धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 34

  1. [वै] याज्ञसेन्या वचः शरुत्वा भीमसेनॊ ऽतयमर्षणः निःश्वसन्न उपसंगम्य करुद्धॊ राजानम अब्रवीत ॥ 1 ॥

  2. राज्यस्य पदवीं धर्म्यां वरज सत्पुरुषॊचिताम धर्मकामार्थ हीनानां किं नॊ वस्तुं तपॊवने ॥ 2 ॥

  3. नैव धर्मेण तद राज्यं नार्जवेन न चौजसा अक्षकूटम अधिष्ठाय हृतं दुर्यॊधनेन नः ॥ 3 ॥

  4. गॊमायुनेव सिंहानां दुर्बलेन बलीयसाम आमिषं विघसाशेन तद्वद राज्यं हि नॊ हृतम ॥ 4 ॥

  5. धर्मलेश परतिच्छन्नः परभवं धर्मकामयॊः अर्थम उत्सृज्य किं राजन दुर्गेषु परितप्यसे ॥ 5 ॥

  6. भवतॊ ऽनुविधानेन राज्यं नः पश्यतां हृतम अहार्यम अपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ 6 ॥

  7. कुणीनाम इव बिल्वानि पङ्गूनाम इव धेनवः हृतम ऐश्वर्यम अस्माकं जीवतां भवतः कृते ॥ 7 ॥

  8. भवतः परियम इत्य एवं महद वयसनम ईदृशम धर्मकामे परतीतस्य परतिपन्नाः सम भारत ॥ 8 ॥

  9. कर्शयामः सवमित्राणि नन्दयामश च शात्रवान आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥ 9 ॥

  10. यद वयं न तदैवैतान धार्तराष्ट्रान निहन्महि भवतः शास्त्रम आदाय तन नस तपति दुष्कृतम ॥ 10 ॥

  11. अथैनाम अन्ववेक्षस्व मृगचर्याम इवात्मनः अवीराचरितां राजन न बलस्थैर निषेविताम ॥ 11 ॥

  12. यां न कृष्णॊ न बीभत्सुर नाभिमन्युर न सृञ्जयः न चाहम अभिनन्दामि न च माद्री सुताव उभौ ॥ 12 ॥

  13. भवान धर्मॊ धर्म इति सततं वरतकर्शितः कच चिद राजन न निर्वेदाद आपन्नः कलीब जीविकाम ॥ 13 ॥

  14. दुर्मनुष्यां हि निर्वेदम अफलं सर्वघातिनाम अशक्ताः शरियम आहर्तुम आत्मनः कुर्वते परियम ॥ 14 ॥

  15. स भवान दृष्टिमाञ शक्तः पश्यन्न आत्मनि पौरुषम आनृशंस्य परॊ राजन नानर्थम अवबुध्यसे ॥ 15 ॥

  16. अस्मान अमी धार्तराष्ट्राः कषममाणान अलं सतः अशक्तान एव मन्यन्ते तद्दुःखं नाहवे वधः ॥ 16 ॥

  17. तत्र चेद युध्यमानानाम अजिह्मम अनिवर्तिनाम सर्वशॊ हि वधः शरेयान परेत्य लॊकाँल लभेमहि ॥ 17 ॥

  18. अथ वा वयम एवैतान निहत्य भरतर्षभ आददीमहि गां सर्वां तथापि शरेय एव नः ॥ 18 ॥

  19. सर्वथा कार्यम एतन नः सवधर्मम अनुतिष्ठताम काङ्क्षतां विपुलां कीर्तिं वैरं परतिचिकीर्षताम ॥ 19 ॥

  20. आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे अन्यैर अपहृते राज्ये परशंसैव न गर्हणा ॥ 20 ॥

  21. कर्शनार्थॊ हि यॊ धर्मॊ मित्राणाम आत्मनस तथा वयसनं नाम तद राजन न सा धर्मः कुधर्म तत ॥ 21 ॥

  22. सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम जहतस तात धर्मार्थौ परेतं दुःखसुखे यथा ॥ 22 ॥

