[दरौ] नावमन्ये न गर्हे च धर्मं पार्थ कथं चन ईश्वरं कुत एवाहम अवमंस्ये परजापतिम ॥ 1 ॥
आर्ताहं परलपामीदम इति मां विद्धि भारत भूयश च विलपिष्यामि सुमनास तन निबॊध मे ॥ 2 ॥
कर्म खल्व इह कर्तव्यं जातेनामित्रकर्शन अकर्माणॊ हि जीवन्ति सथावरा नेतरे जनाः ॥ 3 ॥
आ मातृस्तन पानाच च यावच छय्यॊपसर्पणम जङ्गमाः कर्मणा वृत्तिम आप्नुवन्ति युधिष्ठिर ॥ 4 ॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ इच्छन्ति कर्मणा वृत्तिम अवाप्तुं परेत्य चेह च ॥ 5 ॥
उत्थानम अभिजानन्ति सर्वभूतानि भारत परत्यक्षं फलम अश्नन्ति कर्मणां लॊकसाक्षिकम ॥ 6 ॥
पश्यामि सवं समुत्थानम उपजीवन्ति जन्तवः अपि धाता विधाता च यथायम उदके बकः ॥ 7 ॥
सवकर्म कुरु मा गलासीः कर्मणा भव दंशितः कृत्यं हि यॊ ऽभिजानाति सहस्रे नास्ति सॊ ऽसति वा ॥ 8 ॥
तस्य चापि भवेत कार्यं विवृद्धौ रक्षणे तथा भक्ष्यमाणॊ हय अनावापः कषीयते हिमवान अपि ॥ 9 ॥
उत्सीदेरन परजाः सर्वा न कुर्युः कर्म चेद यदि अपि चाप्य अफलं कर्म पश्यामः कुर्वतॊ जनान नान्यथा हय अभिजानन्ति वृत्तिं लॊके कथं चन ॥ 10 ॥
यश च दिष्ट परॊ लॊके यश चायं हठ वादकः उभाव अपसदाव एतौ कर्म बुद्धिः परशस्यते ॥ 11 ॥
यॊ हि दिष्टम उपासीनॊ निर्विचेष्टः सुखं सवपेत अवसीदेत सुदुर्बुद्धिर आमॊ घट इवाम्भसि ॥ 12 ॥
तथैव हठ बुद्धिर यः शक्तः कर्मण्य अकर्मकृत आसीत नचिरं जीवेद अनाथ इव दुर्बलः ॥ 13 ॥
अकस्माद अपि यः कश चिद अर्थं पराप्नॊति पूरुषः तं हठेनेति मन्यन्ते स हि यत्नॊ न कस्य चित ॥ 14 ॥
यच चापि किं चित पुरुषॊ दिष्टं नाम लभत्य उत दैवेन विधिना पार्थ तद दैवम इति निश्चितम ॥ 15 ॥
यत सवयं कर्मणा किं चित फलम आप्नॊति पूरुषः परत्यक्षं चक्षुषा दृष्टं तत पौरुषम इति समृतम ॥ 16 ॥
सवभावतः परवृत्तॊ ऽनयः पराप्नॊत्य अर्थान अकारणात तत सवभावात्मकं विद्धि फलं पुरुषसत्तम ॥ 17 ॥
एवं हठाच च दैवाच च सवभावात कर्मणस तथा यानि पराप्नॊति पुरुषस तत फलं पूर्वकर्मणः ॥ 18 ॥
धातापि हि सवकर्मैव तैस तैर हेतुभिर ईश्वरः विदधाति विभज्येह फलं पूर्वकृतं नृणाम ॥ 19 ॥
यद धययं पुरुषं किं चित कुरुते वै शुभाशुभम तद धातृविहितं विद्धि पूर्वकर्मफलॊदयम ॥ 20 ॥
कारणं तस्य देहॊ ऽयं धातुः कर्मणि कर्मणि स यथा परेरयत्य एनं तथायं कुरुते ऽवशः ॥ 21 ॥
तेषु तेषु हि कृत्येषु विनियॊक्ता महेश्वरः सर्वभूतानि कौन्तेय कारयत्य अवशान्य अपि ॥ 22 ॥
मनसार्थान विनिश्चित्य पश्चात पराप्नॊति कर्मणा बुद्धिपूर्वं सवयं धीरः पुरुषस तत्र कारणम ॥ 23 ॥
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ अगार नगराणां हि सिद्धिः पुरुषहैतुकी ॥ 24 ॥
तिले तैलं गवि कषीरं काष्ठे पावकम अन्ततः धिया धिरॊ विजानीयाद उपायं चास्य सिद्धये ॥ 25 ॥
ततः परवर्तते पश्च्चात करणेष्व अस्य सिद्धये तां सिद्धिम उपजीवन्ति कर्मणाम इह जन्तवः ॥ 26 ॥
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम इदं तव अकुशलेनेति विशेषाद उपलभ्यते ॥ 27 ॥
इष्टापूर्तफलं न सयान न शिष्यॊ न गुरुर भवेत पुरुषः कर्म साध्येषु सयाच चेद अयम अकारणम ॥ 28 ॥
कर्तृत्वाद एव पुरुषः कर्मसिद्धौ परशस्यते असिद्धौ निन्द्यते चापि कर्म नाशः कथं तव इह ॥ 29 ॥
सर्वम एव हठेनैके दिष्टेनैके वदन्त्य उत पुरुषप्रयत्नजं के चित तरैधम एतन निरुच्यते ॥ 30 ॥
