[वै] कस्य चित तव अथ कालस्य धर्मराजॊ युधिष्ठिरः संस्मृत्य मुनिसंदेशम इदं वचनम अब्रवीत ॥ 1 ॥
विविक्ते विदितप्रज्ञम अर्जुनं भरतर्षभम सान्त्वपूर्वं समितं कृत्वा पाणिना परिसंस्पृशन ॥ 2 ॥
स मुहूर्तम इव धयात्वा वनवासम अरिंदमः धनंजयं धर्मराजॊ रहसीदम उवाच ह ॥ 3 ॥
भीष्मे दरॊणे कृपे कर्णे दरॊणपुत्रे च भारत धनुर्वेदश चतुष्पाद एतेष्व अद्य परतिष्ठितः ॥ 4 ॥
बराह्मं दैवम आसुरं च सप्रयॊग चिकित्सितम सर्वास्त्राणां परयॊगं च ते ऽभिजानन्ति कृत्स्नशः ॥ 5 ॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः संविभक्ताश च तुष्टाश च गुरुवत तेषु वर्तते ॥ 6 ॥
सर्वयॊधेषु चैवास्य सदा वृत्तिर अनुत्तमा शक्तिं न हापयिष्यन्ति ते काले परतिपूजिताः ॥ 7 ॥
अद्य चेयं महीकृत्स्ना दुर्यॊधन वशानुगा तवयि वयपाश्रयॊ ऽसमाकं तवयि भारः समाहितः तत्र कृत्यं परपश्यामि पराप्तकालम अरिंदम ॥ 8 ॥
कृष्णद्वैपायनात तात गृहीतॊपनिषन मया तया परयुक्तया सम्यग जगत सर्वं परकाशते तेन तवं बरह्मणा तात संयुक्तः सुसमाहितः ॥ 9 ॥
देवतानां यथाकालं परसादं परतिपालय तपसा यॊजयात्मानम उग्रेण भरतर्षभ ॥ 10 ॥
धनुष्मान कवची खद्गी मुनिः सारसमन्वितः न कस्य चिद ददन मार्गं गच्छ तातॊत्तरां दिशम इन्द्रे हय अस्त्राणि दिव्यानि समस्तानि धनंजय ॥ 11 ॥
वृत्राद भीतैस तदा देवैर बलम इन्द्रे समर्पितम तान्य एकस्थानि सर्वाणि ततस तवं परतिपत्स्यसे ॥ 12 ॥
शक्रम एव परपद्यस्व स ते ऽसत्राणि परदास्यति दीक्षितॊ ऽदयैव गच्छ तवं दरष्टुं देवं पुरंदरम ॥ 13 ॥
एवम उक्त्वा धर्मराजस तम अध्यापयत परभुः दीक्षितं विधिना तेन यतवाक्कायमानसम अनुजज्ञे ततॊ वीरं भराता भरातरम अग्रजः ॥ 14 ॥
निदेशाद धर्मराजस्य दरष्टुं देवं पुरंदरम धनुर गाण्डीवम आदाय तथाक्षय्यौ महेषुधी ॥ 15 ॥
कवची सतल तराणॊ बद्धगॊधाङ्गुलि तरवान हुत्वाग्निं बराह्मणान निष्कैः सवस्ति वाच्य महाभुजः ॥ 16 ॥
परातिष्ठत महाबाहुः परगृहीतशरासनः वधाय धार्तराष्ट्राणां निःश्वस्यॊर्ध्वम उदीक्ष्य च ॥ 17 ॥
तं दृष्ट्वा तत्र कौन्तेयं परगृहीतशरासनम अब्रुवन बराह्मणाः सिद्धा भूतान्य अन्तर्हितानि च कषिप्रं पराप्नुहि कौन्तेय मनसा यद यद इच्छसि ॥ 18 ॥
तं सिंहम इव गच्छन्तं शालस्कन्धॊरुम अर्जुनम मनांस्य आदाय सर्वेषां कृट्णा वचनम अब्रवीत ॥ 19 ॥
यत ते कुन्ती महाबाहॊ जातस्यैच्छद धनंजय तत ते ऽसतु सर्वं कौन्तेय याथा च सवयम इच्छसि ॥ 20 ॥
मास्माकं कषत्रियकुले जन्म कश चिद अवाप्नुयात बराह्मणेभ्यॊ नमॊ नित्यं येषां युद्धे न जीविका ॥ 21 ॥
नूनं ते भरातरः सर्वे तवत कथाभिः परजागरे रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥ 22 ॥
नैव नः पार्थ भॊगेषु न धने नॊत जीविते तुष्टिर बुद्धिर भवित्री वा तवयि दीर्घप्रवासिनि ॥ 23 ॥