  23. यस्य धर्मॊ हि धर्मार्थं कलेशभान न स पण्डितः न स धर्मस्य वेदार्थं सूर्यस्यान्धः परभाम इव ॥ 23 ॥

  24. यस्य चार्थार्थम एवार्थः स च नार्थस्य कॊविदः रक्षते भृतकॊ ऽरण्यं यथा सयात तादृग एव सः ॥ 24 ॥

  25. अतिवेलं हि यॊ ऽरथार्थी नेतराव अनुतिष्ठति स वध्यः सर्वभूतानां बरह्महेव जुगुप्सितः ॥ 25 ॥

  26. सततं यश च कामार्थी नेतराव अनुतिष्ठति मित्राणि तस्य नश्यन्ति धर्मार्थाब्भ्यां च हीयते ॥ 26 ॥

  27. तस्य धर्मार्थहीनस्य कामान्ते निधनं धरुवम कामतॊ रममाणस्य मीनस्येवाम्भसः कषये ॥ 27 ॥

  28. तस्माद धर्मार्थयॊर नित्यं न परमाद्यन्ति पण्डिताः परकृतिः सा हि कामस्य पावकस्यारणिर यथा ॥ 28 ॥

  29. सर्वथा धर्ममूलॊ ऽरथॊ धर्मश चार्थपरिग्रहः इतरेतर यॊनी तौ विद्धि मेघॊदधी यथा ॥ 29 ॥

  30. दरव्यार्थ सपर्शसंयॊगे या परीतिर उपजायते स कामश चित्तसंकल्पः शरीरं नास्य विद्यते ॥ 30 ॥

  31. अर्थार्थी पुरुषॊ राजन बृहन्तं धर्मम ऋच्छति अर्थम ऋच्छति कामार्थी न कामाद अन्यम ऋच्छती ॥ 31 ॥

  32. न हि कामेन कामॊ ऽनयः साध्यते फलम एव तत उपयॊगात फलस्येव काष्ठाद भस्मेव पण्डितः ॥ 32 ॥

  33. इमाञ शकुनिकान राजन हन्ति वैतंसिकॊ यथा एतद रूपम अधर्मस्य भूतेषु च विहिंसताम ॥ 33 ॥

  34. कामाल लॊभाच च धर्मस्य परवृत्तिं यॊ न पश्यति स वध्यः सर्वभूतानां परेत्य चेह च दुर्मतिः ॥ 34 ॥

  35. वयक्तं ते विदितॊ राजन्न अर्थॊ दरव्यपरिग्रहः परकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम ॥ 35 ॥

  36. तस्य नाशं विनाशं वा जरया मरणेन वा अनर्थम इति मन्यन्ते सॊ ऽयम अस्मासु वर्तते ॥ 36 ॥

  37. इन्द्रियाणां च पञ्चानां मनसॊ हृदयस्य च विषये वर्तमानानां या परीतिर उपजायते स काम इति मे बुद्धिः कर्मणां फलम उत्तमम ॥ 37 ॥

  38. एवम एव पृथग दृष्ट्वा धर्मार्थौ कामम एव च न धर्मपर एव सयान नाथार्थ परमॊ नरः न कामपरमॊ वा सयात सर्वान सेवेत सर्वदा ॥ 38 ॥

  39. धर्मं पूर्वं धनं मध्ये जघन्ये कामम आचरेत अहन्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः ॥ 39 ॥

  40. कामं पूर्वं धनं मध्ये जघन्ये धर्मम आचरेत वयस्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः ॥ 40 ॥

  41. धर्मं चार्थं च कामं च यथावद वदतां वर विभज्य काले कालज्ञः सर्वान सेवेत पण्डितः ॥ 41 ॥

  42. मॊक्षॊ वा परमं शरेय एष राजन सुखार्थिनाम पराप्तिर वा बुद्धिम आस्थाय सॊपायं कुरुनन्दन ॥ 42 ॥

