धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 32

  1. [य] वल्गु चित्रपदं शलक्ष्णं याज्ञसेनि तवया वचः उक्तं तच छरुतम अस्माभिर नास्तिक्यं तु परभाषसे ॥ 1 ॥

  2. नाहं धर्मफलान्वेषी राजपुत्रि चराम्य उत ददामि देयम इत्य एव यजे यष्टव्यम इत्य उत ॥ 2 ॥

  3. अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत गृहान आवसता कृष्णे यथाशक्ति करॊमि तत ॥ 3 ॥

  4. धर्मं चरामि सुश्रॊणि न धर्मफलकारणात आगमान अनतिक्रम्य सतां वृत्तम अवेक्ष्य च धर्म एव मनः कृष्णे सवभावाच चैव मे धृतम ॥ 4 ॥

  5. न धर्मफलम आप्नॊति यॊ धर्मं दॊग्धुम इच्छति यश चैनं शङ्कते कृत्वा नास्तिक्यात पापचेतनः ॥ 5 ॥

  6. अतिवादान मदाच चैव मा धर्मम अतिशङ्किथाः धर्मातिशङ्की पुरुषस तिर्यग्गतिपरायणः ॥ 6 ॥

  7. धर्मॊ यस्यातिशङ्क्यः सयाद आर्षं वा दुर्बलात्मनः वेदाच छूद्र इवापेयात स लॊकाद अजरामरात ॥ 7 ॥

  8. वेदाध्यायी धर्मपरः कुले जातॊ यशस्विनि सथविरेषु स यॊक्तव्यॊ राजभिर धर्मचारिभिः ॥ 8 ॥

  9. पापीयान हि स शूद्रेभ्यस तस्करेब्भ्यॊ विशेषतः शास्त्रातिगॊ मन्दबुद्धिर यॊ धर्मम अतिशङ्कते ॥ 9 ॥

  10. परत्यक्षं हि तवया दृष्ट ऋषिर गच्छन महातपाः मार्कण्डेयॊ ऽपरमेयात्मा धर्मेण चिरजीविताम ॥ 10 ॥

  11. वयासॊ वसिष्ठॊ मैत्रेयॊ नारदॊ लॊमशः शुकः अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥ 11 ॥

  12. परत्यक्षं पश्यसि हय एतान दिव्ययॊगसमन्वितान शापानुग्रहणे शक्तान देवैर अपि गरीयसः ॥ 12 ॥

  13. एते हि धर्मम एवादौ वर्णयन्ति सदा मम कर्तव्यम अमरप्रख्याः परत्यक्षागम बुद्धयः ॥ 13 ॥

  14. अतॊ नार्हसि कल्याणि धातारं धर्मम एव च रजॊ मूढेन मनसा कषेप्तुं शङ्कितुम एव च ॥ 14 ॥

  15. धर्मातिशङ्की नान्यस्मिन परमाणम अधिगछति आत्मप्रमाण उन्नद्धः शरेयसॊ हय अवमन्यकः ॥ 15 ॥

  16. इन्द्रियप्रीतिसंबद्धं यद इदं लॊकसाक्षिकम एतावान मन्यते बालॊ मॊहम अन्यत्र गच्छति ॥ 16 ॥

  17. परायश चितां न तस्यास्ति यॊ धर्मम अतिशङ्कते धयायन स कृपणः पापॊ न लॊकान परतिपद्यते ॥ 17 ॥

  18. परमाणान्य अतिवृत्तॊ हि वेद शास्त्रार्थनिन्दकः कामलॊभानुगॊ मूढॊ नरकं परतिपद्यते ॥ 18 ॥

  19. यस तु नित्यं कृतमतिर धर्मम एवाभिपद्यते अशङ्कमानः कल्याणि सॊ ऽमुत्रानन्त्यम अश्नुते ॥ 19 ॥

