[वै] स ददर्श हतान भरातॄँल लॊकपालान इव चयुतान युगान्ते समनुप्राप्ते शक्र परतिमगौरवान ॥ 1 ॥
विप्रकीर्णधनुर बाणं दृष्ट्वा निहतम अर्जुनम भीमसेनं यमौ चॊभौ निर्विचेष्टान गतायुर अः ॥ 2 ॥
स दीर्घम उष्णं निःश्वस्य शॊकबाष्पपरिप्लुतः बुद्ध्या विचिन्तयाम आस वीराः केन निपातिताः ॥ 3 ॥
नैषां शस्त्रप्रहारॊ ऽसति पदं नेहास्ति कस्य चित भूतं महद इदं मन्ये भरातरॊ येन मे हताः एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम ॥ 4 ॥
सयात तु दुर्यॊधनेनेदम उपांशु विहितं कृतम गन्धार राजरचितं सततं जिह्मबुद्धिना ॥ 5 ॥
यस्य कार्यम अकार्यं वा समम एव भवत्य उत कस तस्य विश्वसेद वीरॊ दुर्मतेर अकृतात्मनः ॥ 6 ॥
अथ वा पुरुषैर गूढैः परयॊगॊ ऽयं दुरात्मनः भवेद इति महाबाहुर बहुधा समचिन्तयत ॥ 7 ॥
तस्यासीन न विषेणेदम उदकं दूषितं यथा मुखवर्णाः परसन्ना मे भरातॄणाम इत्य अचिन्तयत ॥ 8 ॥
एकैकशश चौघबलान इमान पुरुषसत्तमान कॊ ऽनयः परतिसमासेत कालान्तकयमाद ऋते ॥ 9 ॥
एतेनाध्यवसायेन तत तॊयम अवगाढवान गाहमानश च तत तॊयम अन्तरिक्षात स शुश्रुवे ॥ 10 ॥
[यक्स] अहं बकः शैवलमत्स्यभक्षॊ; मया नीताः परेतवशं तवानुजाः तवं पञ्चमॊ भविता राजपुत्र; न चेत परश्नान पृच्छतॊ वयाकरॊषि ॥ 11 ॥
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 12 ॥
[य] रुद्राणां वा वसूनां वा मरुतां वा परधानभाक पृच्छामि कॊ भवान देवॊ नैतच छकुनिना कृतम ॥ 13 ॥
हिमवान पारियात्रश च विन्ध्यॊ मलय एव च चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ 14 ॥
अतीव ते महत कर्मकृतं बलवतां वर यन न देवा न गन्धर्वा नासुरा न च राक्षसाः विषहेरन महायुद्धे कृतं ते तन महाद्भुतम ॥ 15 ॥
न ते जानामि यत कार्यं नाभिजानामि काङ्क्षितम कौतूहलं महज जातं साध्वसं चागतं मम ॥ 16 ॥
येनास्म्य उद्विग्नहृदयः समुत्पन्न शिरॊ जवरः पृच्छामि भगवंस तस्मात कॊ भवान इह तिष्ठति ॥ 17 ॥
[यक्स] यक्षॊ ऽहम अस्मि भद्रं ते नास्मि पक्षी जले चरः मयैते निहताः सर्वे भरातरस ते महौजसः ॥ 18 ॥
[वै] ततस ताम अशिवां शरुत्वा वाचं स परुषाक्षराम यक्षस्य बरुवतॊ राजन्न उपक्रम्य तदा सथितः ॥ 19 ॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम जवलनार्कप्रतीकाशम अधृष्यं पर्वतॊपमम ॥ 20 ॥
सेतुम आश्रित्य तिष्ठन्तं ददर्श भरतर्षभः मेघगन्मीरया वाचा तर्जयन्तं महाबलम ॥ 21 ॥
[यक्स] इमे ते भरातरॊ राजन वार्यमाणा मयासकृत बलात तॊयं जिहीर्षन्तस ततॊ वै सूदिता मया ॥ 22 ॥
न पेयम उदकं राजन पराणान इह परीप्सता पार्थ मा साहसं कार्षीर मम पूर्वपरिग्रहः परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 23 ॥
[य] नैवाहं कामये यक्ष तव पूर्वपरिग्रहम कामनैतत परशंसन्ति सन्तॊ हि पुरुषाः सदा ॥ 24 ॥
यदात्मना सवम आत्मानं परशंसेत पुरुषः परभॊ यथा परज्ञं तु ते परश्नान परतिवक्ष्यामि पृच्छ माम ॥ 25 ॥
