धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 35

  1. [य] असंशयं भारत सत्यम एतद; यन मा तुदन वाक्यशल्यैः कषिणॊषि न तवा विगर्हे परतिकूलम एतन; ममानयाद धि वयसनं व आगात ॥ 1 ॥

  2. अहं हय अक्षान अन्वपद्यं जिहीर्षन; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात तन मा शठः कितव्वः परत्यदेवीत; सुयॊधनार्थं सुबलस्य पुत्रः ॥ 2 ॥

  3. महामायः शकुनिः पार्वतीयः; सदा सभायां परवपन्न अक्षपूगान अमायिनं मायया परत्यदेवीत; ततॊ ऽपश्यं वृजिनं भीमसेन ॥ 3 ॥

  4. अक्षान हि दृष्ट्वा शकुनेर यथावत; कामानुलॊमान अयुजॊ युजश च शक्यं नियन्तुम अभविष्यद आत्मा; मन्युस तु हन्ति पुरुषस्य धैर्यम ॥ 4 ॥

  5. यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद भवितव्यम आसीत ॥ 5 ॥

  6. स नॊ राजा धृतराष्ट्रस्य पुत्रॊ; नयपातयद वयसने राज्यम इच्छन दास्यं च नॊ ऽगमयद भीमसेन; यत्राभवच छरणं दरौपदी नः ॥ 6 ॥

  7. तवं चापि तद वेत्थ धनंजयश च; पुनर्द्यूतायागतानां सभां नः यन माब्रवीद धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम ॥ 7 ॥

  8. वने समा दवादश राजपुत्र; यथाकामं विदितम अजातशत्रॊ अथापरं चाविदितं चरेथाः; सर्वैः सह भरातृभिश छद्म गूढः ॥ 8 ॥

  9. तवां चेच छरुत्वा तात तथा चरन्तम; अवभॊत्स्यन्ते भरतानां चराः सम अन्यांश चरेथास तावतॊ ऽबदांस ततस तवं; निश्चित्य तत परतिजानीहि पार्थ ॥ 9 ॥

  10. चरैश चेन नॊ ऽविदितः कालम एतं; युक्तॊ राजन मॊहयित्वा मदीयान बरवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ॥ 10 ॥

  11. वयं चैवं भरातरः सर्व एव; तवया जिताः कालम अपास्य भॊगान वसेम इत्य आह पुरा स राजा; मध्ये कुरूणां स मयॊक्तस तथेति ॥ 11 ॥

  12. तत्र दयूतम अभवन नॊ जघन्यं; तस्मिञ जिताः परव्रजिताश च सर्वे इत्थं च देशान अनुसंचरामॊ; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ 12 ॥

  13. सुयॊधनश चापि न शान्तिम इच्छन; भूयः स मन्यॊर वशम अन्वगच्छत उद्यॊजायाम आस कुरूंश च सर्वान; ये चास्य के चिद वशम अन्वगच्छन ॥ 13 ॥

  14. तं संधिम आस्थाय सतां सकाशे; कॊ नाम जह्याद इह राज्यहेतॊः आर्यस्य मन्ये मरणाद गरीयॊ; यद धर्मम उत्क्रम्य महीं परशिष्यात ॥ 14 ॥

  15. तदैव चेद वीरकर्माकरिष्यॊ; यदा दयूते परिघं पर्यमृक्षः बाहू दिधक्षन वारितः फल्गुनेन; किं दुष्कृतं भीम तदाब्भविष्यत ॥ 15 ॥

  16. पराग एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम आविदानः पराप्तं तु कालं तव अभिपद्य पश्चाद; इं माम इदानीम अतिवेलम आत्थ ॥ 16 ॥

  17. भूयॊ ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा यद याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत कषान्तम इति सम भीम ॥ 17 ॥

  18. न तव अद्य शक्यं भरत परवीर; कृत्वा यद उक्तं कुरुवीरमध्ये कालं परतीक्षस्व सुखॊदयस्य; पङ्क्तिं फलानाम इव बीजवापः ॥ 18 ॥

  19. यदा हि पूर्वं निकृतॊ निकृत्या; वैरं सपुष्पं सफलं विदित्वा महागुणं हरति हि पौरुषेण; तदा वीरॊ जीवति जीवलॊके ॥ 19 ॥

  20. शरियं च लॊके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते मित्राणि चैनम अतिरागाद भजन्ते; देवा इवेन्द्रम अनुजीवन्ति चैनम ॥ 20 ॥

  21. मम परतिज्ञां च निबॊध सत्यां; वृणे धर्मम अमृताज जीविताच च राज्यं च पुत्राश च यशॊ धनं च; सर्वं न सत्यस्य कलाम उपैति ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 36

Previous: अध्याय 34