  20. आर्षं परमाणम उत्क्रम्य धर्मान अपरिपालयन सर्वशास्त्रातिगॊ मूढॊ शं जन्मसु न विन्दति ॥ 20 ॥

  21. शिष्टैर आचरितं धर्मं कृष्णे मा समातिशङ्किथाः पुराणम ऋषिभिः परॊक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ 21 ॥

  22. धर्म एव्व पलवॊ नान्यः सवर्गं दरौपदि गच्छताम सैव नौः सागरस्येव वणिजः पारम ऋच्छतः ॥ 22 ॥

  23. अफालॊ यदि धर्मः सयाच चरितॊ धर्मचारिभिः अप्रतिष्ठे तमस्य एतञ जगन मज्जेद अनिन्दिते ॥ 23 ॥

  24. निर्वाणं नाधिगच्छेयुर जीवेयुः पशुजीविकाम विघातेनैव युज्येयुर न चार्थं किं चिद आप्नुयुः ॥ 24 ॥

  25. तपश च बरह्मचर्यं च यज्ञः सवाध्याय एव च दानम आर्जवम एतानि यदि सयुर अफलानि वै ॥ 25 ॥

  26. नाचरिष्यन परे धर्मं परे परतरे चये विप्रलम्भॊ ऽयम अत्यन्तं यदि सयुर अफलाः करियाः ॥ 26 ॥

  27. ऋषयश चैव देवाश च गन्धर्वासुरराक्षसाः ईश्वराः कस्य हेतॊस ते चरेयुर धरम आदृताः ॥ 27 ॥

  28. फलदं तव इह विज्ञाय धातारं शरेयसि धरुवे धर्मं ते हय आचरन कृष्णे तद्धि धर्मसनातनम ॥ 28 ॥

  29. स चायं सफलॊ धर्मॊ न धर्मॊ ऽफल उच्यते दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा ॥ 29 ॥

  30. तवय्य एतद वै विजानीहि जन्म कृष्णे यथा शरुतम वेत्थ चापि यथा जातॊ धृष्टद्युम्नः परतापवान ॥ 30 ॥

  31. एतावद एव पर्याप्तम उपमानं शुचिस्मिते कर्मणां फलम अस्तीति धीरॊ ऽलपेनापि तुष्यति ॥ 31 ॥

  32. बहुनापि हय अविद्वांसॊ नैव तुष्यन्त्य अबुद्धयः तेषां न धर्मजं किं चित परेत्य शर्मास्ति कर्म वा ॥ 32 ॥

  33. कर्मणाम उत पुण्यानां पापानां च फलॊदयः परभवश चाप्ययश चैव देव गुह्यानि भामिनि ॥ 33 ॥

  34. नैतानि वेद यः कश चिन मुह्यन्त्य अत्र परजा इमाः रक्ष्याण्य एतानि देवानां गूढमाया हि देवताः ॥ 34 ॥

  35. कृशाङ्गाः सुव्रताश चैव तपसा दग्धकिल्बिषाः परसन्नैर मानसैर युक्ताः पश्यन्त्य एतानि वै दविजाः ॥ 35 ॥

  36. न फलादर्शनाद धर्मः शङ्कितव्यॊ न देवताः यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥ 36 ॥

  37. कर्मणा फलम अस्तीति तथैतद धर्मशाश्वतम बरह्मा परॊवाच पुत्राणां यद ऋषिर वेद कश्यपः ॥ 37 ॥

  38. तस्मात ते संशयः कृष्णे नीहार इव नश्यतु वयवस्त्य सर्वम अस्तीति नास्तिक्यं भावम उत्सृज ॥ 38 ॥

  39. ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः शिक्षस्वैनं नमस्वैनं मा ते भूद बुद्धिर ईदृशी ॥ 39 ॥

  40. यस्य परसादात तद भक्तॊ मर्त्यॊ गच्छत्य अमर्त्यताम उत्तमं दैवतं कृष्णे मातिवॊचः कथं चन ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 33

Previous: अध्याय 31