[वै] एतस्मिन्न एव काले तु धृतराष्ट्रस्य वै सखा सूतॊ ऽधिरथ इत्य एव सदारॊ जाह्नवीं ययौ ॥ 1 ॥
तस्य भार्याभवद राजन रूपेणासदृशी भुवि राधा नाम महाभागा न सा पुत्रम अविन्दत अपत्यार्थे परं यत्नम अकरॊच च विशेषतः ॥ 2 ॥
सा ददर्शाथ मञ्जूषाम उह्यमानां यदृच्छया दत्तरक्षा परतिसराम अन्वालभन शॊभिताम ऊर्मी तरङ्गैर जाह्नव्याः समानीताम उपह्वरम ॥ 3 ॥
सा तां कौतूहलात पराप्तां गराहयाम आस भामिनी ततॊ निवेदयाम आस सूतस्याधिरथस्य वै ॥ 4 ॥
स ताम उद्धृत्य मञ्जूषाम उत्सार्य जलम अन्तिकात यन्त्रैर उद्घाटयाम आस यॊ ऽपश्यत तत्र बालकम ॥ 5 ॥
तरुणादित्यसंकाशं हेमवर्म धरं तथा मृष्टकुण्डलयुक्तेन वदनेन विराजिता ॥ 6 ॥
ससूतॊ भार्यया सार्धं विस्मयॊत्फुल्ललॊचनः अङ्कम आरॊप्य तं बालं भार्यां वचनम अब्रवीत ॥ 7 ॥
इदम अत्यद्भुतं भीरु यतॊ जातॊ ऽसमि भामिनि दृष्टवान देवगर्भॊ ऽयं मन्ये ऽसमान समुपागतः ॥ 8 ॥
अनपत्यस्य पुत्रॊ ऽयं देवैर दत्तॊ धरुवं मम इत्य उक्त्वा तं ददौ पुत्रं राधायैर स महीपते ॥ 9 ॥
परतिजग्राह तं राधा विधिवद दिव्यरूपिणम पुत्रं कमलगर्भाभं देवगर्भं शरिया वृतम ॥ 10 ॥
पुपॊष चैनं विधिवद ववृधे स च वीर्यवान ततः परभृति चाप्य अन्ये पराभवन्न औरसाः सुताः ॥ 11 ॥
वसु वर्म धरं दृष्ट्वा तं बालं हेमकुण्डलम नामास्य वसुषेणेति ततश चक्रुर दविजातयः ॥ 12 ॥
एवं ससूतपुत्रत्वं जगामामित विक्रमः वसुषेण इति खयातॊ वृष इत्य एव च परभुः ॥ 13 ॥
स जयेष्ठपुत्रः सूतस्य ववृधे ऽङगेषु वीर्यवान चारेण विदितश चासीत पृथाया दिव्यवर्म भृत ॥ 14 ॥
सूतस तव अधिरथः पुत्रं विवृद्धं समये ततः दृष्ट्वा परस्थापयाम आस पुरं वारणसाह्वयम ॥ 15 ॥
तत्रॊपसदनं चक्रे दरॊणस्येष्व अस्त्रकर्मणि सख्यं दुर्यॊधनेनैवम अगच्छत स च वीर्यवान ॥ 16 ॥
दरॊणात कृपाच च रामाच च सॊ ऽसत्रग्रामं चतुर्विधम लब्ध्वा लॊके ऽभवत खयातः परमेष्वासतां गतः ॥ 17 ॥
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये सथितः यॊद्धुम आशंसते नित्यं फाल्गुनेन महात्मना ॥ 18 ॥
सदा हि तस्य सपर्धासीद अर्जुनेन विशां पते अर्जुनस्य च कर्णेन यतॊ दृष्टॊ बभूव सः ॥ 19 ॥
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम अवध्यं समरे मत्वा पर्यतप्यद युधिष्ठिरः ॥ 20 ॥
यदा तु कर्णॊ राजेन्द्र भानुमन्तं दिवाकरम सतौति मध्यंदिने पराप्ते पराञ्जलिः सलिले सथितः ॥ 21 ॥
तत्रैनम उपतिष्ठन्ति बराह्मणा धनहेतवः नादेयं तस्य तत काले किं चिद अस्ति दविजातिषु ॥ 22 ॥
तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षां देहीत्य उपस्थितः सवागतं चेति राधेयस तम अथ परत्यभाषत ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 293
Reach this point to mark the section finished.
Continue to अध्याय 294