[वै] गतेषु तेषु सर्वेषु तपस्विषु महात्मसु पिनाक पाणिर भगवान सर्वपापहरॊ हरः ॥ 1 ॥
कैरातं वेषम आस्थाय काञ्चनद्रुम संनिभम विभ्राजमानॊ वपुषा गिरिर मेरुर इवापरः ॥ 2 ॥
शरीमद धनुर उपादाय शरांश चाशीविषॊपमान निष्पपात महार्चिष्मान दहन कक्षम इवानलः ॥ 3 ॥
देव्या सहॊमया शरीमान समानव्रतवेषया नानावेषधरैर हृष्टैर भूतैर अनुगतस तदा ॥ 4 ॥
किरात वेषप्रच्छन्नः सत्रीभिश चानु सहस्रशः अशॊभत तदा राजन स देवॊ ऽतीव भारत ॥ 5 ॥
कषणेन तद वनं सर्वं निःशब्दम अभवत तदा नादः परस्रवणानां च पक्षिणां चाप्य उपारमत ॥ 6 ॥
स संनिकर्णम आगम्य पार्थस्याक्लिष्ट कर्मणः मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम ॥ 7 ॥
वाराहं रूपम आस्थाय तर्कयन्तम इवार्जुनम हन्तुं परमदुष्टात्मा तम उवाचाथ फल्गुनः ॥ 8 ॥
गाण्डीवं धनुर आदाय शरांश चाशीविषॊपमान सज्यं धनुर्वरं कृत्वा जयाघॊषेण निनादयन ॥ 9 ॥
यन मां परार्थयसे हन्तुम अनागसम इहागतम तस्मात तवां पूर्वम एवाहं नेष्यामि यमसादनम ॥ 10 ॥
तं दृष्ट्वा परहरिष्यन्तं फल्गुनं दृष्ठ धन्व्विनम किरात रूपी सहसा वारयाम आस शंकरः ॥ 11 ॥
मयैष परार्थितः पूर्वं नीलमेघसमप्रभः अनादृत्यैव तद वाक्यं परजहाराथ फल्गुनः ॥ 12 ॥
किरातश च समं तस्मिन्न एकलक्ष्ये महाद्युतिः परमुमॊचाशनि परख्यं शरम अग्निशिखॊपमम ॥ 13 ॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥ 14 ॥
यथाशनिविनिष्पेषॊ वज्रस्येव च पर्वते तथा तयॊः संनिपातः शरयॊर अभवत तदा ॥ 15 ॥
स विद्धॊ बहुभिर बाणैर दीप्तास्यैः पन्नगैर इव ममार राक्षसं रूपं भूयः कृत्वा विभीषणम ॥ 16 ॥
ददर्शाथ ततॊ जिष्णुः पुरुषं काञ्चनप्रभम किरात वेषप्रच्छन्नं सत्री सहायम अमित्रहा ॥ 17 ॥
तम अब्रवीत परीतमनाः कौन्तेयः परहसन्न इव कॊ भवान अटते घॊरे विभेषि कनकप्रभ ॥ 18 ॥
किमर्थं च तवया विद्धॊ मृगॊ ऽयं मत्परिग्रहः मयाभिपन्नः पूर्वं हि राक्षसॊ ऽयम इहागतः ॥ 19 ॥
कामात परिभवाद वापि न मे जीवन विमॊक्ष्यसे न हय एष मृगया धर्मॊ यस तवयाद्य कृतॊ मयि तेन तवां भरंशयिष्यामि जीवितात पर्वताश्रय ॥ 20 ॥
इत्य उक्तः पाण्डवेयेन किरातः परहसन्न इव उवाच शलक्ष्णया वाचा पाण्डवं सव्यसाचिनम ॥ 21 ॥
ममैवायं लक्ष्यभूतः पूर्वम एव परिग्रहः ममैव च परहारेण जीविताद वयवरॊपितः ॥ 22 ॥
दॊषान सवान नार्हसे ऽनयस्मै वक्तुं सवबलदर्पितः अभिषक्तॊ ऽसमि मन्दात्मन न मे जीवन विमॊक्ष्यसे ॥ 23 ॥
सथिरॊ भवस्व मॊक्ष्यामि सायकान अशनीन इव घटस्व परया शक्त्या मुञ्च तवम अपि सायकान ॥ 24 ॥
ततस तौ तत्र संरब्धौ गर्जमानौ मुहुर मुहुः शरैर आशीविषाकारैस ततक्षाते परस्परम ॥ 25 ॥
ततॊ ऽरजुनः शरवर्षं किराते समवासृजत तत परसन्नेन मनसा परतिजग्राह शंकरः ॥ 26 ॥
मुहूर्तं शरवर्षं तत परतिगृह्य पिनाकधृक अक्षतेन शरीरेण तस्थौ गिरिर इवाचलः ॥ 27 ॥
स दृष्ट्वा बाणवर्षं तन मॊघी भूतं धनंजयः परमं विस्मयं चक्रे साधु साध्व इति चाब्रवीत ॥ 28 ॥
अहॊ ऽयं सुकुमाराङ्गॊ हिमवच्छिखरालयः गाण्डीवमुक्तान नाराचान परतिगृह्णात्य अविह्वलः ॥ 29 ॥
कॊ ऽयं देवॊ भवेत साक्षाद रुद्रॊ यक्षः सुरेश्वरः विद्यते हि गिरिश्रेष्ठे तरिदशानां समागमः ॥ 30 ॥
न हि मद्बाणजालानाम उत्सृष्टानां सहस्रशः शक्तॊ ऽनयः सहितुं वेगम ऋते देवं पिनाकिनम ॥ 31 ॥
देवॊ वा यदि वा यक्षॊ रुद्राद अन्यॊ वयवस्थितः अहम एनं शरैस तीक्ष्णैर नयामि यमसादनम ॥ 32 ॥
