धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 3

  1. [व] शौनकेनैवम उक्तस तु कुन्तीपुत्रॊ युधिष्ठिरः पुरॊहितम उपागम्य भरातृमध्ये ऽबरवीद इदम ॥ 1 ॥

  2. परस्थितं मानुयान्तीमे बराह्मणा वेदपारगाः न चास्मि पालने शक्तॊ बहुदुःखसमन्वितः ॥ 2 ॥

  3. परित्यक्तुं न शक्नॊमि दानशक्तिश च नास्ति मे कथम अत्र मया कार्यं भगवांस तद बरवीतु मे ॥ 3 ॥

  4. मुहूर्तम इव स धयात्वा धर्मेणान्विष्य तां गतिम युधिष्ठिरम उवाचेदं धौम्यॊ धर्मभृतां वरः ॥ 4 ॥

  5. पुरा सृष्टनि भूतानि पीड्यन्ते कषुधया भृशम ततॊ ऽनुकम्पया तेषां सविता सवपिता इव ॥ 5 ॥

  6. गत्वॊत्तरायणं तेजॊ रसान उद्धृत्य रश्मिभिः दक्षिणायनम आवृत्तॊ महीं निविशते रविः ॥ 6 ॥

  7. कषेत्रभूते ततस तस्मिन्न ओषधीर ओषधी पतिः दिवस तेजः समुद्धृत्य जनयाम आस वारिणा ॥ 7 ॥

  8. निषिक्तश चन्द्र तेजॊभिः सूयते भूगतॊ रविः ओषध्यः षड्रसा मेध्यास तदन्नं पराणिनां भुवि ॥ 8 ॥

  9. एवं भानुमयं हय अन्नं भूतानां पराणधारणम पितैष सर्वभूतानां तस्मात तं शरणं वरज ॥ 9 ॥

  10. राजानॊ हि महात्मानॊ यॊनिकर्म विशॊधिताः उद्धरन्ति परजाः सर्वास तप आस्थाय पुष्कलम ॥ 10 ॥

  11. भीमेन कार्तवीर्येण वैन्येन नहुषेण च तपॊयॊगसमाधिस्थैर उद्धृता हय आपदः परजाः ॥ 11 ॥

  12. तथा तवम अपि धर्मात्मन कर्मणा च विशॊधितः तप आस्थाय धर्मेण दविजातीन भर भारत ॥ 12 ॥

  13. एवम उक्तस तु धौम्येन तत कालसदृशं वचः धर्मराजॊ विशुद्धात्मा तप आतिष्ठद उत्तमम ॥ 13 ॥

  14. पुष्पॊपहारैर बलिभिर अर्चयित्वा दिवाकरम यॊगम आस्थाय धर्मात्मा वायुभक्षॊ जितेन्द्रियः गाङ्गेयं वार्य उपस्पृष्य पराणायामेन तस्थिवान ॥ 14 ॥

  15. [ज] कथं कुरूणाम ऋषभः स तु राजा युधिष्ठिरः विप्रार्थम आराधितवान सूर्यम अद्भुतविक्रमम ॥ 15 ॥

  16. [व] शृणुष्वावहितॊ राजञ शुचिर भूत्वा समाहितः कषणं च कुरु राजेन्द्र सर्वं वक्ष्याम्य अशेषतः ॥ 16 ॥

  17. धौम्येन तु यथ परॊक्तं पार्थाय सुमहात्मने नाम्नाम अष्ट शतं पुण्यं तच छृणुष्व महामते ॥ 17 ॥

  18. सूर्यॊ ऽरयमा भगस तवष्टा पूषार्कः सविता रविः गभस्तिमान अजः कालॊ मृत्युर धाता परभा करः ॥ 18 ॥

  19. पृथिव्य आपश च तेजश च खं वायुश च परायणम सॊमॊ बृहस्पतिः शुक्रॊ बुधॊ ऽङगारक एव च ॥ 19 ॥

  20. इन्द्रॊ विवस्व्वान दीप्तांशुः शुचिः शौरिः शनैश्चरः बरह्मा विष्णुश च रुद्रश च सकन्दॊ वैश्वरणॊ यमः ॥ 20 ॥

  21. वैद्युतॊ जाठरश चागिर ऐन्धनस तेजसां पतिः धर्मध्वजॊ वेद कर्ता वेदाङ्गॊ वेद वाहनः ॥ 21 ॥

  22. कृतं तरेता दवापरश च कलिः सर्वामराश्रयः कला काष्ठा मुहुर्ताश च पक्षा मासा ऋतुस तथा ॥ 22 ॥

  23. संवत्सरकरॊ ऽशवत्थः कालचक्रॊ विभावसुः पुरुषः शाश्वतॊ यॊगी वयक्ताव्यक्तः सनातनः ॥ 23 ॥

  24. लॊकाध्यक्षः परजाध्यक्षॊ विश्वकर्मा तमॊनुदः वरुणः सागरॊ ऽंशुश च जीमूतॊ जीवनॊ ऽरिहा ॥ 24 ॥

  25. भूताश्रयॊ भूतपतिः सर्वभूतनिषेवितः मणिः सुवर्णॊ भूतादिः कामदः सर्वतॊ मुखः ॥ 25 ॥

  26. जयॊ विशालॊ वरदः शीघ्रगः पराणधारणः धन्वन्तरिर धूमकेतुर आदिदेवॊ ऽदितेः सुतः ॥ 26 ॥

  27. दवादशात्मारविन्दाक्षः पिता माता पितामहः सवर्गद्वारं परजा दवारं मॊक्षद्वारं तरिविष्टपम ॥ 27 ॥

  28. देहकर्ता परशान्तात्मा विश्वात्मा विश्वतॊमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ 28 ॥

  29. एतद वै कीर्तनीयस्य सूर्यस्यैव महात्मनः नाम्नाम अष्ट शतं पुण्यं शक्रेणॊक्तं महात्मना ॥ 29 ॥

  30. शक्राच च नारदः पराप्तॊ धौम्यश च तदनन्तरम धौम्याद युधिष्ठिरः पराप्य सर्वान कामान अवाप्तवान ॥ 30 ॥

  31. सुरपितृगणयक्षसेवितं; हय असुरनिशाचरसिद्धवन्दितम वरकनकहुताशनप्रभं; तवम अपि मनस्य अभिधेहि भास्करम ॥ 31 ॥

  32. सूर्यॊदये यस तु समाहितः पठेत; सपुत्रलाभं धनरत्नसंचयान लभेत जातिस्मरतां सदा नरः; समृतिं च मेधां च स विन्दते पराम ॥ 32 ॥

  33. इमं सतवं देववरस्य यॊ नरः; परकीर्तयेच छुचि सुमनाः समाहितः स मुच्यते शॊकदवाग्निसागराल; लभेत कामान मनसा यथेप्सितान ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2