊ भीमपराक्रमः शक्यया वीर घातिन्या गदया विचरिष्यति ॥ 8 ॥

  9. तथा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः ॥ 9 ॥

  10. ततॊ ऽहं सुहृदां वाचॊ दुर्यॊधन वशानुगः समरणीयाः समरिष्यामि मया या न कृताः पुरा ॥ 10 ॥

  11. [स] वयतिक्रमॊ ऽयं सुमहांस तवया राजन्न उपेक्षितः समर्थेनापि यन मॊहात पुत्रस ते न निवारितः ॥ 11 ॥

  12. शरुत्वा हि निर्जितान दयूते पाण्डवान मधुसूदनः तवरितः काम्यके पार्थान समभावयद अच्युतः ॥ 12 ॥

  13. दरुपदस्य तथा पुत्रा धृष्टद्युम्नपुरॊगमाः विराटॊ धृष्टकेतुश च केकयाश च महारथाः ॥ 13 ॥

  14. तैश च यत कथितं तत्र दृष्ट्वा पार्थान पराजितान चारेण विदितं सर्वं तन मया वेदितं च ते ॥ 14 ॥

  15. समागम्य वृतस तत्र पाण्डवैर मधुसूदनः सारथ्ये फल्गुनस्याजौ तथेत्य आह च तान हरिः ॥ 15 ॥

  16. अमर्षितॊ हि कृष्णॊ ऽपि दृष्ट्वा पार्थांस तथागतान कृष्णाजिनॊत्तरासङ्गान अब्रवीच च युधिष्ठिरम ॥ 16 ॥

  17. या सा समृद्धिः पार्थानाम इन्द्रप्रस्थे बभूव ह राजसूये मया दृष्टा नृपैर अन्यैः सुदुर्लभा ॥ 17 ॥

  18. यत्र सर्वान महीपालाञ शस्त्रतेजॊ भयार्दितान सवङ्गाङ्गान सपौण्ड्र उड्रान सचॊल दरविडान्धकान ॥ 18 ॥

  19. सागरानूपगांश चैव ये च पत्तनवासिनः सिंहलान बर्बरान मलेच्छान ये च जाङ्गलवासिनः ॥ 19 ॥

  20. पश्चिमानि च राज्यानि शतशः सागरान्तिकान पह्लवान दरदान सर्वान किरातान यवनाञ शकान ॥ 20 ॥

  21. हारहूणांश च चीनांश च तुखारान सैन्धवांस तथा जागुडान रमठान मुण्डान सत्री राज्यान अथ तङ्गणान ॥ 21 ॥

  22. एते चान्ये च बहवॊ ये च ते भरतर्षभ आगतान अहम अद्राक्षं यज्ञे ते परिवेषकान ॥ 22 ॥

  23. सा ते समृद्धिर यैर आत्ता चपला परतिसारिणी आदाय जीवितं तेषाम आहरिष्यामि ताम अहम ॥ 23 ॥

  24. रामेण सह कौरव्य भीमार्जुनयमैस तथा अक्रूर गद साम्बैश च परद्युम्नेनाहुकेन च धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥ 24 ॥

  25. दुर्यॊधनं रणे हत्वा सद्यः कर्णं च भारत दुःशासनं सौबलेयं यश चान्यः परतियॊत्स्यते ॥ 25 ॥

  26. ततस तवं हास्तिनपुरे भरातृभिः सहितॊ वसन धार्तराष्ट्रीं शरियं पराप्य परशाधि पृथिवीम इमाम ॥ 26 ॥

  27. अथैनम अब्रवीद राजा तस्मिन वीर समागमे शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥ 27 ॥

  28. परतिगृह्णामि ते वाचं सत्याम एतां जनार्दन अमित्रान मे महाबाहॊ सानुबन्धान हनिष्यसि ॥ 28 ॥

  29. वर्षात तरयॊदशाद ऊर्ध्वं सत्यं मां कुरु केशव परतिज्ञातॊ वनेवासॊ राजमध्ये मया हय अयम ॥ 29 ॥

  30. तद धर्मराज वचनं परतिश्रुत्य सभा सदः धृष्टद्युम्न पुरॊगास ते शमयाम आसुर अञ्जसा केशवं मधुरैर वाक्यैः कालयुक्तैर अमर्षितम ॥ 30 ॥

  31. पाञ्चालीं चाहुर अक्लिष्टां वासुदेवस्य शृण्वतः दुर्यॊधनस तव करॊधाद देवि तयक्ष्यति जीवितम परतिजानीम ते सत्यं मा शुचॊ वरवर्णिनि ॥ 31 ॥

  32. ये सम ते कुपितां कृष्णे दृष्ट्वा तवां पराहसंस तदा मांसानि तेषां खादन्तॊ हसिष्यन्ति मृगद्विजाः ॥ 32 ॥

  33. पास्यन्ति रुधिरं तेषां गृध्रा गॊमायवस तथा उत्तमाङ्गानि कर्षन्तॊ यैस तवं कृष्टा सभा तले ॥ 33 ॥

  34. तेषां दरक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले करव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत ॥ 34 ॥

  35. परिक्लिष्टासि यैस तत्र यैश चापि समुपेक्षिता तेषाम उत्कृत्त शिरसां भूमिः पास्यति शॊणितम ॥ 35 ॥

  36. एवं बहुविधा वाचस तदॊचुः पुरुषर्षभाः सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ 36 ॥

  37. ते धर्मराजेन वृता वर्षाद ऊर्ध्वं तरयॊदशात पुरस्कृत्यॊपयास्यन्ति वासुदेवं महारथाः ॥ 37 ॥

  38. रामश च कृष्णश च धनंजयश च; परद्युम्न साम्बौ युयुधान भीमौ माद्री सुतौ केकयराजपुत्राः; पाञ्चाल पुत्राः सहधर्मराज्ञा ॥ 38 ॥

  39. एतान सर्वाँल लॊकवीरान अजेयान; महात्मनः सानुबन्धान ससैन्यान कॊ जीवितार्थी समरे परत्युदीयात; करुद्धान सिंहान केसरिणॊ यथैव ॥ 39 ॥

  40. [धृ] यन माब्रवीद विदुरॊ दयूतकाले; तवं पाण्डवाञ जेष्यसि चेन नरेन्द्र धरुवं कुरूणाम अयम अन्तकालॊ; महाभयॊ भविता शॊणितौघः ॥ 40 ॥

  41. मन्ये तथा तद भवितेति सूत; यथा कषत्ता पराह वचः पुरा माम असंशयं भविता युद्धम एतद; गते काले पाण्डवानां यथॊक्तम ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 49

Previous: अध्याय 47