तवयि नः पार्थ सर्वेषां सुखदुःखे समाहिते जीवितं मरणं चैव राज्यम ऐश्वर्यम एव च आपृष्टॊ मे ऽसि कौन्तेय सवस्ति पराप्नुहि पाण्डव ॥ 24 ॥
नमॊ धात्रे विधात्रे च सवस्ति गच्छ हय अनामयम सवस्ति ते ऽसव आन्तरिक्षेभ्यः पार्थिवेभ्यश च भारत दिव्येभ्यश चैव भूतेभ्यॊ ये चान्ये परिपन्थिनः ॥ 25 ॥
ततः परदक्षिणं कृत्वा भरातॄन धौम्यं च पाण्डवः परातिष्ठत महाबाहुः परगृह्य रुचिरं धनुः ॥ 26 ॥
तस्य मार्गाद अपाक्रामन सर्वभूतानि गच्छतः युक्तस्यैन्द्रेण यॊगेन पराक्रान्तस्य शुष्मिणः ॥ 27 ॥
सॊ ऽगच्छत पर्वतं पुण्यम एकाह्नैव महामनाः मनॊजव गतिर भूत्वा यॊगयुक्तॊ यथानिलः ॥ 28 ॥
हिमवन्तम अतिक्रम्य गन्धमादनम एव च अत्यक्रामत स दुर्गाणि दिवारात्रम अतन्द्रितः ॥ 29 ॥
इन्द्र कीलं समासाद्य ततॊ ऽतिष्ठद धनंजयः अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस तदा ॥ 30 ॥
ततॊ ऽपश्यत सव्यसाची वृक्षमूले तपस्विनम बराह्म्या शरिया दीप्यमानं पिङ्गलं जटिलं कृशम ॥ 31 ॥
सॊ ऽबरवीद अर्जुनं तत्र सथितं दृष्ट्वा महातपाः कस तवं तातेह संप्राप्तॊ धनुष्मान कवची शरी निबद्धासि तलत्राणः कषत्रधर्मम अनुव्रतः ॥ 32 ॥
नेह शस्त्रेण कर्तव्यं शान्तानाम अयम आलयः विनीतक्रॊधहर्षाणां बराह्मणानां तपस्विनाम ॥ 33 ॥
नेहास्ति धनुषा कार्यं न संग्रामेण कर्हि चित निक्षिपैतद धनुस तात पराप्तॊ ऽसि परमां गतिम ॥ 34 ॥
इत्य अनन्तौजसं वीरं यथा चान्यं पृथग्जनम तथा वाचन्म अथाभीक्ष्णं बराह्मणॊ ऽरजुनम अब्रवीत न चैनं चालयाम आस धैर्यात सुदृढ निश्चयम ॥ 35 ॥
तम उवाच ततः परीतः स दविजः परहसन्न इव वरं वृणीष्व भद्रं ते शक्रॊ ऽहम अरिसूदनः ॥ 36 ॥
एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः पराञ्जलिः परणतॊ भूत्वा शूरः कुलकुलॊद्वहः ॥ 37 ॥
ईप्सितॊ हय एष मे कामॊ वरं चैनं परयच्छ मे तवत्तॊ ऽदय भगवन्न अस्त्रं कृत्स्नम इच्छामि वेदितुम ॥ 38 ॥
परत्युवाच महेन्द्रस तं परीतात्मा परहसन्न इव इह पराप्तस्य किं कार्यम अस्त्रैस तव धनंजय कामान वृणीष्व लॊकांश च पराप्तॊ ऽसि परमां गतिम ॥ 39 ॥
एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः न लॊकान न पुनः कामान न देवत्वं कुतः सुखम ॥ 40 ॥
न च सर्वामरैश्वर्यं कामये तरिदशाधिप भरातॄंस तान विपिने तयक्त्वा वैरम अप्रतियात्य च अकीर्तिं सर्वलॊकेषु गच्छेयं शाश्वतीः समाः ॥ 41 ॥
एवम उक्तः परत्युवाच वृत्रहा पाण्डुनन्दनम सान्त्वयञ शलक्ष्णया वाचा सर्वलॊकनमस्कृतः ॥ 42 ॥
यदा दरक्ष्यसि भूतेशं तर्यक्षं शूलधरं शिवम तदा दातास्मि ते तात दिव्यान्य अस्त्राणि सर्वशः ॥ 43 ॥
करियतां दर्शने यत्नॊ देवस्य परमेष्ठिनः दर्शनात तस्य कौन्तेय संसिद्धः सवर्गम एष्यसि ॥ 44 ॥
इत्य उक्त्वा फल्गुनं शक्रॊ जगामादर्शनं ततः अर्जुनॊ ऽपय अथ तत्रैव तस्थौ यॊगसमन्वितः ॥ 45 ॥
वनपर्व · Vana Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39