[वै] स ददर्श पुरीं रम्यां सिद्धचारणसेविताम सर्वर्तुकुसुमैः पुण्यैः पादपैर उपशॊभिताम ॥ 1 ॥
तत्र सौगन्धिकानां स दरुमाणां पुण्यगन्धिनाम उपवीज्यमानॊ मिश्रेण वायुना पुण्यगन्धिना ॥ 2 ॥
नन्दनं च वनं दिव्यम अप्सरॊगणसेवितम ददर्श दिव्यकुसुमैर आह्वयद्भिर इव दरुमैः ॥ 3 ॥
नातप्त तपसा शक्यॊ दरष्टुं नानाहिताग्निना स लॊकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥ 4 ॥
नायज्वभिर नानृतकैर न वेदश्रुतिवर्जितैः नाना पलुताङ्गैस तीर्थेषु यज्ञदानबहिष कृतैः ॥ 5 ॥
नापि यज्ञहनैः कषुद्रैर दरष्टुं शक्यः कथं चन पानपैर गुरु तल्पैश च मांसादैर वा दुरात्मभिः ॥ 6 ॥
स तद दिव्यं वनं पश्यन दिव्यगीत निनादितम परविवेश महाबाहुः शक्रस्य दयितां पुरीम ॥ 7 ॥
तत्र देव विमानानि कामगानि सहस्रशः संस्थितान्य अभियातानि ददर्शायुतशस तदा ॥ 8 ॥
संस्तूयमानॊ गन्धर्वैर अप्सरॊभिश च पाण्डवः पुष्पगन्धवहैः पुण्यैर वायुभिश चानुजीवितः ॥ 9 ॥
ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः हृष्टाः संपूजयाम आसुः पार्थम अक्लिष्टकारिणम ॥ 10 ॥
आशीर्वादैः सतूयमानॊ दिव्यवादित्र निस्वनैः परतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम ॥ 11 ॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम इन्द्राज्ञया ययौ पार्थः सतूयमानः समन्ततः ॥ 12 ॥
तत्र साध्यास तथा विश्वे मरुतॊ ऽथाश्विनाव अपि आदित्या वसवॊ रुद्रास तथा बरह्मर्षयॊ ऽमलाः ॥ 13 ॥
राजर्षयश च बहवॊ दिलीप परमुखा नृपाः तुम्बुरुर नारदैश चैव गन्धर्व्वौ च हहाहुहू ॥ 14 ॥
तान सर्व्वान स समागम्य विधिवत कुरुनन्दनः ततॊ ऽपश्यद देवराजं शतक्रतुम अरिंदमम ॥ 15 ॥
ततः पार्थॊ महाबाहुर अवतीर्य रथॊत्तमात ददर्श साक्षाद देवेन्द्रं पितरं पाकशासनम ॥ 16 ॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा दिव्यगन्धाधिवासेन वयजनेन विधूयता ॥ 17 ॥
विश्वावसुप्रभृतिभिर गन्धर्वैः सतुतिवन्दनैः सतूयमानं दविजाग्र्यैश च ऋग यजुः साम संस्तवैः ॥ 18 ॥
ततॊ ऽभिगम्य कौन्तेयः शिरसाभ्यनमद बली स चैनम अनुवृत्ताभ्यां भुजाभ्यां परत्यगृह्णत ॥ 19 ॥
ततः शक्रासने पुण्ये देवराजर्षिपूजिते शक्रः पाणौ गृहीत्वैनम उपावेशयद अन्तिके ॥ 20 ॥
मूर्ध्नि चैनम उपाघ्राय देवेन्द्रः परवीरहा अङ्कम आरॊपयाम आस परश्रयावनतं तदा ॥ 21 ॥
सहस्राक्ष नियॊगात स पार्थः शक्रासनं तदा अध्यक्रामद अमेयात्मा दवितीय इव वासवः ॥ 22 ॥
ततः परेम्णा वृत्र शत्रुर अर्जुनस्य शुभं मुखम पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन ॥ 23 ॥
परिमार्जमानः शनकैर बाहू चास्यायतौ शुभौ जया शरक्षेप कठिनौ सतम्भाव इव हिरण्मयौ ॥ 24 ॥
वज्रग्रहणचिह्नेन करेण बलसूदनः मुहुर मुहुर वज्रधरॊ बाहू संस्फालयञ शनैः ॥ 25 ॥
समयन्न इव गुडा केशं परेक्षमाणः सहस्रदृक हर्षेणॊत्फुल्ल नयनॊ न चातृप्यत वृत्रहा ॥ 26 ॥
एकासनॊपविष्टौ तौ शॊभयां चक्रतुः सभाम सूर्या चन्द्रमसौ वयॊम्नि चतुर्दश्याम इवॊदितौ ॥ 27 ॥
तत्र सम गाथा गायन्ति साम्ना परमवल्गुना गन्धर्वास तुम्बुरु शरेष्ठाः कुशला गीतसामसु ॥ 28 ॥
घृताची मेनका रम्भा पूर्वचित्तिः सवयंप्रभा उर्वशी मिश्रकेशी च डुण्डुर गौरी वरूथिनी ॥ 29 ॥
गॊपाली सह जन्या च कुम्भयॊनिः परजागरा चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ 30 ॥
एताश चान्याश च ननृतुस तत्र तत्र वराङ्गनाः चित्तप्रमथने युक्ताः सिद्धानां पद्मलॊचनाः ॥ 31 ॥
महाकटि तट शरॊण्यः कम्पमानैः पयॊधरैः कटाक्ष हाव माधुर्यैश चेतॊ बुद्धिमनॊहराः ॥ 32 ॥
वनपर्व · Vana Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45