ततॊ हृष्टमना जिष्णुर नाराचान मर्मभेदिनः वयसृजच छतधा राजन मयूखान इव भास्करः ॥ 33 ॥
तान परसन्नेन मनसा भगवाँल लॊकभावनः शूलपाणिः परत्यगृह्णाच छिला वर्षम इवाचलः ॥ 34 ॥
कषणेन कषीणबाणॊ ऽथ संवृत्तः फल्गुनस तदा वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम ॥ 35 ॥
चिन्तयाम आस जिष्णुस तु भगवन्तं हुताशनम पुरस्ताद अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ 36 ॥
किं नु मॊक्ष्यामि धनुषा यन मे बाणाः कषयं गताः अयं च पुरुषः कॊ ऽपि बाणान गरसति सर्वशः ॥ 37 ॥
अहम एनं धनुष्कॊट्या शूलाग्रेणेव कुञ्जरम नयामि दण्डधारस्य यमस्य सदनं परति ॥ 38 ॥
संप्रायुध्यद धनुष्कॊट्या कौन्तेयः परवीरहा तद अप्य अस्य धनुर दिव्यं जग्रास गिरिगॊचरः ॥ 39 ॥
ततॊ ऽरजुनॊ गरस्तधनुः खड्गपाणिर अतिष्ठत युद्धस्यान्तम अभीप्सन वै वेगेनाभिजगाम तम ॥ 40 ॥
तस्य मूर्ध्नि शितं खड्गम असक्तं पर्वतेष्व अपि मुमॊच भुजवीर्येण पफालासि वरॊ हि सः तस्य मूर्धानम आसाद्य पफालासि वरॊ हि सः ॥ 41 ॥
ततॊ वृक्षैः शिलाभिश च यॊधयाम आस फल्गुनः यथा वृक्षान महाकायः परत्यगृह्णाद अथॊ शिलाः ॥ 42 ॥
किरात रूपी भगवांस ततः पार्थॊ महाबलः मुष्टिभिर वज्रसंस्पर्शैर धूमम उत्पादयन मुखे परजहार दुराधर्षे किरात समरूपिणि ॥ 43 ॥
ततः शक्राशनिसमैर मुष्टिभिर भृशदारुणैः किरात रूपी भगवान अर्दयाम आस फल्गुनम ॥ 44 ॥
ततश चटचटा शब्दः सुघॊरः समजायत पाण्डावस्य च मुष्टीनां किरातस्य च युध्यतः ॥ 45 ॥
सुमुहूर्तं महद युद्धम आसीत तल लॊमहर्षणम भुजप्रहार संयुक्तं वृत्रवासवयॊर इव ॥ 46 ॥
जहाराथ ततॊ जिष्णुः किरातम उरसा बली पाण्डवं च विचेष्टन्तं किरातॊ ऽपय अहनद बलात ॥ 47 ॥
तयॊर भुजविनिष्पेषात संघर्षेणॊरसॊस तथा समजायत गात्रेषु पावकॊ ऽङगारधूमवान ॥ 48 ॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम तेजसा वयाक्रमद रॊषाच चेतस तस्य विमॊहयन ॥ 49 ॥
ततॊ निपीडितैर गात्रैः पिण्डी कृत इवाबभौ फल्गुनॊ गात्रसंरुद्धॊ देवदेवेन भारत ॥ 50 ॥
निरुच्च्वासॊ ऽभवच चैव संनिरुद्धॊ महात्मना ततः पपात संमूढस ततः परीतॊ ऽभवद भवः ॥ 51 ॥
[भगवान] भॊ भॊ फल्गुन तुष्टॊ ऽसमि कर्मणाप्रतिमेन ते शौर्येणानेन धृत्या च कषत्रियॊ नास्ति ते समः ॥ 52 ॥
समं तेजश च वीर्यं च ममाद्य तव चानघ परीतस ते ऽहं महाबाहॊ पश्य मां पुरुषर्षभ ॥ 53 ॥
ददानि ते विशालाक्ष चक्षुः पूर्व ऋषिर भवान विजेष्यसि रणे शत्रून अपि सर्वान दिवौकसः ॥ 54 ॥
[वै] ततॊ देवं महादेवं गिरिशं शूलपाणिनम ददर्श फल्गुनस तत्र सहदेव्या महाद्युतिम ॥ 55 ॥
स जानुभ्यां महीं गत्वा शिरसा परणिपत्य च परसादयाम आस हरं पार्थः परपुरंजयः ॥ 56 ॥
[अर्ज] कपर्दिन सर्वभूतेश भग नेत्रनिपातन वयतिक्रमं मे भगवन कषन्तुम अर्हसि शंकर ॥ 57 ॥
भवगद दर्शनाकाङ्क्षी पराप्तॊ ऽसमीमं महागिरिम दयितं तव देवेश तापसालयम उत्तमम ॥ 58 ॥
परसादये तवां भगवन सर्वभूतनमस्कृत न मे सयाद अपराधॊ ऽयं महादेवातिसाहसात ॥ 59 ॥
कृतॊ मया यद अज्ञानाद विमर्दॊ ऽयं तवया सह शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर ॥ 60 ॥
[वै] तम उवाच महातेजाः परहस्य वृषभध्वजः परगृह्य रुचिरं बाहुं कषान्तम इत्य एव फल्गुनम ॥ 61 ॥
वनपर्व · Vana Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41