  43. तद वाशु करियतां राजन पराप्तिर वाप्य अधिगम्यताम जीवितं हय आतुरस्येव दुःखम अन्तरवर्तिनः ॥ 43 ॥

  44. विदितश चैव ते धर्मः सततं चरितश च ते जानते तवयि शंसन्ति सुहृदः कर्मचॊदनाम ॥ 44 ॥

  45. दानं यज्ञं सतां पूजा वेद धारणम आर्जवम एष धर्मः परॊ राजन फलवान परेत्य चेह च ॥ 45 ॥

  46. एष नार्थविहीनेन शक्यॊ राजन निषेवितुम अखिलाः पुरुषव्याघ्र गुणाः सयुर यद्य अपीतरे ॥ 46 ॥

  47. धर्ममूलं जगद राजन नान्यद धर्माद विशिष्यते धर्मश चार्थेन महता शक्यॊ राजन निषेवितुम ॥ 47 ॥

  48. न चार्थॊ भैक्ष चर्येण नापि कलैब्येन कर्हि चित वेत्तुं शक्यः सदा राजन केवलं धर्मबुद्धिना ॥ 48 ॥

  49. परतिषिद्धा हि ते याच्ञा यया सिध्यति वै दविजः तेजसैवार्थ लिप्सायां यतस्व पुरुषर्षभ ॥ 49 ॥

  50. भैक्ष चर्या न विहिता न च विट शूद्र जीविका कषत्रियस्य विशेषेण धर्मस तु बलम औरसम ॥ 50 ॥

  51. उदारम एव विद्वांसॊ धर्मं पराहुर मनीषिणः उदारं परतिपद्यस्व नावरे सथातुम अर्हसि ॥ 51 ॥

  52. अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान सनातनान करूरकर्माभिजातॊ ऽसि यस्माद उद्विजते जनः ॥ 52 ॥

  53. परजापालनसंभूतं फलं तव न गर्हितम एष ते विहितॊ राजन धात्रा धर्मः सनातनः ॥ 53 ॥

  54. तस्माद विचलितः पार्थ लॊके हास्यं गमिष्यसि सवधर्माद धि मनुष्याणां चलनं न परशस्यते ॥ 54 ॥

  55. स कषात्रं हृदयं कृत्वा तयक्त्वेदं शिथिलं मनः वीर्यम आस्थाय कौन्तेय धुरम उद्वह धुर्यवत ॥ 55 ॥

  56. न हि केवलधर्मात्मा पृथिवीं जातु कश चन पार्थिवॊ वयजयद राजन न भूतिं न पुनः शरियम ॥ 56 ॥

  57. जिह्वां दत्त्वा बहूनां हि कषुद्राणां लुब्ध चेतसाम निकृत्या लभते राज्यम आहारम इव शल्यकः ॥ 57 ॥

  58. भरातरः पूर्वजाताश च सुसमृद्धाश च सर्वशः निकृत्या निर्जिता देवैर असुराः पाण्डवर्षभ ॥ 58 ॥

  59. एवं बलवतः सर्वम इति बुद्ध्वा महीपते जहि शत्रून महाबाहॊ परां निकृतिम आस्थितः ॥ 59 ॥

  60. न हय अर्जुन समः कश चिद युधि यॊद्धा धनुर्धरः भविता वा पुमान कश चिन मत्समॊ वा गदाधरः ॥ 60 ॥

  61. सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि न परमाणेन नॊत्साहात सत्त्वस्थॊ भव पाण्डव ॥ 61 ॥

  62. सत्त्वं हि मूलम अर्थस्य वितथं यद अयॊ ऽनयथा न तु परसक्तं भवति वृक्षच छायेव हैमनी ॥ 62 ॥

  63. अर्थत्यागॊ हि कार्यः सयाद अर्थं शरेयांसम इच्छता बीजौपम्येन कौन्तेय मा ते भूद अत्र संशयः ॥ 63 ॥

  64. अर्थेन तु समॊ ऽनर्थॊ यत्र लभ्येत नॊदयः न तत्र विपणः कार्यः खरकण्डूयितं हि तत ॥ 64 ॥

