धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 41

  1. [भगवान] नरस तवं पूर्वदेहे वै नारायण सहायवान बदर्यां तप्तवान उग्रं तपॊ वर्षायुतान बहून ॥ 1 ॥

  2. तवयि वा परमं तेजॊविष्णौ वा पुरुषॊत्तमे युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत ॥ 2 ॥

  3. शक्राभिषेके सुमहद धनुर जलदनिस्वनम परगृह्य दानवाः शस्तास तवया कृष्णेन च परभॊ ॥ 3 ॥

  4. एतत तद एव गाण्डीवं तव पार्थ करॊचितम मायाम आस्थाय यद गरस्तं मया पुरुषसत्तम तूणौ चाप्य अक्षयौ भूयस तव पार्थ यथॊचितौ ॥ 4 ॥

  5. परीतिमान अस्मि वै पार्थ तव सत्यपराक्रम गृहाण वरम अस्मत्तः काङ्क्षितं यन नरर्षभ ॥ 5 ॥

  6. न तवया सदृशः कश चित पुमान मर्त्येषु मानद दिवि वा विद्यते कषत्रं तवत परधानम अरिंदम ॥ 6 ॥

  7. [अर्ज] भगवन ददासि चेन मह्यं कामं परीत्या वृषध्वज कामये दिव्यम अस्त्रं तद घॊरं पाशुपतं परभॊ ॥ 7 ॥

  8. यत तद बरह्मशिरॊ नाम रौद्रं भीमपराक्रमम युगान्ते दारुणे पराप्ते कृत्स्नं संहरते जगत ॥ 8 ॥

  9. दहेयं येन संग्रामे दानवान राक्षसांस तथा भूतानि च पिशाचांश च गन्धर्वान अथ पन्नगान ॥ 9 ॥

  10. यतः शूलसहस्राणि गदाश चॊग्रप्रदर्शनाः शराश चाशीविषाकाराः संभवन्त्य अनुमन्त्रिताः ॥ 10 ॥

  11. युध्येयं येन भीष्मेण दरॊणेन च कृपेण च सूतपुत्रेण च रणे नित्यं कटुक भाषिणा ॥ 11 ॥

  12. एष मे परथमः कामॊ भगवन भव नेत्रहन तवत्प्रसादाद विनिर्वृत्तः समर्थः सयाम अहं यथा ॥ 12 ॥

  13. [भगवान] ददानि ते ऽसत्रं दयितम अहं पाशुपतं महत समर्थॊ धारणे मॊक्षे संहारे चापि पाण्डव ॥ 13 ॥

  14. नैतद वेद महेन्द्रॊ ऽपि न यमॊ न च यक्षराट वरुणॊ वाथ वा वायुः कुतॊ वेत्स्यन्ति मानवाः ॥ 14 ॥

  15. न तव एतत सहसा पार्थ मॊक्तव्यं पुरुषे कव चित जगद विनिर्दहेत सर्वम अल्पतेजसि पातितम ॥ 15 ॥

  16. अवध्यॊ नाम नास्त्य अस्य तरैलॊक्ये सचराचरे मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ 16 ॥

  17. [वै] तच छरुत्वा तवरितः पार्थः शुचिर भूत्वा समाहितः उपसंगृह्य विश्वेशम अधीष्वेति च सॊ ऽबरवीत ॥ 17 ॥

  18. ततस तव अध्यापयाम आस सरहस्य निवर्तनम तद अस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तम इवान्तकम ॥ 18 ॥

  19. उपतस्थे महात्मानं यथा तर्यक्षम उमापतिम परतिजग्राह तच चापि परीतिमान अर्जुनस तदा ॥ 19 ॥

  20. ततश चचाल पृथिवी सपर्वतवनद्रुमा ससागरवनॊद्देशा सग्राम नगराकरा ॥ 20 ॥

  21. शङ्खदुन्दुभिघॊषाश च भेरीणां च सहस्रशः तस्मिन मुहूर्ते संप्राप्ते निर्घातश च महान अभूत ॥ 21 ॥

  22. अथास्त्रं जाज्वलद घॊरं पाण्डवस्यामितौजसः मूर्तिमद विष्ठितं पार्श्वे ददृशुर देवदानवाः ॥ 22 ॥

  23. सपृष्टस्य च तर्यम्बकेन फल्गुनस्यामितौजसः यत किं चिद अशुभं देहे तत सर्वं नाशम एयिवत ॥ 23 ॥

  24. सवर्गं गच्छेत्य अनुज्ञातस तर्यम्बकेन तदार्जुनः परणम्य शिरसा पार्थः पराञ्जलिर देवम ऐक्षत ॥ 24 ॥

  25. ततः परभुस तरिदिव निवासिनां वशी; महामतिर गिरिश उमापतिः शिवः धनुर महद दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम ॥ 25 ॥

  26. ततः शुभं गिरिवरम ईश्वरस तदा; सहॊमया सिततट सानु कन्दरम विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 42

Previous: अध्याय 40