धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 43

  1. [वै] गतेषु लॊकपालेषु पार्थः शत्रुनिबर्हणः चिन्तयाम आस राजेन्द्र देवराजरथागमम ॥ 1 ॥

  2. ततश चिन्तयमानस्य गुडा केशस्य धीमतः रथॊ मातलिसंयुक्त आजगाम महाप्रभः ॥ 2 ॥

  3. नभॊ वितिमिरं कुर्वञ जलदान पाटयन्न इव दिशः संपूरयन नादैर महामेघरवॊपमैः ॥ 3 ॥

  4. असयः शक्तयॊ भीमा गदाश चॊग्रप्रदर्शनाः दिव्यप्रभावा परासाश च विद्युतश च महाप्रभाः ॥ 4 ॥

  5. तथैवाशनयस तत्र चक्रयुक्ता हुडा गुडाः वायुस्फॊटाः सनिर्घाता बर्हि मेघनिभ सवनाः ॥ 5 ॥

  6. तत्र नागा महाकाया जवलितास्याः सुदारुणाः सिताभ्रकूटप्रतिमाः संहताश च यथॊपलाः ॥ 6 ॥

  7. दशवाजिसहस्राणि हरीणां वातरंहसाम वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम ॥ 7 ॥

  8. तत्रापश्यन महानीलं वैजयन्तं महाप्रभम धवजम इन्दी वरश्यामं वंशं कनकभूषणम ॥ 8 ॥

  9. तस्मिन रथे सथितं सूतं तप्तहेमविभूषितम दृष्ट्वा पार्थॊ महाबाहुर देवम एवान्वतर्कयत ॥ 9 ॥

  10. तथा तर्कयतस तस्य फल्गुनस्याथ मातलिः संनतः परश्रितॊ भूत्वा वाक्यम अर्जुनम अब्रवीत ॥ 10 ॥

  11. भॊ भॊ शक्रात्मज शरीमाञ शक्रस तवां दरष्टुम इच्छति आरॊहतु भवाञ शीघ्रं रथम इन्द्रस्य संमतम ॥ 11 ॥

  12. आह माम अमर शरेष्ठः पिता तव शतक्रतुः कुन्तीसुतम इह पराप्तं पश्यन्तु तरिदशालयाः ॥ 12 ॥

  13. एष शक्रः परिवृतॊ देवैर ऋषिगणैस तथा गन्धर्वैर अप्सरॊभिश च तवां दिदृक्षुः परतीक्षते ॥ 13 ॥

  14. अस्माल लॊकाद देवलॊकं पाकशासन शासनात आरॊह तवं मया सार्धं लब्धास्त्रः पुनर एष्यसि ॥ 14 ॥

  15. [अर्ज] मातले गच्छ शीघ्रं तवम आरॊहस्व रथॊत्तमम राजसूयाश्वमेधानां शतैर अपि सुदुर्लभम ॥ 15 ॥

  16. पार्थिवैः सुमहाभागैर यज्वभिर भूरिदक्षिणैः दैवतैर वा समारॊढुं दानवैर वा रथॊत्तमम ॥ 16 ॥

  17. नातप्त तपसा शक्य एष दिव्यॊ महारथः दरष्टुं वाप्य अथ वा सप्रष्टुम आरॊढुं कुत एव तु ॥ 17 ॥

  18. तवयि परतिष्ठिते साधॊ रथस्थे सथिरवाजिनि पश्चाद अहम अथारॊक्ष्ये सुकृती सत्पथं यथा ॥ 18 ॥

  19. [वै] तस्य तद वचनं शरुत्वा मातलिः शक्रसारथिः आरुरॊह रथं शीघ्रं हयान येमे च रश्मिभिः ॥ 19 ॥

  20. ततॊ ऽरजुनॊ हृष्टमना गङ्गायाम आप्लुतः शुचिः जजाप जप्यं कौन्तेयॊ विधिवत कुरुनन्दनः ॥ 20 ॥

  21. ततः पितॄन यथान्यायं तर्पयित्वा यथाविधि मन्दरं शैलराजं तम आप्रष्टुम उपचक्रमे ॥ 21 ॥

  22. साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम तवं सदा संश्रयः शैलस्वर्गमार्गाभिकाङ्क्षिणाम ॥ 22 ॥

  23. तवत्प्रसादात सदा शैलब्राह्मणाः कषत्रिया विशः सवगं पराप्ताश चरन्ति सम देवैः सह गतव्यथाः ॥ 23 ॥

  24. अद्रिराजमहाशैलमुनि संश्रयतीर्थवन गच्छाम्य आमन्त्रयामि तवां सुखम अस्म्य उषितस तवयि ॥ 24 ॥

  25. तव सानूनि कुञ्जाश च नद्यः परस्रवणानि च तीर्थानि च सुपुण्यानि मया दृष्टान्य अनेकशः ॥ 25 ॥

  26. एवम उक्त्वार्जुनः शैलम आमन्त्र्य परवीरहा आरुरॊह रथं दिव्यं दयॊतयन्न इव भास्वकः ॥ 26 ॥

  27. स तेनादित्य रूपेण दिव्येनाद्भुत कर्मणा ऊर्ध्वम आचक्रमे धीमान परहृष्टः कुरुनन्दनः ॥ 27 ॥

  28. सॊ ऽदर्शन पथं यात्वा मर्त्यानां भूमिचारिणाम ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ 28 ॥

  29. न तत्र सूर्यः सॊमॊ वा दयॊतते न च पावकः सवयैव परभया तत्र दयॊतन्ते पुण्यलब्धया ॥ 29 ॥

  30. तारा रूपाणि यानीह दृश्यन्ते दयुतिमन्ति वै दीपवद विप्रकृष्टत्वाद अणूनि सुमहान्त्य अपि ॥ 30 ॥

  31. तानि तत्र परभास्वन्ति रूपवन्ति च पाण्डवः ददर्श सवेषु धिष्ण्येषु दीप्तिमन्ति सवयार्चिषा ॥ 31 ॥

  32. तत्र राजर्षयः सिद्धा वीराश च निहता युधि तपसा च जितस्वर्गाः संपेतुः शतसंघशः ॥ 32 ॥

  33. गन्धर्वाणां सहस्राणि सूर्यज्वलन तेजसाम गुह्यकानाम ऋषीणां च तथैवाप्सरसां गणाः ॥ 33 ॥

  34. लॊकान आत्मप्रभान पश्यन फल्गुनॊ विस्मयान्वितः पप्रच्छ मातलिं परीत्या स चाप्य एनम उवाच ह ॥ 34 ॥

  35. एते सुकृतिनः पार्थ सवेषु धिष्ण्येष्व्व अवस्थिताः यान दृष्टवान असि विभॊ तारा रूपाणि भूतले ॥ 35 ॥

  36. ततॊ ऽपश्यत सथितं दवारि सितं वैजयिनं गजम ऐरावतं चतुर्दन्तं कैलासम इव शृङ्गिणम ॥ 36 ॥

  37. स सिद्धमार्गम आक्रम्य कुरुपाण्डवसत्तमः वयरॊचत यथापूर्वं मान्धाता पार्थिवॊत्तमः ॥ 37 ॥

  38. अतिचक्राम लॊकान स राज्ञां राजीवलॊचनः ततॊ ददर्श शक्रस्य पुरीं ताम अमरावतीम ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42