  65. एवम एव मनुष्येन्द्र धर्मं तयक्त्वाल्पकं नरः बृहन्तं धर्मम आप्नॊति स बुद्ध इति निश्चितः ॥ 65 ॥

  66. अमित्रं मित्रसंपन्नं मित्रैर भिन्दन्ति पण्डिताः भिन्नैर मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ 66 ॥

  67. सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि नॊद्यमेन न हॊत्राब्भिः सर्वाः सवीकुरुते परजाः ॥ 67 ॥

  68. सर्वथा संहतैर एव दुर्बलैर बलवान अपि अमित्रः शक्यते हन्तुं मधुहा भरमरैर इव ॥ 68 ॥

  69. यथा राजन परजाः सर्वाः सूर्यः पाति गभस्तिभिः अत्ति चैव तथैव तवं सवितुः सदृशॊ भव ॥ 69 ॥

  70. एतद धयपि तपॊ राजन पुराणम इति नः शरुतम विधिना पालनं भूमेर यत्कृतं नः पितामहैः ॥ 70 ॥

  71. अपेयात किल भाः सूर्याल लक्ष्मीश चन्द्रमसस तथा इति लॊके वयवसितॊ दृष्ट्वेमां भवतॊ वयथाम ॥ 71 ॥

  72. भवतश च परशंसाभिर निन्दाभिर इतरस्य च कथा युक्ताः परिषदः पृथग राजन समागताः ॥ 72 ॥

  73. इदम अभ्यधिकं राजन बराह्मणा गुरवश च ते समेताः कथयन्तीह मुदिताः सत्यसंधताम ॥ 73 ॥

  74. यन न मॊहान न कार्पण्यान न लॊभान न भयाद अपि अनृतं किं चिद उक्तं ते न कामान नार्थकारणात ॥ 74 ॥

  75. यद एनः कुरुते किं चिद राजा भूमिम इवाप्नुवन सर्वं तन नुदते पश्चाद यज्ञैर विपुलदक्षिणैः ॥ 75 ॥

  76. बराह्मणेभ्यॊ ददद गरामान गाश च राजन सहस्रशः मुच्यते सर्वपापेभ्यस तमॊभ्य इव चन्द्रमाः ॥ 76 ॥

  77. पौरजानपदाः सर्वे परायशः कुरुनन्दन सवृद्धबालाः सहिताः शंसन्ति तवां युधिष्ठिर ॥ 77 ॥

  78. शवदृतौ कषीरम आसक्तं बरह्म वा वृषले यथा सत्यं सतेने बलं नार्यां राज्यं दुर्यॊधने तथा ॥ 78 ॥

  79. इति निर्वचनं लॊके चिरं चरति भारत अपि चैतत सत्रियॊ बालाः सवाध्यायम इव कुर्वते ॥ 79 ॥

  80. स भवान रथम आस्थाय सर्वॊपकरणान्वितम तवरमाणॊ ऽभिनिर्यातु चिरम अर्थॊपपादकम ॥ 80 ॥

  81. वाचयित्वा दविजश्रेष्ठान अद्यैव गजसाह्वयम अस्त्रविद्भिः परिवृतॊ भरातृभिर दृठ धन्विभिः आशीविषसमैर वीरैर मरुद्भिर इव वृत्रहा ॥ 81 ॥

  82. शरियम आदत्स्व कौन्तेय धार्तराष्ट्रान महाबल न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम ॥ 82 ॥

  83. सपर्शम आशीविषाभानां मर्त्यः कश चन संसहेत न स वीरॊ न मातङ्गॊ न सदश्वॊ ऽसति भारत ॥ 83 ॥

  84. यः सहेत गदा वेगं मम करुद्धस्य संयुगे सृञ्जयैः सह कैकेयैर वृष्णीनाम ऋषभेण च ॥ 84 ॥

  85. कथं सविद युधि कौन्तेय राज्यं न पराप्नुयामहे ॥ 85 ॥

Reach this point to mark the section finished.

Continue to अध्याय 35

Previous: अध्याय 33