न चैवैतावता कायं मन्यन्त इति चापरे अस्ति सर्वम अदृश्यं तु दिष्टं चैव तथा हठः दृश्यते हि हठाच चैव दिष्टाच चार्थस्य संततिः ॥ 31 ॥
किं चिद दैवाद धठात किं चित किं चिद एव सवकर्मतः पुरुषः फलम आप्नॊति चतुर्थं नात्र कारणम कुशलाः परतिजानन्ति ये तत तव अविदुषॊ जनाः ॥ 32 ॥
तथैव धाता भूतानाम इष्टानिष्ट फलप्रदः यदि न सयान न भूतानां कृपणॊ नाम कश चन ॥ 33 ॥
यं यम अर्थम अभिप्रेप्सुः कुरुते कर्म पूरुषः तत तत सफलम एव सयाद यदि न सयात पुरा कृतम ॥ 34 ॥
तरिद्वाराम अर्थ सिद्धिं तु नानुपश्यन्ति ये नराः तथैवानर्थ सिद्धिं च यथा लॊकास तथैव ते ॥ 35 ॥
कर्तव्यं तव एव कर्मेति मनॊर एष विनिश्चयः एकान्तेन हय अनीहॊ ऽयं पराभवति पूरुषः ॥ 36 ॥
कुर्वतॊ हि भवत्य एव परायेणेह युधिष्ठिर एकान्तफलसिद्धिं तु न विन्दत्य अलसः कव चित ॥ 37 ॥
असंभवे तव अस्य हेतुः परायश्चित्तं तु लक्ष्यते कृते कर्मणि राजेन्द्र तथानृण्यम अवाप्यते ॥ 38 ॥
अलक्ष्मीर आविशत्य एनं शयानम अलसं नरम निःसंशयं फलं लब्ध्वा दक्षॊ भूतिम उपाश्नुते ॥ 39 ॥
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः धीरा नराः कर्म रता न तु निःसंशयं कव चित ॥ 40 ॥
एकान्तेन हय अनर्थॊ ऽयं वर्तते ऽसमासु सांप्रतम न तु निःसंशयं न सयात तवयि कर्मण्य अवस्थिते ॥ 41 ॥
अथ वा सिद्धिर एव सयान महिमा तु तथैव ते वृकॊदरस्य बीभत्सॊर भरात्रॊश च यमयॊर अपि ॥ 42 ॥
अन्येषां कर्म सफलम अस्माकम अपि वा पुनः विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम ॥ 43 ॥
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्य उत आस्ते ऽथ कर्षकस तूष्णीं पर्जन्यस तत्र कारणम ॥ 44 ॥
वृष्टिश चेन नानुगृह्णीयाद अनेनास तत्र कर्षकः यद अन्यः पुरुषः कुर्यात कृतं तत सकलं मया ॥ 45 ॥
तच चेद अफलम अस्माकं नापराधॊ ऽसति नः कव चित इति घॊरॊ ऽनववेक्ष्यैव नात्मानं तत्र गर्हयेत ॥ 46 ॥
कुर्वतॊ नार्थसिद्धिर मे भवतीति ह भारत निर्वेदॊ नात्र गन्तव्यॊ दवाव एतौ हय अस्य कर्मणः सिद्धिर वाप्य अथ वासिद्धिर अप्रवृत्तिर अतॊ ऽनयथा ॥ 47 ॥
बहूनां समवाये हि भावानां कर्म सिध्यति गुणाभावे फलं नयूनं भवत्य अफलम एव वा अनारम्भे तु न फलं न गुणॊ दृश्यते ऽचयुत ॥ 48 ॥
देशकालाव उपायांश च मङ्गलं सवस्ति वृद्धये युनक्ति मेधया धीरॊ यथाशक्ति यथाबलम ॥ 49 ॥
अप्रमत्तेन तत कार्यम उपदेष्टा पराक्रमः भूयिष्ठं कर्मयॊगेषु सर्व एव पराक्रमः ॥ 50 ॥
यं तु धीरॊ ऽनववेक्षेत शरेयांसं बहुभिर गुणैः साम्नैवार्थं ततॊ लिप्सेत कर्म चास्मै परयॊजयेत ॥ 51 ॥
वयसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर अपि सिन्धॊर गिरेर वापि किं पुनर मर्त्यधर्मिणः ॥ 52 ॥
उत्थान युक्तः सततं परेषाम अन्तरैषिणे आनृण्यम आप्नॊति नरः परस्यात्मन एव च ॥ 53 ॥
न चैवात्मावमन्तव्यः पुरुषेण कदा चन न हय आत्मपरिभूतस्य भूतिर भवति भारत ॥ 54 ॥
एवं संस्थितिका सिद्धिर इयं लॊकस्य भारत चित्रा सिद्धिगतिः परॊक्ता कालावस्था विभागतः ॥ 55 ॥
बराह्मणं मे पिता पूर्वं वासयाम आस पण्डितम सॊ ऽसमा अर्थम इमं पराह पित्रे मे भरतर्षभ ॥ 56 ॥
नीतिं बृहस्पतिप्रॊक्तां भरातॄन मे ऽगराहयत पुरा तेषां सांकथ्यम अश्रौषम अहम एतत तदा गृहे ॥ 57 ॥
स मां राजन कर्मवतीम आगताम आह सान्त्वयन शुश्रूषमाणाम आसीनां पितुर अङ्के युधिष्ठिर ॥ 58 ॥
वनपर्व · Vana Parva
अध्याय 33
Reach this point to mark the section finished.
Continue to अध्याय 34