[य] नापदाम अस्ति मर्यादा न निमित्तं न कारणम धर्मस तु विभजत्य अत्र उभयॊः पुण्यपापयॊः ॥ 1 ॥
[भीम] परातिकाम्य अनयत कृष्णां सभायां परेष्यवत तदा न मया निहतस तत्र तेन पराप्ताः सम संशयम ॥ 2 ॥
[अर्ज] वाचस तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः अतितीक्ष्णा मया कषान्तास तेन पराप्तः सम संशयम ॥ 3 ॥
[सहदेव] शकुनिस तवां यदाजैषीद अक्षद्यूतेन भारत स मया न हतस तत्र तेन पराप्ताः सम संशयम ॥ 4 ॥
[वै] ततॊ युधिष्ठिरॊ राजा नकुलं वाक्यम अब्रवीत आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशॊ दश ॥ 5 ॥
पानीयम अन्तिके पश्य वृक्षान वाप्य उदकाश्रयान इमे हि भरातरः शरान्तास तव तात पिपासिताः ॥ 6 ॥
नकुलस तु तथेत्य उक्त्वा शीघ्रम आरुह्य पादमम अब्रवीद भरातरं जयेष्ठम अभिवीक्ष्य समन्ततः ॥ 7 ॥
पश्यामि बहुलान राजन वृक्षान उदकसंश्रयान सारसानां च निर्ह्रादम अत्रॊदकम असंशयम ॥ 8 ॥
ततॊ ऽबरवीत सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम आनय ॥ 9 ॥
नकुलस तु तथेत्य उक्त्वा भरातुर जयेष्ठस्य शासनात पराद्रवद यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ 10 ॥
स दृष्ट्वा विमलं तॊयं सारसैः परिवारितम पातु काकस ततॊ वाचम अन्तरिक्षात स शुश्रुवे ॥ 11 ॥
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः परश्नान उक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ 12 ॥
अनादृत्य तु तद वाक्यं नकुलः सुपिपासितः अपिबच छीतलं तॊयं पीत्वा च निपपात ह ॥ 13 ॥
चिरायमाणे नकुले कुन्तीपुत्रॊ युधिष्ठिरः अब्रवीद भरातरं वीरं सहदेवम अरिंदमम ॥ 14 ॥
भराता चिरायते तात सहदेव तवाग्रजः तं चैवानय सॊदर्यं पानीयं च तवम आनय ॥ 15 ॥
सहदेवस तथेत्य उक्त्वा तां दिशं परत्यपद्यत ददर्श च हतं भूमौ भरातरं नकुलं तदा ॥ 16 ॥
भरातृशॊकाभिसंतप्तस तृषया च परपीडितः अभिदुद्राव पानीयं ततॊ वाग अभ्यभाषत ॥ 17 ॥
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः परश्नान उक्त्वा यथाकामं ततः पिब हरस्व च ॥ 18 ॥
अनादृत्य तु तद वाक्यं सहदेवः पिपासितः अपिबच छीतलं तॊयं पीत्वा च निपपात ह ॥ 19 ॥
अथाब्रवीत स विजयं कुन्तीपुत्रॊ युधिष्ठिरः भरातरौ ते चिरगतौ बीभत्सॊ शत्रुकर्शन तौ चैवानय भद्रं ते पानीयं च तवम आनय ॥ 20 ॥
एवम उक्तॊ गुडाकेशः परगृह्य सशरं धनुः आमुक्तखड्गॊ मेधावी तत सरॊ परत्यपद्यत ॥ 21 ॥
यतः पुरुषशार्दूलौ पानीय हरणे गतु तौ ददर्श हतौ तत्र भरातरौ शवेतवाहनः ॥ 22 ॥
परसुप्ताव इव तौ दृष्ट्वा नरसिंहः सुदुःखितः धनुर उद्यम्य कौन्तेयॊ वयलॊकयत तद वनम ॥ 23 ॥
नापश्यत तत्र किं चित स भूतं तस्मिन महावने सव्यसाची ततः शरान्तः पानीयं सॊ ऽभयधावत ॥ 24 ॥
अभिधावंस ततॊ वाचम अन्तरिक्षात स शुश्रुवे किम आसीद असि पानीयं नैतच छक्यं बलात तवया ॥ 25 ॥
कौन्तेय यदि वै परश्नान मयॊक्तान परतिपत्स्यसे ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ 26 ॥
वारितस तव अब्रवीत पार्थॊ दृश्यमानॊ निवारय यावद बाणैर विनिर्भिन्नः पुनर नैवं वदिष्यसि ॥ 27 ॥
एवम उक्त्वा ततः पार्थः शरैर अस्त्रानुमन्त्रितैः ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन ॥ 28 ॥
कर्णिनालीकनाराचान उत्सृजन भरतर्षभ अनेकैर इषुसंघातैर अन्तरिक्षं ववर्ष ह ॥ 29 ॥
[यक्स] किं विघातेन ते पार्थ परश्नान उक्त्वा ततः पिब अनुक्त्वा तु ततः परश्नान पीत्वैव न भविष्यसि ॥ 30 ॥
[वै] स तव अमॊघान इषून मुक्त्वा तृष्णयाभिप्रपीडितः अविज्ञायैव तान परश्नान पीत्वैव निपपात ह ॥ 31 ॥
अथाब्रवीद भीमसेनं कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च बीभत्सुश चापराजितः ॥ 32 ॥
चिरं गतास तॊयहेतॊर न चागच्छन्ति भारत तांश चैवानय भद्रं ते पानीयं च तवम आनय ॥ 33 ॥
भीमसेनस तथेत्य उक्त्वा तां दिशं पत्यपद्यत यत्र ते पुरुषव्याघ्रा भरातरॊ ऽसय निपातिताः ॥ 34 ॥
तान दृष्ट्वा दुःखितॊ भीमस तृषया च परपीडितः अमन्यत महाबाहुः कर्म तद यक्षरक्षसाम स चिन्तयाम आस तदा यॊद्धव्यं धरुवम अद्य मे ॥ 35 ॥
पास्यामि तावत पानीयम इति पार्थॊ वृकॊदरः ततॊ ऽभयधावत पानीयं पिपासुः पुरुषर्षभः ॥ 36 ॥
[यक्स] मा तात साहसं कार्षीर मम पूर्वपरिग्रहः परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 37 ॥
[वै] एवम उक्तस ततॊ भीमॊ यक्षेणामित तेजसा अविज्ञायैव तान परश्नान पीत्वैव निपपात ह ॥ 38 ॥
ततः कुन्तीसुतॊ राजा विचिन्त्य पुरुषर्षभः समुत्थाय महाबाहुर दह्यमानेन चेतसा ॥ 39 ॥
अपेतजननिर्घॊषं परविवेश महावनम रुरुभिश च वराहैश च पक्षिभिश च निषेवितम ॥ 40 ॥
नीलभास्वरवर्णैश च पादपैर उपशॊभितम भरमरैर उपगीतं च पक्षिभिश च महायशः ॥ 41 ॥
स गच्छन कानने तस्मिन हेमजालपरिष्कृतम ददर्श तत सरॊ शरीमान विश्वकर्म कृतं यथा ॥ 42 ॥
उपेतं नलिनी जालैः सिन्धुवारैश च वेतसैः केतकैः करवीरैश च पिप्पलैश चैव संवृतम शरमार्तस तद उपागम्य सरॊ दृष्ट्वाथ विस्मितः ॥ 43 ॥
वनपर्व · Vana Parva
अध्याय 296
Reach this point to mark the section finished.
Continue to अध्याय 297