[भि] संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा अनन्तेनाप्रमेयेन सरॊतसा सर्वहारिणा ॥ 1 ॥
परत्यक्षं मन्यसे कालं मर्त्यः सन कालबन्धनः फेनधर्मा महाराज फलधर्मा तथैव च ॥ 2 ॥
निमेषाद अपि कौन्तेय यस्यायुर अपचीयते सूच्येवाञ्जन चूर्णस्य किम इति परतिपालयेत ॥ 3 ॥
यॊ नूनम अमितायुः सयाद अथ वापि परमाणवित स कालं वै परतीक्षेत सर्वप्रत्यक्षदर्शिवान ॥ 4 ॥
परतीक्षमाणान कालॊ नः समा राजंस तरयॊ दश आयुषॊ ऽपचयं कृत्वा मरणायॊपनेष्यति ॥ 5 ॥
शरीरिणां हि मरणं शरीरे नित्यम आश्रितम पराग एव मरणात तस्माद राज्यायैव घटामहे ॥ 6 ॥
यॊ न याति परसंख्यानम अस्पष्टॊ भूमिवर्धनः अयातयित्वा वैराणि सॊ ऽवसीदति गौर इव ॥ 7 ॥
यॊ न यातयते वैरम अल्पसत्त्वॊद्यमः पुमान अफलं तस्य जन्माहं मन्ये दुर्जात जायिनः ॥ 8 ॥
हैरण्यौ भवतॊ बाहू शरुतिर भवति पार्थिव हत्वा दविषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसुः ॥ 9 ॥
हत्वा चेत पुरुषॊ राजन निकर्तारम अरिंदम अह्नाय नरकं गच्छेत सवर्गेणास्य स संमितः ॥ 10 ॥
अमर्षजॊ हि संतापः पावकाद दीप्तिमत्तरः येनाहम अभिसंतप्तॊ न नक्तं न दिवा शये ॥ 11 ॥
अयं च पार्थॊ बीभत्सुर वरिष्ठॊ जया विकर्षणे आस्ते परमसंतप्तॊ नूनं सिंह इवाशये ॥ 12 ॥
यॊ ऽयम एकॊ ऽभिमनुते सर्वाँल लॊके धनुर्भृतः सॊ ऽयम आत्मजम ऊष्माणं महाहस्तीव यच्छति ॥ 13 ॥
नकुलः सहदेवश च वृद्धा माता च वीरसूः तवैव परियम इच्छन्त आसते जड मूकवत ॥ 14 ॥
सवे ते परियम इच्छन्ति बन्धवाः सह सृञ्जयैः अहम एकॊ ऽभिसंतप्तॊ माता च परतिविन्ध्यतः ॥ 15 ॥
परियम एव तु सर्वेषां यद बरवीम्य उत किं चन सर्वे ही वयसनं पराप्ताः सर्वे युद्धाभिनन्दिनः ॥ 16 ॥
नेतः पापीयसी का चिद आपद राजन भविष्यति यन नॊ नीचैर अल्पबलै राज्यम आच्छिद्य भुज्यते ॥ 17 ॥
शीलदॊषाद घृणाविष्ट आनृशंस्यात परंतप कलेशांस तितिक्षसे राजन नान्यः कश चित परशंसति ॥ 18 ॥
घृणी बराह्मणरूपॊ ऽसि कथं कषत्रे अजायथाः अस्यां हि यॊनौ जायन्ते परायशः करूर बुद्धयः ॥ 19 ॥
अश्रौषीस तवं राजधर्मान यथा वै मनुर अब्रवीत करूरान निकृतिसंयुक्तान विहितान अशमात्मकान ॥ 20 ॥
कर्तव्ये पुरुषव्याघ्र किम आस्से पीठ सर्पवत बुद्ध्या वीर्येण संयुक्तः शरुतेनाभिजनेन च ॥ 21 ॥
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम छन्नम इच्छसि कौन्तेय यॊ ऽसमान संवर्तुम इच्छसि ॥ 22 ॥
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च दिवीव पार्थ सूर्येण न शक्या चरितुं तवया ॥ 23 ॥
बृहच छाल इवानूपे शाखा पुष्पपलाशवान हस्ती शवेत इवाज्ञातः कथं जिष्णुश चरिष्यति ॥ 24 ॥
इमौ च सिंहसंकाशौ भरातरौ सहितौ शिशू नकुलः सहदेवश च कथं पार्थ चरिष्यतः ॥ 25 ॥
पुण्यकीर्ती राजपुत्री दरौपदी वीरसूर इयम विश्रुता कथम अज्ञाता कृष्णा पार्थ चरिश्यति ॥ 26 ॥
मां चापि राजञ जानन्ति आकुमारम इमाः परजाः अज्ञातचर्यां पश्यामि मेरॊर इव निगूहनम ॥ 27 ॥
तथैव बहवॊ ऽसमाभी राष्ट्रेभ्यॊ विप्रवासिताः राजानॊ राजपुत्राश च धृतराष्ट्रम अनुव्रताः ॥ 28 ॥
न हि ते ऽपय उपशाम्यन्ति निकृतानां निराकृताः अवश्यं तैर निकर्तव्यम अस्माकं तत्प्रियैषिभिः ॥ 29 ॥
ते ऽपय अस्मासु परयुञ्जीरन परच्छन्नान सुबहूञ जनान आचक्षीरंश च नॊ जञात्वा तन नः सयात सुमहद भयम ॥ 30 ॥
अस्माभिर उषिताः सम्यग वने मासास तरयॊदश परिमाणेन तान पश्य तावतः परिवत्सरान ॥ 31 ॥
अस्ति मासः परतिनिधिर यथा पराहुर मनीषिणः पूतिकान इव सॊमस्य तथेदं करियताम इति ॥ 32 ॥
अथ वानडुहे राजन साधवे साधु वाहिने सौहित्य दानाद एकस्माद एनसः परतिमुच्यते ॥ 33 ॥
तस्माच छत्रुवधे राजन करियतां निश्चयस तवया कषत्रियस्य तु सर्वस्य नान्यॊ धर्मॊ ऽसति संयुगात ॥ 34 ॥
वनपर्व · Vana Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37