[ज] भगवञ शरॊतुम इच्छामि पार्थस्याक्लिष्ट कर्मणः विस्तरेण कथाम एतां यथास्त्राण्य उपलब्धवान ॥ 1 ॥
कथं स पुरुषव्याघ्रॊ दीर्घबाहुर धनंजयः वनं परविष्टस तेजस्वी निर्मनुष्यम अभीतवत ॥ 2 ॥
किं च तेन कृतं तत्र वसता बरह्मवित्तम कथं च भगवान सथाणुर देवराजश च तॊषितः ॥ 3 ॥
एतद इच्छाम्य अहं शरॊतुं तवत्प्रसादाद दविजॊत्तम तवं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥ 4 ॥
अत्यद्भुतं महाप्राज्ञ रॊमहर्षणम अर्जुनः भवेन सह संग्रामं चकाराप्रतिमं किल पुरा परहरतां शरेष्ठः संग्रामेष्व अपराजितः ॥ 5 ॥
यच छरुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात शूराणाम अपि पार्थानां हृदयानि चकम्पिरे ॥ 6 ॥
यद यच च कृतवान अन्यत पार्थस तद अखिलं वद न हय अस्य निन्दितं जिष्णॊः सुसूक्ष्मम अपि लक्षये चरितं तस्य शूरस्य तन मे सर्वं परकीर्तय ॥ 7 ॥
[वै] कथयिष्यामि ते तात कथाम एतां महात्मनः दिव्यां कौरव शार्दूलमहतीम अद्भुतॊपमाम ॥ 8 ॥
गात्रसंस्पर्श संबन्धं तर्यम्बकेण सहानघ पार्थस्य देवदेवेन शृणु सम्यक समागमम ॥ 9 ॥
युधिष्ठिर नियॊगात स जगामामित विक्रमः शक्रं सुरेश्वरं दरष्टुं देवदेवं च शंकरम ॥ 10 ॥
दिव्यं तद धनुर आदाय खड्गं च पुरुषर्षभः महाबलॊ महाबाहुर अर्जुनः कार्यसिद्धये दिशं हय उदीचीं कौरव्यॊ हिमवच्छिखरं परति ॥ 11 ॥
ऐन्द्रिः सथिरमना राजन सर्वलॊकमहारथः तवरया परया युक्तस तपसे धृतनिश्चयः वनं कण्टकितं घॊरम एक एवान्वपद्यत ॥ 12 ॥
नानापुष्पफलॊपेतं नानापक्षिनिषेवितम नानामृगगणाकीर्णं सिद्धचारणसेवितम ॥ 13 ॥
ततः परयाते कौन्तेय वनं मानुषवर्जितम शङ्खानां पटहानां च शब्दः समभवद दिवि ॥ 14 ॥
पुष्पवर्षं च सुमहन निपपात महीतले मेघजालं च विततं छादयाम आस सर्वतः ॥ 15 ॥
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः शुशुभे हिमवत्पृष्ठे वसमानॊ ऽरजुनस तदा ॥ 16 ॥
तत्रापश्यद दरुमान फुल्लान विहगैर वल्गु नादितान नदीश च बहुलावर्ता नीलवैडूर्य संनिभाः ॥ 17 ॥
हंसकारण्डवॊद्गीताः सारसाभिरुतास तथा पुंस्कॊकिल रुताश चैव करौञ्चबर्हिण नादिताः ॥ 18 ॥
मनॊहरवनॊपेतास तस्मिन्न अतिरथॊ ऽरजुनः पुण्यशीतामल जलाः पश्यन परीतमनाभवत ॥ 19 ॥
रमणीये वनॊद्देशे रममाणॊ ऽरजुनस तदा तपस्य उग्रे वर्तमान उग्रतेजा महामनाः ॥ 20 ॥
दर्भचीरं निवस्याथ दण्डाजिन विभूषितः पूर्णे पूर्णे तरिरात्रे तु मासम एकं फलाशनः दविगुणेनैव कालेन दवितीयं मासम अत्यगात ॥ 21 ॥
तृतीयम अपि मासं स पक्षेणाहारम आचरन शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान ॥ 22 ॥
चतुर्थे तव अथ संप्राप्ते मासि पूर्णे ततः परम वायुभक्षॊ महाबाहुर अभवत पाण्डुनन्दनः ऊर्ध्वबाहुर निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥ 23 ॥
सदॊपस्पर्शनाच चास्य बभूवुर अमितौजसः विद्युद अम्भॊ रुहनिभा जटास तस्य महात्मनः ॥ 24 ॥
ततॊ महर्षयः सर्वे जग्मुर देवं पिनाकिनम शितिकण्ठं महाभागं परणिपत्य परसाद्य च सर्वे निवेदयाम आसुः कर्म तत फल्गुनस्य ह ॥ 25 ॥
एष पार्थॊ महातेजा हिमवत्पृष्ठम आश्रितः उग्रे तपसि दुष्पारे सथितॊ धूमाययन दिशः ॥ 26 ॥
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम संतापयति नः सर्वान असौ साधु निवार्यताम ॥ 27 ॥
[महेष्वर] शीघ्रं गच्छत संहृष्टा यथागतम अतन्द्रिताः अहम अस्य विजानामि संकल्पं मनसि सथितम ॥ 28 ॥
नास्य सवर्गस्पृहा का चिन नैश्वर्यस्य न चायुषः यत तव अस्य काङ्क्षितं सर्वं तत करिष्ये ऽहम अद्य वै ॥ 29 ॥
[वै] ते शरुत्व शर्व वचनम ऋषयः सत्यवादिनः परहृष्टमनसॊ जग्मुर यथा सवं पुनर आश्रमान ॥ 30 ॥
वनपर्व · Vana Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40