धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 42

  1. [वै] तस्य संपश्यतस तव एव पिनाकी वृषभध्वजः जगामादर्शनं भानुर लॊकस्येवास्तम एयिवान ॥ 1 ॥

  2. ततॊ ऽरजुनः परं चक्रे विस्मयं परवीरहा मया साक्षान महादेवॊ दृष्ट इत्य एव भारत ॥ 2 ॥

  3. धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यन मया तर्यम्बकॊ हरः पिनाकी वरदॊ रूपी दृष्टः सपृष्टश च पाणिना ॥ 3 ॥

  4. कृतार्थं चावगच्छामि परम आत्मानम आत्मना शत्रूंश च विजितान सर्वान निर्वृत्तं च परयॊजनम ॥ 4 ॥

  5. ततॊ वैडूर्य वर्णाभॊ भासयन सर्वतॊदिशः यादॊगणवृतः शरीमान आजगाम जलेश्वरः ॥ 5 ॥

  6. नागैर नदैर नदीभिश च दैत्यैः साध्यैश च दैवतैः वरुणॊ यादसां भर्ता वशीतं देशम आगमत ॥ 6 ॥

  7. अथ जाम्बूनदवपुर विमानेन महार्चिषा कुबेरः समनुप्राप्तॊ यक्षैर अनुगतः परभुः ॥ 7 ॥

  8. विद्यॊतयन्न इवाकाशम अद्भुतॊपमदर्शनः धनानाम ईश्वरः शरीमान अर्जुनं दरष्टुम आगतः ॥ 8 ॥

  9. तथा लॊकान्त कृच छरीमान यमः साक्षात परतापवान मूर्त्य अमूर्ति धरैः सार्धं पितृभिर लॊकभावनैः ॥ 9 ॥

  10. दण्डपाणिर अचिन्त्यात्मा सर्वभूतविनाशकृत वैवस्वतॊ धर्मराजॊ विमानेनावभासयन ॥ 10 ॥

  11. तरीँल लॊकान गुह्यकांश चैव गन्धर्वांश च सपन्नगान दवितीय इव मार्तण्डॊ युगान्ते समुपस्थिते ॥ 11 ॥

  12. भानुमन्ति विचित्राणि शिखराणि महागिरेः समास्थायार्जुनं तत्र ददृशुस तपसान्वितः ॥ 12 ॥

  13. ततॊ मुहूर्ताद भगवान ऐरावत शिरॊ गतः आजगाम सहेन्द्राण्या शक्रः सुरगणैर वृतः ॥ 13 ॥

  14. पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि शुशुभे तारका राजः सितम अभ्रम इवास्थितः ॥ 14 ॥

  15. संस्तूयमानॊ गन्धर्वैर ऋषिभिश च तपॊधनैः शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवॊदितः ॥ 15 ॥

  16. अथ मेघस्वनॊ धीमान वयाजहार शुभां गिरम यमः परमधर्मज्ञॊ दक्षिणां दिशम आस्थितः ॥ 16 ॥

  17. अर्जुनार्जुन पश्यास्माँल लॊकपालान समागतान दृष्टिं ते वितरामॊ ऽदय भवान अर्हॊ हि दर्शनम ॥ 17 ॥

  18. पूर्वर्षिर अमितात्मा तवं नरॊ नाम महाबलः नियॊगाद बरह्मणस तात मर्त्यतां समुपागतः तवं वासव समुद्भूतॊ महावीर्यपराक्रमः ॥ 18 ॥

  19. कषत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम दानवाश च महावीर्या ये मनुष्यत्वम आगताः निवातकवचाश चैव संसाध्याः कुरुनन्दन ॥ 19 ॥

  20. पितुर ममांशॊ देवस्य सर्वलॊकप्रतापिनः कर्णः स सुमहावीर्यस तवया वध्यॊ धनंजय ॥ 20 ॥

  21. अंशाश च कषितिसंप्राप्ता देवगन्धर्वरक्षसाम तया निपातिता युद्धे सवकर्मफलनिर्जिताम गतिं पराप्स्यन्ति कौन्तेय यथा सवम अरिकर्शन ॥ 21 ॥