[यक्स] किं सविद आदित्यम उन्नयति केच तस्याभितश चराः कश चैनम अस्तं नयति कस्मिंश च परतितिष्ठति ॥ 26 ॥
[य] बरह्माद इत्य अमुन नयति देवास तस्याभितश चराः धर्मश चास्तं नयति च सत्ये च परतितिष्ठति ॥ 27 ॥
[यक्स] केन सविच छरॊत्रियॊ भवति केन सविद विन्दते महत केन दवितीयवान भवति राजन केन च बुद्धिमान ॥ 28 ॥
[य] शरुतेन शरॊत्रियॊ भवति तपसा विन्दते महत धृत्या दवितीयवान भवति बुद्धिमान वृद्धसेवया ॥ 29 ॥
[यक्ष] किं बराह्मणानां देवत्वं कश च धर्मः सताम इव कश चैषां मानुषॊ भावः किम एषाम असताम इव ॥ 30 ॥
[य] सवाध्याय एषां देवत्वं तप एषां सताम इव मरणं मानुषॊ भावः परिवादॊ ऽसताम इव ॥ 31 ॥
[यक्स] किं कषत्रियाणां देवत्वं कश च धर्मः सताम इव कश चैषां मानुषॊ भावः किम एषाम असताम इव ॥ 32 ॥
[य] इष्वस्त्रम एषां देवत्वं यज्ञ एषां सताम इव भयं वै मानुषॊ भावः परित्यागॊ ऽसताम इव ॥ 33 ॥
[यक्स] किम एकं यज्ञियं साम किम एकं यज्ञियं यजुः का चैका वृश्चते यज्ञं कां यज्ञॊ नातिवर्तते ॥ 34 ॥
[य] पराणॊ वै यज्ञियं साम मनॊ वै यज्ञियं यजुः वाग एका वृश्चते यज्ञं तां यज्ञॊ नातिवर्तते ॥ 35 ॥
[यक्स] किं सविद आपततां शरेष्ठं बीजं निपततां वरम किं सवित परतिष्ठमानानां किं सवित परवदतां वरम ॥ 36 ॥
[य] वर्षम आपततां शरेष्ठं बीजं निपततां वरम गावः परतिष्ठमानानां पुत्रः परवदतां वरः ॥ 37 ॥
[यक्स] इन्द्रियार्थान अनुभवन बुद्धिमाँल लॊकपूजितः संमतः सर्वभूतानाम उच्छ्वसन कॊ न जीवति ॥ 38 ॥
[य] देवतातिथिभृत्यानां पितॄणाम आत्मनश च यः न निर्वपति पञ्चानाम उच्छ्वसन न स जीवति ॥ 39 ॥
[यक्स] किं सविद गुरुतरं भूमेः किं सविद उच्चतरं च खात किं सविच छीघ्रतरं वायॊः किं सविद बहुतरं नृणाम ॥ 40 ॥
[य] माता गुरुतरा भूमेः पिता उच्चरतश च खात मनॊ शीघ्रतरं वायॊश चिन्ता बहुतरी नृणाम ॥ 41 ॥
[यक्स] किं सवित सुप्तं न निमिषति किं सविज जातं न चॊपति कस्य सविद धृदयं नास्ति किं सविद वेगेन वर्घते ॥ 42 ॥
[य] मत्स्यः सुप्तॊ न निमिषत्य अण्डं जातं न चॊपति अश्मनॊ हृदयं नास्ति नदीवेगेन वर्धते ॥ 43 ॥
[यक्स] किं सवित परवसतॊ मित्रं किं सविन मित्रं गृहे सतः आतुरस्य च किं मित्रं किं सविन मित्रं मरिष्यतः ॥ 44 ॥
[य] सार्थः परवसतॊ मित्रं भार्या मित्रं गृहे सतः आतुरस्य भिषन मित्रं दानं मित्रं मरिष्यतः ॥ 45 ॥
[यक्स] किं सविद एकॊ विचरति जातः कॊ जायते पुनः किं सविद धिमस्य भैषज्यं किं सविद आवपनं महत ॥ 46 ॥
[य] सूर्य एकॊ विचरति चन्द्रमा जायते पुनः अग्निर हिमस्य भैषज्यं भूमिर आपवनं महत ॥ 47 ॥
[यक्स] किं सविद एकपदं धर्म्यं किं सविद एकपदं यशः किं सविद एकपदं सवर्ग्यं किं सविद एकपदं सुखम ॥ 48 ॥
[य] दाक्ष्यम एकपदं धर्म्यं दानम एकपदं यशः सत्यम एकपदं सवर्ग्यं शीलम एकपदं सुखम ॥ 49 ॥
[यक्स] किं सविद आत्मा मनुष्यस्य किं सविद दैवकृतः सखा उपजीवनं किं सविद अस्य किं सविद अस्य परायणम ॥ 50 ॥
