धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 46

  1. [ज] अत्यद्भुतम इदं कर्म पार्थस्यामित तेजसः धृतराष्ट्रॊ महातेजाः शरुत्वा विप्र किम अब्रवीत ॥ 1 ॥

  2. [वै] शक्र लॊकगतं पार्थं शरुत्वा राजाम्बिका सुतः दवैपायनाद ऋषिश्रेष्ठात संजयं वाक्यम अब्रवीत ॥ 2 ॥

  3. शरुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः कच चित तवापि विदितं यथातथ्येन सारथे ॥ 3 ॥

  4. परमत्तॊ गराम्यधर्मेषु मन्दात्मा पापनिश्चयः मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ 4 ॥

  5. यस्य नित्यम ऋता वाचः सवैरेष्व अपि महात्मनः तरैलॊक्यम अपि तस्य सयाद यॊद्धा यस्य धनंजयः ॥ 5 ॥

  6. अस्यतः कर्णिनाराचांस तीक्ष्णाग्रांश च शिलाशितान कॊ ऽरजुनस्याग्रतस तिष्ठेद अपि मृत्युर जरातिगः ॥ 6 ॥

  7. मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः येषां युद्धं दुराधर्षैः पाण्डवैः परत्युपस्थितम ॥ 7 ॥

  8. तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः अनिशं चिन्तयानॊ ऽपि य एनम उदियाद रथी ॥ 8 ॥

  9. दरॊणकर्णौ परतीयातां यदि भीष्मॊ ऽपि वा रणे महान सयात संशयॊ लॊके न तु पश्यामि नॊ जयम ॥ 9 ॥

  10. घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः अमर्षी बलवान पार्थः संरम्भी दृढविक्रमः ॥ 10 ॥

  11. भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजितम सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः ॥ 11 ॥

  12. अपि सर्वेश्वरत्वं हि न वाञ्छेरन पराजिताः वधे नूनं भवेच छान्तिस तेषां वा फल्गुनस्य वा ॥ 12 ॥

  13. न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते मन्युस तस्य कथं शाम्येन मन्दान परति समुत्थितः ॥ 13 ॥

  14. तरिदशेश समॊ वीरः खाण्डवे ऽगनिम अतर्पयत जिगाय पार्थिवान सर्वान राजसूये महाक्रतौ ॥ 14 ॥

  15. शेषं कुर्याद गिरेर वज्रं निपतन मूर्ध्नि संजय न तु कुर्युः शराः शेषम अस्तास तात किरीटिना ॥ 15 ॥

  16. यथा हि किरणा भानॊस तपन्तीह चराचरम तथा पार्थ भुजॊत्सृष्टाः शरास तप्स्यन्ति मे सुतान ॥ 16 ॥

  17. अपि वा रथघॊषेण भयार्ता सव्यसाचिनः परतिभाति विदीर्णेव सर्वतॊ भारती चमूः ॥ 17 ॥

  18. यद उद्वपन परवपंश चैव बाणान; सथाताततायी समरे किरीटी सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; भवेद यथा तद्वद अपारणीयः ॥ 18 ॥

  19. [स] यद एतत कथितं राजंस तवया दुर्यॊधनं परति सर्वम एतद यथात्थ तवं नैतन मिथ्या महीपते ॥ 19 ॥

  20. मन्युना हि समाविष्टाः पाण्डवास ते ऽमितौजसः दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम ॥ 20 ॥

  21. दुःशासनस्य ता वाचः शरुत्वा ते दारुणॊदयाः कर्णस्य च महाराज न सवप्स्यन्तीति मे मतिः ॥ 21 ॥

  22. शरुतं हि ते महाराज यथा पार्थेन संयुगे एकादश तनुः सथाणुर धनुषा परितॊषितः ॥ 22 ॥

  23. कैरातं वेषम आस्थाय यॊधयाम आस फल्गुनम जिज्ञासुः सर्वदेवेशः कपर्दी भगवान सवयम ॥ 23 ॥

  24. तत्रैनं लॊकपालास ते दर्शयाम आसुर अर्जुनम अस्त्रहेतॊः पराक्रान्तं तपसा कौरवर्षभम ॥ 24 ॥

  25. नैतद उत्सहते ऽनयॊ हि लब्धुम अन्यत्र फल्गुनात साक्षाद दर्शनम एतेषाम ईश्वराणां नरॊ भुवि ॥ 25 ॥

  26. महेश्वरेण यॊ राजन न जीर्णॊ गरस्तमूर्तिमान कस तम उत्सहते वीरं युद्धे जरयितुं पुमान ॥ 26 ॥

  27. आसादितम इदं घॊरं तुमुलं लॊमहर्षणम दरौपदीं परिकर्षद्भिः कॊपयद्भिश च पाण्डवान ॥ 27 ॥

  28. यत्र विस्फुरमाणौष्ठॊ भीमः पराह वचॊ महत दृष्ट्वा दुर्यॊधनेनॊरू दरौपद्या दर्शिताव उभौ ॥ 28 ॥

  29. ऊरू भेत्स्यामि ते पापगदया वज्रकल्पया तरयॊदशानां वर्षाणाम अन्ते दुर्द्यूत देविनः ॥ 29 ॥

  30. सर्वे परहरतां शरेष्ठाः सर्वे चामिततेजसः सर्वे सर्वास्त्रविद्वांसॊ देवैर अपि सुदुर्जयाः ॥ 30 ॥

  31. मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे अन्तं पार्थाः करिष्यन्ति वीर्यामर्ष समन्विताः ॥ 31 ॥

  32. [धृ] किं कृतं सूत कर्णेन वदता परुषं वचः पर्याप्तं वैरम एतावद यत कृष्णा सा सभां गता ॥ 32 ॥

  33. अपीदानीं मम सुतास तिष्ठेरन मन्दचेतसः येषां भराता गुरुर जयेष्ठॊ विनये नावतिष्ठते ॥ 33 ॥

  34. ममापि वचनं सूत न शुश्रूषति मन्दभाक दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टम अचेतनम ॥ 34 ॥

  35. ये चास्य सचिवा मन्दाः कर्ण सौबलकादयः ते ऽपय अस्य भूयसॊ दॊषान वर्धयन्ति विचेतसः ॥ 35 ॥

  36. सवैरम उक्ता अपि शराः पार्थेनामित तेजसा निर्दहेयुर मम सुतान किं पुनर मन्युनेरिताः ॥ 36 ॥

  37. पार्थ बाहुबलॊत्सृष्टा महाचाप विनिःसृताः दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरान अपि ॥ 37 ॥

  38. यस्य मन्त्री च गॊप्ता च सुहृच चैव जनार्दनः हरिस तरैलॊक्यनाथः स किं नु तस्य न निर्जितम ॥ 38 ॥

  39. इदं च सुमहच चित्रम अर्जुनस्येह संजय महादेवेन बाहुभ्यां यत समेत इति शरुतिः ॥ 39 ॥

  40. परत्यक्षं सर्वलॊकस्य खाण्डवे यत्कृतं पुरा फल्गुनेन सहायार्थे वह्नेर दामॊदरेण च ॥ 40 ॥

  41. सर्वथा नास्ति मे पुत्रः सामात्यः सह बान्धवः करुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 47

Previous: अध्याय 45