[वै] भीमसेनवचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ॥ 1 ॥
स मुहूर्तम इव धयात्वा विनिश्चित्येति कृत्यताम भीमसेनम इदं वाक्यम अपदान्तरम अब्रवीत ॥ 2 ॥
एवम एतन महाबाहॊ यथा वदसि भारत इदम अन्यत समाधत्स्व वाक्यं मे वाक्यकॊविद ॥ 3 ॥
महापापानि कर्माणि यानि केवलसाहसात आरभ्यन्ते भीमसेन वयथन्ते तानि भारत ॥ 4 ॥
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते सिध्यन्त्य अर्था महाबाहॊ दैवं चात्र परदक्षिणम ॥ 5 ॥
तवं तु केवलचापल्याद बलदर्पॊच्छ्रितः सवयम आरब्धव्यम इदं कर्म मन्यसे शृणु तत्र मे ॥ 6 ॥
भूरिश्रवाः शलश चैव जलसंधश च वीर्यवान भीष्मॊ दरॊणश च कर्णश च दरॊणपुत्रश च वीर्यवान ॥ 7 ॥
धार्तराष्ट्रा दुराधर्षा दुर्यॊधन पुरॊगमाः सर्व एव कृतास्त्राश च सततं चाततायिनः ॥ 8 ॥
राजानः पार्थिवाश चैव ये ऽसमाभिर उपतापिताः संश्रिताः कौरवं पक्षं जातस्नेहाश च सांप्रतम ॥ 9 ॥
दुर्यॊधन हिते युक्ता न तथास्मासु भारत पूर्णकॊशा बलॊपेताः परयतिष्यन्ति रक्षणे ॥ 10 ॥
सर्वे कौरव सैन्यस्य सपुत्रामात्यसैनिकाः संविभक्ता हि मात्राभिर भॊगैर अपि च सर्वशः ॥ 11 ॥
दुर्यॊधनेन ते वीरा मानिताश च विशेषतः पराणांस तयक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः ॥ 12 ॥
समा यद्य अपि भीष्मस्य वृत्तिर अस्मासु तेषु च दरॊणस्य च महाबाहॊ कृपस्य च महात्मनः ॥ 13 ॥
अवश्यं राजपिण्डस तैर निर्वेश्य इति मे मतिः तस्मात तयक्ष्यन्ति संग्रामे पराणान अपि सुदुस्त्यजान ॥ 14 ॥
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः अजेयाश चेति मे बुद्धिर अपि देवैः सवासवैः ॥ 15 ॥
अमर्षी नित्यसंहृष्टस तत्र कर्णॊ महारथः सर्वास्त्रविद अनाधृष्य अभेद्यकवचावृतः ॥ 16 ॥
अनिर्जित्य रणे सर्वान एतान पुरुषसत्तमान अशक्यॊ हय असहायेन हन्तुं दुर्यॊधनस तवया ॥ 17 ॥
न निद्राम अधिगच्छामि चिन्तयानॊ वृकॊदर अति सर्वान धनुर गराहान सूतपुत्रस्य लाघवम ॥ 18 ॥
एतद वचनम आज्ञाय भीमसेनॊ ऽतयमर्षणः बभूव विमनास तरस्तॊ न चैवॊवाच किं चन ॥ 19 ॥
तयॊः संवदतॊर एवं तदा पाण्डवयॊर दवयॊः आजगाम महायॊगी वयासः सत्यवती सुतः ॥ 20 ॥
सॊ ऽभिगम्य यथान्यायं पाण्डवैः परतिपूजितः युधिष्ठिरम इदं वाक्यम उवाच वदतां वरः ॥ 21 ॥
युधिष्ठिर महाबाहॊ वेद्मि ते हृदि मानसम मनीषया ततः कषिप्रम आगतॊ ऽसमि नरर्षभ ॥ 22 ॥
भीष्माद दरॊणात कृपात कर्णाद दरॊणपुत्राच च भारत यत ते भयम अमित्रघ्न हृदि संपरिवर्तते ॥ 23 ॥
तत ते ऽहं नाशयिष्यामि विधिदृष्टेन हेतुना तच छरुत्वा धृतिम आस्थाय कर्मणा परतिपादय ॥ 24 ॥
तत एकान्तम उन्नीय पाराशर्यॊ युधिष्ठिरम अब्रवीद उपपन्नार्थम इदं वाक्यविशारदः ॥ 25 ॥
शरेयसस ते परः कालः पराप्तॊ भरतसत्तम येनाभिभविता शत्रून रणे पार्थॊ धनंजयः ॥ 26 ॥
गृहाणेमां मया परॊक्तां सिद्धिं मूर्तिमतीम इव विद्यां परतिस्मृतिं नाम परपन्नाय बरवीमि ते याम अवाप्य महाबाहुर अर्जुनः साधयिष्यति ॥ 27 ॥
अस्त्रहेतॊर महेन्द्रं च रुद्रं चैवाभिगच्छतु वरुणं च धनेशं च धर्मराजं च पाण्डव शक्तॊ हय एष सुरान दरष्टुं तपसा विक्रमेण च ॥ 28 ॥
ऋषिर एष महातेजा नारायण सहायवान पुराणः शाश्वतॊ देवॊ विष्णॊर अंशः सनातनः ॥ 29 ॥
अस्त्राणीन्द्राच च रुद्राच च लॊकपालेभ्य एव च समादाय महाबाहुर महत कर्म करिष्यति ॥ 30 ॥
वदाद अस्माच च कौन्तेय वनम अन्यद विचिन्त्यताम निवासार्थाय यद युक्तं भवेद वः पृथिवीपते ॥ 31 ॥
एकत्र चिरवासॊ हि न परीतिजननॊ भवेत तापसानां च शान्तानां भवेद उद्वेग कारकः ॥ 32 ॥
मृगाणाम उपयॊगश च वीरुद ओषधिसंक्षयः विभर्षि हि बहून विप्रान वेदवेदाङ्गपारगान ॥ 33 ॥
एवम उक्त्वा परपन्नाय शुचये भगवान परभुः परॊवाच यॊगतत्त्वज्ञॊ यॊगविद्याम अनुत्तमाम ॥ 34 ॥
धर्मराज्ञे तदा धीमान वयासः सत्यवती सुतः अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ 35 ॥
युधिष्ठिरस तु धर्मात्मा तद बरह्म मनसा यतः धारयाम आस मेधावी काले काले समब्भ्यसन ॥ 36 ॥
स वयासवाक्यमुदितॊ वनाद दवैतवनात ततः ययौ सरस्वती तीरे काम्यकं नाम काननम ॥ 37 ॥
तम अन्वयुर महाराज शिक्षा कषरविदस तथा बराह्मणास तपसा युक्ता देवेन्द्रम ऋषयॊ यथा ॥ 38 ॥
ततः काम्यकम आसाद्य पुनस ते भरतर्षभाः नयविशन्त महात्मानः सामात्याः सपदानुगाः ॥ 39 ॥
तत्र ते नयवसन राजन कं चित कालं मनस्विनः धनुर्वेद परा वीरा शृण्वाना वेदम उत्तमम ॥ 40 ॥
चरन्तॊ मृगयां नित्यं शुद्धैर बाणैर मृगार्थिनः पितृदैवतविप्रेभ्यॊ निर्वपन्तॊ यथाविधि ॥ 41 ॥
वनपर्व · Vana Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38