धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 45

  1. [वै] ततॊ देवाः सगन्धर्वाः समादायार्घ्यम उत्तमम शक्रस्य मतम आज्ञाय पार्थम आनर्चुर अञ्जसा ॥ 1 ॥

  2. पाद्यम आचमनीयं च परतिगृह्य नृपात्मजम परवेशया मासुर अथॊ पुरंदर निवेशनम ॥ 2 ॥

  3. एवं संपूजितॊ जिष्णुर उवास भवने पितुः उपशिक्षन महास्त्राणि ससंहाराणि पाण्डवः ॥ 3 ॥

  4. शक्रस्य हस्ताद दयितं वज्रम अस्त्रं दुरुत्सहम अशनीश च महानादा मेघबर्हिण लक्षणाः ॥ 4 ॥

  5. गृहीतास्त्रस तु कौन्तेयॊ भरातॄन सस्मार पाण्डवः पुरंदर नियॊगाच च पञ्चाब्दम अवसत सुखी ॥ 5 ॥

  6. ततः शक्रॊ ऽबरवीत पार्थं कृतास्त्रं काल आगते नृत्तं गीतं च कौन्तेय चित्रसेनाद अवाप्नुहि ॥ 6 ॥

  7. वादित्रं देव विहितं नृलॊके यन न विद्यते तद अर्जयस्व कौन्तेय शरेयॊ वै ते भविष्यति ॥ 7 ॥

  8. सखायं परददौ चास्य चित्रसेनं पुरंदरः स तेन सह संगम्य रेमे पार्थॊ निरामयः ॥ 8 ॥

  9. कदा चिद अटमानस तु महर्षिर उत लॊमशः जगाम शक्र भवनं पुरंदर दिदृक्षया ॥ 9 ॥

  10. स समेत्य नमस्कृत्य देवराजं महामुनिः ददर्शार्धासन गतं पाण्डवं वासवस्य ह ॥ 10 ॥

  11. ततः शक्राभ्यनुज्ञात आसने विष्टरॊत्तरे निषसाद दविजश्रेष्ठः पूज्यमानॊ महर्षिभिः ॥ 11 ॥

  12. तस्य दृष्ट्वाभवद बुद्धिः पार्थम इन्द्रासने सथितम कथं नु कषत्रियः पार्थः शक्रासनम अवाप्तवान ॥ 12 ॥

  13. किं तव अस्य सुकृतं कर्म लॊका वा के विनिर्जिताः य एवम उपसंप्राप्तः सथानं देवनमस्कृतम ॥ 13 ॥

  14. तस्य विज्ञाय संकल्पं शक्रॊ वृत्रनिषूदनः लॊमशं परहसन वाक्यम इदम आह शचीपतिः ॥ 14 ॥

  15. बरह्मर्षे शरूयतां यत ते मनसैतद विवक्षितम नायं केवलमर्त्यॊ वै कषत्रियत्वम उपागतः ॥ 15 ॥

  16. महर्षे मम पुत्रॊ ऽयं कुन्त्यां जातॊ महाभुजः अस्त्रहेतॊर इह पराप्तः कस्माच चित कारणान्तरात ॥ 16 ॥

  17. अहॊ नैनं भवान वेत्ति पुराणम ऋषिसत्तमम शृणु मे वदतॊ बरह्मन यॊ ऽयं यच चास्य कारणम ॥ 17 ॥

  18. नरनारायणौ यौ तौ पुराणाव ऋषिसत्तमौ ताव इमाव अभिजानीहि हृषीकेशधनंजयौ ॥ 18 ॥

  19. यन न शक्यं सुरैर दरष्टुम ऋषिभिर वा महात्मभिः तद आश्रमपदं पुण्यं बदरी नाम विश्रुतम ॥ 19 ॥

  20. स निवासॊ ऽभवद विप्र विष्णॊर जिष्णॊस तथैव च यतः परववृते गङ्गा सिद्धचारणसेविता ॥ 20 ॥

  21. तौ मन्नियॊगाद बरह्मर्षे कषितौ जातौ महाद्युती भूमेर भारावतरणं महावीर्यौ करिष्यतः ॥ 21 ॥

  22. उद्वृत्ता हय असुराः के चिन निवातकवचा इति विप्रियेषु सथितास्माकं वरदानेन मॊहिताः ॥ 22 ॥

  23. तर्कयन्ते सुरान हन्तुं बलदर्प समन्विताः देवान न गणयन्ते च तथा दत्तवरा हि ते ॥ 23 ॥

  24. पातालवासिनॊ रौद्रा दनॊः पुत्रा महाबलाः सर्वे देव निकाया हि नालं यॊधयितुं सम तान ॥ 24 ॥

  25. यॊ ऽसौ भूमिगतः शरीमान विष्णुर मधु निषूदनः कपिलॊ नाम देवॊ ऽसौ भगवान अजितॊ हरिः ॥ 25 ॥

  26. येन पूर्वं महात्मानः खनमाना रसातलम दर्शनाद एव निहताः सगरस्यात्मजा विभॊ ॥ 26 ॥

  27. तेन कार्यं महत कार्यम अस्माकं दविजसत्तम पार्थेन च महायुद्धे समेताभ्याम असंशयम ॥ 27 ॥

  28. अयं तेषां समस्तानां शक्तः परतिसमासने तान निहत्य रणे शूरः पुनर यास्यति मानुषान ॥ 28 ॥

  29. भवांश चास्मन नियॊगेन यातु तावन महीतलम काम्यके दरक्ष्यसे वीरं निवसन्तं युधिष्ठिरम ॥ 29 ॥

  30. स वाच्यॊ मम संदेशाद धर्मात्मा सत्यसंगरः नॊत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रम एष्यति ॥ 30 ॥

  31. नाशुद्ध बाहुवीर्येण नाकृतास्त्रेण वा रणे भीष्मद्रॊणादयॊ युद्धे शक्त्याः परतिसमासितुम ॥ 31 ॥

  32. गृहीतास्त्रॊ गुडा केशॊ महाबाहुर महामनाः नृत्तवादित्रगीतानां दिव्यानां पारम एयिवान ॥ 32 ॥

  33. भवान अपि विविक्तानि तीर्थानि मनुजेश्वर भरातृभिः सहितः सर्वैर दरष्टुम अर्हत्य अरिंदम ॥ 33 ॥

  34. तीर्थेष्व आप्लुत्य पुण्येषु विपाप्मा विगतज्वरः राज्यं भॊक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥ 34 ॥

  35. भवांश चैनं दविजश्रेष्ठ पर्यटन्तं महीतले तरातुम अर्हति विप्राग्र्य तपॊबलसमन्वितः ॥ 35 ॥

  36. गिरिदुर्गेषु हि सदा देशेषु विषमेषु च वसन्ति राक्षसा रौद्रास तेभ्यॊ रक्षेत सदा भवान ॥ 36 ॥

  37. स तथेति परतिज्ञाय लॊमशः सुमहातपाः काम्यकं वनम उद्दिश्य समुपायान महीतलम ॥ 37 ॥

  38. ददर्श तत्र कौन्तेयं धर्मराजम अरिंदमम तापसैर भरातृभिश चैव सर्वतः परिवारितम ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 46

Previous: अध्याय 44