  22. अक्षया तव कीर्तिश च लॊके सथास्यति फल्गुन लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ 22 ॥

  23. गृहाणास्त्रं महाबाहॊ दण्डम अप्रतिवारणम अनेनास्त्रेण सुमहत तवं हि कर्म करिष्यसि ॥ 23 ॥

  24. परतिजग्राह तत पार्थॊ विधिवत कुरुनन्दनः समन्त्रं सॊपचारं च समॊक्षं सनिवर्तनम ॥ 24 ॥

  25. ततॊ जलधर शयामॊ वरुणॊ यादसां पतिः पश्चिमां दिशम आस्थाय गिरम उच्चारयन परभुः ॥ 25 ॥

  26. पार्थ कषत्रिय मुख्यस तवं कषत्रधर्मे वयवस्थितः पश्य मां पृथु ताम्राक्ष वरुणॊ ऽसमि जलेश्वरः ॥ 26 ॥

  27. मया समुद्यतान पाशान वारुणान अनिवारणान परतिगृह्णीष्व कौन्तेय सरहस्य निवर्तनान ॥ 27 ॥

  28. एभिस तदा मया वीर संग्रामे तारकामये दैतेयानां सहस्राणि संयतानि महात्मनाम ॥ 28 ॥

  29. तस्माद इमान महासत्त्वमत्प्रसादात समुत्थितान गृहाण न हि ते मुच्येद अन्तकॊ ऽपय आततायिनः ॥ 29 ॥

  30. अनेन तवं यदास्त्रेण संग्रामे विचरिष्यसि तदा निःक्षत्रिया भूमिर भविष्यति न संशयः ॥ 30 ॥

  31. ततः कैलासनिलयॊ धनाध्यक्षॊ ऽभयभाषत दत्तेष्व अस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ 31 ॥

  32. सव्यसाचिन महाबाहॊ पूर्वदेव सनातन सहास्माभिर भवाञ शरान्तः पुराकल्पेषु नित्यशः ॥ 32 ॥

  33. मत्तॊ ऽपि तवं गृहाणास्त्रम अन्तर्धानं परियं मम ओजस तेजॊ दयुतिहरं परस्वापनम अरातिहन ॥ 33 ॥

  34. ततॊ ऽरजुनॊ महाबाहुर विधिवत कुरुनन्दनः कौबेरम अपि जग्राह दिव्यम अस्त्रं महाबलः ॥ 34 ॥

  35. ततॊ ऽबरवीद देवराजः पार्थम अक्लिष्टकारिणम सान्त्वयञ शलक्ष्णया वाचा मेघदुन्दुभि निस्वनः ॥ 35 ॥

  36. कुन्ती मातर महाबाहॊ तवम ईशानः पुरातनः परां सिद्धिम अनुप्राप्तः साक्षाद देव गतिं गतः ॥ 36 ॥

  37. देवकार्यं हि सुमहत तवया कार्यम अरिंदम आरॊढव्यस तवया सवर्गाः सज्जीभव महाद्युते ॥ 37 ॥

  38. रथॊ मातलिसंयुक्त आगन्ता तवत्कृते महीम तत्र ते ऽहं परदास्यामि दिव्यान्य अस्त्राणि कौरव ॥ 38 ॥

  39. तान दृष्ट्वा लॊकपालांस तु समेतान गिरिमूर्धनि जगाम विस्मयं धीमान कुन्तीपुत्रॊ धनंजयः ॥ 39 ॥

  40. ततॊ ऽरजुनॊ महातेजा लॊकपालान समागतान पूजयाम आस विधिवद वाग्भिर अद्भिः फलैर अपि ॥ 40 ॥

  41. ततः परतिययुर देवाः परतिपूज्य धनंजयम यथागतेन विबुधाः सर्वे काममनॊ जवाः ॥ 41 ॥

  42. ततॊ ऽरजुनॊ मुदं लेभे लब्धास्त्रः पुरुषर्षभः कृतार्थम इव चात्मानं स मेने पूर्णमानसः ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 43

Previous: अध्याय 41