[य] पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा उपजीवनं च पर्जन्यॊ दानम अस्य परायणम ॥ 51 ॥
[यक्स] धन्यानाम उत्तमं किं सविद धनानां किं सविद उत्तमम लाभानाम उत्तमं किं सवित किं सुखानां तथॊत्तमम ॥ 52 ॥
[य] धन्यानाम उत्तमं दाक्ष्यं धनानाम उत्तमं शरुतम लाभानां शरेष्ठम आरॊग्यं सुखानां तुष्टिर उत्तमा ॥ 53 ॥
[यक्स] कश च धर्मः परॊ लॊके कश च धर्मः सदा फलः किं नियम्य न शॊचन्ति कैश च संधिर न जीर्यते ॥ 54 ॥
[य] आनृशंस्यं परॊ धर्मस तरयीधर्मः सदा फलः अनॊ यम्य न शॊचन्ति सद्भिः संधिर न जीर्यते ॥ 55 ॥
[यक्स] किं नु हित्वा परियॊ भवति किं नु हित्वा न शॊचति किं नु हित्वार्थवान भवति किं नु हित्वा सुखी भवेत ॥ 56 ॥
[य] मानं हित्वा परियॊ भवति करॊधं हित्वा न शॊचति कामं हित्वार्थवान भवति लॊभं हित्वा सुखू भवेत ॥ 57 ॥
[यक्स] मृतं कथं सयात पुरुषः कथं राष्ट्रं मृतं भवेत शराधं मृतं कथं च सयात कथं यज्ञॊ मृतॊ भवेत ॥ 58 ॥
[य] मृतॊ दरिद्रः पुरुषॊ मृतं राष्ट्रम अराजकम मृतम अश्रॊत्रियं शराद्धं मृतॊ यज्ञॊ तव अदक्षिणः ॥ 59 ॥
[यक्स] का दिक किम उदकं परॊक्तं किम अन्नं पार्थ किं विषम शराद्धस्य कालम आख्याहि ततः पिब हरस्व च ॥ 60 ॥
[य] सन्तॊ दिग जलम आकाशं गौर अन्नं परार्थना विषम शराद्धस्य बराह्मणः कालः कथं वा यक्ष मन्यसे ॥ 61 ॥
[यक्स] वयाख्याता मे तवया परश्ना याथातथ्यं परंतप पुरुषं तव इदानीम आख्याहि यश च सर्वधनी नरः ॥ 62 ॥
[य] दिवं सपृशति भूमिं च शब्दः पुण्यस्य कर्मणः यावत स शब्दॊ भवति तावत पुरुष उच्यते ॥ 63 ॥
तुल्ये परियाप्रिये यस्य सुखदुःखे तथैव च अतीतानागते चॊभे स वै सर्वधनी नरः ॥ 64 ॥
[यक्स] वयाख्यातः पुरुषॊ राजन यश च सर्वधनी नरः तस्मात तवैकॊ भरातॄणां यम इच्छसि स जीवतु ॥ 65 ॥
[य] शयामॊ य एष रक्ताक्षॊ बृहच छाल इवॊद्गतः वयूढॊरस्कॊ महाबाहुर अङ्कुलॊ यक्ष जीवतु ॥ 66 ॥
[यक्स] परियस ते भीमसेनॊ ऽयम अर्जुनॊ वः परायणम स कस्मान नकुलं राजन सापत्नं जीवम इच्छसि ॥ 67 ॥
यस्य नागसहस्रेण दश संख्येन वै बलम तुल्यं तं भीमम उत्सृज्य नकुलं जीवम इच्छसि ॥ 68 ॥
तथैनं मनुजाः पराहुर भीमसेनं परियं तव अथ केनानुभावेन सापत्नं जीवम इच्छसि ॥ 69 ॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः अर्जुनं तम अपाहाय नकुलं जीवम इच्छसि ॥ 70 ॥
[य] आनृशंस्य परॊ धर्मः परमार्थाच च मे मतम आनृशंस्यं चिकीर्षामि नकुलॊ यक्ष जीवतु ॥ 71 ॥
धर्मशीलः सदा राजा इति मां मानवा विदुः सवधर्मान न चलिष्यामि नकुलॊ यक्ष जीवतु ॥ 72 ॥
यथा कुन्ती तथा माद्री विशेषॊ नास्ति मे तयॊः मातृभ्यां समम इच्छामि नकुलॊ यक्ष जीवतु ॥ 73 ॥
[यक्स] यस्य ते ऽरथाच च कामाच च आनृशंस्यं परं मतम अस्मात ते भरातरः सर्वे जीवन्तु भरतर्षभ ॥ 74 ॥
वनपर्व · Vana Parva
अध्याय 297
Reach this point to mark the section finished.
Continue to अध्याय 298